संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| नवमोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - नवमोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत नवमोऽध्याय: । Translation - भाषांतर श्रीकृष्ण उवाच ।अत: पर प्रवक्ष्यामि ज्येष्ठिन: श्रमजान् गुणान् ।उदयो लभ्यते यस्तु लोके कीर्तिरनुत्तम् (मा) ॥१॥व्यायागोभिह्स्तथाहारो बलप्राणसमुच्चय: ।काठिन्यतोद्यमोत्साहलघूकरणमेव च ॥२॥शौर्यकर: सुखकरस्तथा मतिकरोऽपि च ।मानकरो हर्षकर: सौभाग्यकर एव च ॥३॥भयहरा: कफहरो मेदोहर इति स्मृत: ।सदा केशहरो लोके जडत्वहरा एव च ॥४॥आलस्यहरणं चैव शत्रुनाशस्तथैव च ।वातहर: पित्तहरस्तथा बलिहरोपि च ॥५॥राजप्रासादकरणं तथार्थकारणं परम् ।यश: करोति सततं स्वजनाहादकारक: ॥६॥दुर्जनानां दाहकरो ह्यनुरागकरो यत: ।सर्वकार्यकरश्चेति ज्येष्ठिन: श्रमलक्षणम् ॥७॥श्रमहेतोर्गुणा: सर्वे प्रभवन्ति न संशय: ।श्रमं विना वितश्यन्ति तस्मात्कार्य: श्रम: सदा ॥८॥पश्चाभि: स्वाडसंस्थानैर्जातिस्थानैश्चतुर्विधै: ।पादस्थानैश्चतुर्भिश्च विविधाकारेचेष्टितै: ॥९॥उत्पादितं मया पूर्व मल्लाना हितकाम्यया ।पटूप्रकारैश्च घातैश्च पट्प्रकारैश्च घातैश्च: ॥१०॥हरीतकी सैन्धवं च हिंगु पिप्पली नागरम् ।गोलयित्वोपभुक्तेन जाठरोग्रि: प्रवर्धते ॥४३॥हरीतक्येकादशगुणा विज्ञेया शास्त्रपारगै: ।आयुप्या चक्षुप्या चैव लवणा मधुरा रसा ॥४४॥तथोप्मदीपनी चैव दोषघ्री शोषकुष्ठनुत् ।व्रणान्यापाहरेद् वातानेकादशगुणा स्मृता ॥४५॥पिप्पल्येकादशगुणा स्त्रिग्धोण्णा मधुरापि च ।रुक्षा च कटुका चैव दीपनी सारकारिणी ।भरुत्श्लेप्मश्चासकासरोगबन्धविनाशिनी ॥४६॥हिडुश्चैकादशगुणो लघूष्ण: पाचनेपि च ।दीपन: कफवातघ्र: स्त्रिग्धश्च कटुतिक्तक: ।शूलाजीणाविबन्धघ्री चैवमेकादशेव तु ॥४७॥सैन्धवश्च (स्य) नव गुणा: स्वादुबांलवणोत्कट : ।चक्षुप्यो रेचको वृप्य: पाचनोप्यतिदाहक: ।विबन्धघ्रो मलघ्रश्च नवैते विमला गुणा: ॥४८॥मया तव समाख्याता: सर्वे ते पुष्टिहेतवे ।अन्यानि चापि वक्ष्यामि मल्लाना पुष्टिकारिणाम् ॥४९॥ससत्वमत्स्यमांसानि दधिदुग्धधृतानि च ।शाकमूलफलदानि पानकानि बहून्यपि ॥५०॥तत्राडीकृताखण्डस्य संभवन्ति गुणाम्त्विमे ।वातहरं पित्तहरं तथैव च सुशीतलम् ॥५१॥चक्षुप्यं बृहणं हद्यं बल्यं वृप्यं तथैव च ।एते खण्डस्य विज्ञेया नवधा कीर्तिता गुणा: ॥५२॥शर्करा तु नवगुणा कथिता पूर्वसूरिभि: ।ज्वरहरा पित्तहरा तथा शीतकरापि च ॥५३॥छर्दिहरा तृड्हरा तथा श्लेप्महरापि च ।मूर्छाहस क्लेशहरा विपघ्री चैव कथ्यते ॥५४॥भाक्षिकं मधु विज्ञेयं संयुक्तं नवभिर्गुणै: ।कपायं शीतलं रुक्षं मधुरं दीपनं तथा ॥५५॥तथैव लेखनं चैव बल्यं व्रणविशोधनम् ।शोषणं चैव नवधा भाक्षिकस्य गुणा इमे ॥५६॥गव्यं पयो दशगुणं श्रूयताअं च यथा तथा ।रसायनं बलकरं हृद्यं मेधाकरं तथा ॥५७॥आयुप्यं पुष्टिदं चैव तथा वातहरं परम् ।रक्तकरं पित्तहरं विकारहरमेव च ॥५८॥अजापयो नवगुणं कपायं मधुरं तथा ।संग्राहिकं शीतलं च लघु रक्तकरं तथा ॥५९॥विशेषत: पित्तहरमतिसारघ्रमेव च ।क्षयकासज्वरहरं तेन सेव्य सदा भवेत् ॥६०॥माहिप्यं सप्तधा दुग्धं कथितं पूर्वसूरिभि: ।माहिप्यां च हि मधुरं वहिनाशनमेव च ॥६१॥निद्राकरं शीतकर जडत्वकरमेव च ।भेद: करं कफकरं कथिता: सप्त गुणा इमे ॥६२॥गव्यं दधि स्वादुकरं म(ब) लकं ग्राहकं तथा ।उष्मघ्रं च वातघ्रं भेद: शुक्रकरं तथा ॥६३॥रक्तपित्तश्लेप्मशोपनाशनं स्त्रिग्धमेव च ।तथैव पाके मधुरं दीपनं बलवर्धनम् ॥६४॥वातहरं पवित्रं च रुचिकाग्रिकर तथा ।इति ज्ञात्वा प्रयोक्तव्यं गव्यं दधि यथोचितम् ॥६५॥आज दधि चाष्टगुणं कफवातहरं परम् ।पाचनं बलसंयुक्तं कृमिनाशनमेव च ॥६६॥कासहरं श्वासहरं अग्रिदीपनमेव च ।एवंगुण च विज्ञाय भोक्तव्यं सर्वदा दधि ॥६७॥माहिप व्दादशगुण दधि निश्चित्य कथ्यते ।विपाके मधुरं वृप्यं रक्तपित्तहरं तथा ॥६८॥बलसंवर्धनं स्रिग्धं महन्न्मादकमेव च ।मधुरं कफहर चैव मेदोवृध्दिकरं परम् ॥६९॥रसे पाके च मधुरं तथा वातकरं परम् ।गव्यघृतस्य चाष्टौ ये गुणा मे कथितास्तव ॥७०॥विपाके मधुरं चैव वातपित्तहरं तथा ।विपहर चाग्निकर चक्षुनिर्मलकाराकम् ॥७१॥तथा बलकर चैव गुणा गव्यघृतस्य च ।आजस्य च घृतस्यापि गुणास्तेपि प्रकीर्तिता: ॥७२॥चाक्षुप्यं दीपनं मल्यं कासघ्रं श्वासनाशनन् ।क्षयरोगहरं चैव अजाया घृतमुत्तमम् ॥७३॥माहिपस्य घृतस्येव गुणा: सप्त प्रकीर्तिता: ।मधुरं पित्तरक्तघ्रं गुरु पाके क्षयापहम् ॥७४॥वातघ्रं शीतल चैव माहिपं घृतमुत्तमम् ।रक्ताशलिश्चाष्टगुणो नयविद्भिर्रुदाहृत ॥७५॥चक्षुप्य. शुक्रकृत् चैव मूत्रकृत् परमार्थत ।तृपाहरो बलकरो हृद्य म्वरकरोऽपि च ॥७६॥गौरपष्टिश्चतुर्धा तु गुरुशीतार्तिदोपहृत् ।यवाश्चाष्टादशगुणा रुक्षा शीतास्तथैव च ॥७७॥गुरव म्बादुवन्तश्च शीतला वातकारका: ।वप्यस्थैर्यकराश्चैव पित्तहन्तार एव च ॥७८॥मेदोहरी: कफहरास्तथा चाग्निकरा अपि ।पित्त अर्प (त्ताशो) हरा श्वासकासघ्नाश्च विशेषत ।गुरुस्तम्भहराश्चेव कण्ठरोगहरास्तथा ॥७९॥गोधूमा व्दादशगुणा वातला गुरवाम्तथा ।स्निग्धाश्च जीवनाश्चैव वातपित्तहरा अपि ।सन्धानका सुमधुरा शीतला: स्थिरकारका: ॥८०॥मुद्राश्चतुर्गुणा ज्ञेया कफपित्तहरास्तथा ।कपाया मधुरा प्रोक्त एते मुद्रगुणा: स्मृता: ॥८१॥चणक षड्गुण प्रोक्त कफहृत् पित्तहृत् तथा ।शुक्रहरो वातकर: शीतमोहहरस्तथा ॥८२॥आढकी व्दिगुणा प्रोक्ता: कफपित्तहरा स्मृता ।मापाश्च व्दादशगुणा: स्रिग्धाश्च मधुरास्तथा ॥८३॥वृप्यो मेदकरश्चैव कफमांसकरोऽपि च ।वातकृत् बृंहणश्चैव बलयुक्तं: पुरीपकृत् ॥८४॥गुरुर्भवति तेनैव माप: सर्वेषु शस्यते ।एते व्दादश गुणा: प्रोक्ता गुणान्मांसस्य बोधत ॥८५॥कपायं मधुरं चैव हृद्यं पित्तहरं तथा ।असृग् हरं चाग्रिकरं कफवातहरं तथा ॥८६॥संग्राहिकं रोचकं च बलकृत् ज्वरहरं तथा ।एकादशगुणं मांसं शीर्षरोगहरं परम् ॥८७॥सुखादुमतिसारं च पित्तासृकहरं परम् ।अशाघ्र लघु रुक्ष च कपाय स्वादु चैव हि ।बहुविष्ठाकरं चैव शीतल च विशेषत: ॥८८॥आजमांसमष्टगुणं स्रिग्ध वृध्दिकरं परम् ।अब्घिप्यन्दहरं चैव नात्युष्ण धातुसाम्यकम् (कृत्) ॥८९॥बलकरं बृहणं च तथा वातहरं परम् ।सरस्सं मांसं च परं कफवातहरं तथा ॥९०॥अथ भोजनम् ।अतिमात्र तु रोगाय अंशदोषचतुष्टकम् (?) ।भोजन हीनमात्र च बलं तेन प्रजायते ॥९१॥हेमन्ते शीतासंरोधाद्ं धातूननलो वायुनेरित: ॥९२॥ N/A References : N/A Last Updated : December 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP