संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| त्रयोदशोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - त्रयोदशोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत त्रयोदशोऽध्याय: । Translation - भाषांतर मल्लयुध्दं सविज्ञानं विशेष कथितं तव ।इदानीमुपयोग: स्यातस्य विस्तारयाम्यहम् ॥१॥द्रष्टव्यं सततं राज्ञा शास्त्रेण च विवेकिना ।संग्रामरसिकेनैव नित्यं विविधबुध्दिना ॥२॥युध्दमुत्साहजननं दु:स्वाहन्तृ विनोदनम् ।मल्लयुध्दसमं नास्ति तेन शुध्दं समारभेत् ॥३॥जित्वा च सकलान् रिपुन प्रायो निष्कण्टका मही ।दाविनियाश्च युध्देन राज्ञा नान्य विनोदनम् ॥४॥अतो रडं समाहूय चतुरैर्नागरै: परै: ।कलाविद्भिरमात्यैश्च सुहृद्भिश्चैव उत्सवे: ॥५॥आहारारोग्यसंपन्ना श्रमोत्साहसमन्वित ।समतं मध्यमं ज्ञेयं सिहमानं तथाऽधमम् ॥६॥इति ज्ञात्वा विधानेव (नेन) देशकालविशेषि (प) त: ।कदाचित्कालयोगेन विशेषो भवति श्रमे ॥७॥तथैव भेद्सारेण कफवातयुतेन ते ।सदा गौणितककटिप्राणसंप्राणमेव च ॥८॥पवनस्य जयश्चैव एतदष्टगुणं स्मृतम् ।मल्लानां विजयकरं तम्मादेतन्ममभ्यनेत् ॥९॥अष्टधा भवति प्राणं बाहुप्रेरणिकथम्यनेत् ।तलहस्तभवं प्राणं भुजप्राणं तथैव च ॥१०॥स्कन्धप्राणनुर प्राणं भुजणीपवनं तथा।जानुपानं कटिप्राण रोपनं नवपादयो: ॥११॥ऊर्ध्वस्थायिकमेवैतत् प्राण एकादशात्मक: ।अत: सर्वप्रकारेण श्रममेव सदाभ्यसेत् ॥१२॥ऊहापोहस्तु कर्तव्य. प्रतिमल्लसमागमे ।यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥१३॥ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।कथं च धारयिप्यामि कथं स्थाप्यामि वा पुन: ॥१४॥कथं च धारायिप्यामि गमिप्यामि च वा कथम् ।गृह्यते वा कथं ह्येप रक्ष्यते वा कथं पर: ॥१५॥कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।गुरुगोणितकाभेदा श्रेष्ठा सप्तद्शापि वा ॥१६॥तानहं कथयिप्यामि यथायोग्यं तथावलम् ।प्रथमं च नमस्कृत्य कक्षायां जानुसभवम् ॥१७॥ध्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।तथैव कुक्षिजानुभ्या तले कृत्वा विधारणम् ॥१८॥धृतेनापि वशं तिष्ठेत्ततो याति तथा पुन: ।उरसा धारणं तस्मात्ततो दण्डविधारणम् ॥१९॥पुनश्चैव तु जानुभ्या तले हस्तविधारणम् ।पुनरुत्तिष्ठविंशति यशाशक्त्या समभ्यसेत् ॥२०॥ध्रियते वाड् घ्रिजानुभ्या लोलयेच्च पुन: पुन ।धारणं तलपादाभ्या तथैव च पुन: क्रमात् ॥३१॥अथ धारयकन्ये (स्यै) व स्थानानि परिपूरयेत् ।शिरसा धारणं चैव शिरसो हननं तत: ॥२२॥बाहुचालनमेवोक्तं चरणग्रहणमेव च ।पदस्य संधिग्रहणं करसंधिस्तथैव च ॥२३॥सर्वाडे चालनं चैव भेदा: सप्तदश स्मृता: ।गुरुणोणिताभ्यां चैव वर्धते प्राण उत्तम: ॥२४॥एकोनविशत्यधिकं कथ्यतेऽथ यथा शृणु ।जडाप्राणू (ण) मुर: कण्ठप्राणं च उत्तमम् ॥२५॥सर्वाडस्थानसंभूतं जायते प्राणमष्टधा ।इति ज्ञात्वा च सततं सादरं च समभ्यसेत् ॥२६॥भयात्वेवं समाख्यात: सर्वे विजयहेतवे ।त्रय: पीडनका भेदा: कथिता मल्लकर्मणी ॥२७॥तलह्स्तविधारणं कक्षाधारणमेव च ।भुजसंधिधारणं च त्रय: पीडनकेऽधमा: ॥२८॥गुणा भवन्ति ये चान्ये शृणु तान् कथितान् मया ।प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात् ॥२९॥कक्षाप्राणं च भवति प्राणं च अकरसंधिजम् ।तलहस्तभवं प्राणं पादप्राण भवत्यपि ॥३०॥इति पीडानिकाभ्यां च दृढप्राणं चतुष्टयम् ।प्राणपद्मं गदाभ्यासात् कर्तुर्भवति सर्वदा ॥३१॥तलहस्तप्राणं चात्र भुजप्राणं तथा पुन: ।यो वा छोटनकाभ्यासात् प्राणत्रयसमुद्भव: ॥३२॥तलहस्तमवं प्राणं पोवाप्राणं तथैव च ।भुजप्राणं तथैवात्र सदा तेन सम्भ्यसेत् ॥३३॥मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात् ॥३४॥जहाप्राणं च प्रथमं कटिप्राणस्तथैव च ।जितश्चामध भवति हृदयं दृढमेव च ॥३५॥कडुका (कुण्डक)वर्तनाभ्यासात् सदा तेन समाचरेत् ।कर्करश्रमकायोगात्प्राण चैव चतुर्विधा (धम्) ॥३६॥जडाप्राण कटिप्राण लघु तव भवत्यपि ।पदनस्य जयश्चेव अर्धश्च जायते सदा ॥३७॥तेन तत्सर्वदा कुर्यात्कर्करश्रममुत्तमम् ।प्राणव्दयं जलाभ्यासात्कर्त्तुर्भवति निश्वितम् ॥३८॥भुजप्राणमुर प्राण सर्वं तेन समाचरेत् ।सोपानरोहणे चेव प्राणत्र्यमुदाहॄतम् ॥३९॥भोजनार्धभ्रमात्पुसा त्रिविध प्राणमेव च ।जायते सर्वसामान्य तथैव च समावरेत् ॥४०॥पश्चदशविधानोपि श्रमे प्राणसमुद्भव ।एव रडसमभ्यासात्प्रशमो जायते तनु ॥४१॥तेन सर्वश्रमाणा तु ज्येष्ठी रडश्रमोधिक ।इति ज्ञात्वा गुणान्सर्वानुत्तमा गुणहेतव ॥४२॥मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।अष्टो गुणा भवन्त्येते शृणु वा कथयाम्यहम् ॥४३॥श्वासहरा वृध्दिकरा तथा श्रमहरापि च ।भेदोहरा प्राणकरा सुशरीरकरापि च ॥४४॥तथोत्करकरौ चैव तथाप्यायनकरापि (च)।देयास्थिमाससारस्य भीमसेनी च मर्दनी ॥४५॥त्वक् रुधिरमासमेदपर्यन्तेनाभिसयुता ।गुणा सप्त भवन्त्यत्र स्फुट ते कथयाम्यहम् ॥४६॥निद्रा करोति प्रथम तथा तेज करोति च ।शौर्यकरा दीपनी च अडशुध्दिकरेति च ॥४७॥कुरुस्तेऽत्यन्तशोभा च मनस्थिरकरा तथा ।भीमसेनी च दातव्या मांससारस्य मर्दना ॥४८॥त्वग् रुधिरमांसपुष्टस्य लघुसारेण वर्ध्दयेत् ।करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥४९॥उत्साहं कुरुते चाशु तथा हृदं करोति च ।सुखं करोति परमं लाघवं कुरुते परम् ॥५०॥मेधां ददाति परमां तन्द्रां च हरयेत्सदा ।एवं सा कुरते भद्र श्वाससार्स्य मर्दना ॥५१॥तेन सर्वैस्तथा सेव्यो मल्लै: सर्वाडसिध्दये ।तथा मासास्थिसारस्य लध्वी देया च मर्दना ॥५२॥त्वग् रुधिरपुष्टिकरा प्रजाहादप्रदाघिनी ॥चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥५३॥कायशोधकरा चैव कायामार्दवकारिका ।मर्दनाय परा नास्ति कार्या सौप्ठवकारका ॥५४॥अस्थिगता मासगता तथा मलगतापि वा ।श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥५५॥प्रथमा भीमसेनी च तथा नारायणी परा ।तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥५६॥चेत-प्रकारा चैवेयं कथिता कैटभारिणा ।प्रथमा चरणे देया व्दितीया जानुति न्यसेत् ॥५७॥तृतीया च करे देया मसृणी पट्टके तथा ।पुनश्चतुर्विधा देया व्दात्रिंशद्गुणकारिका ॥५८॥तथा त्रयोदशगुणैर्हेतुभिनांमदोहरा ।श्रमहरा तथा वातहरा च कफहारिणी ॥५९॥अग्निकरा वृध्दिकरा तनुविस्तारकारिका ।काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥६०॥इत्यास्थिता त्रिदशधा कथिता मर्दना मया ।कष्टं हरन्ति नि:शेषजडत्वं यात्यसंशयम् ॥६१॥श्रमवानसि वातीति मांसस्य मर्दको भवेत् ।भीमसेना च मल्लानां देवा (या) नारायणी शृणु ॥६२॥चित्रिणी बालवृध्दानां तैलाभ्यडेपु मर्दनी ।भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥६३॥धातुपश्चकपर्यन्तं जानुपादविमर्दनम् ।सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥६४॥करस्तु केवलं यत्र दद्यात्त्वमांसमर्दना ।सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधै: ॥६५॥तैलाभ्यडे पटे नैव मसृणी त्वक्अ विमर्दना ।इति विशेषतो युक्ता मर्दना लोकसंमता ॥६६॥ज्ञात्वैतां च बहु शृणु चतुर्नामसमन्विताम् ।या यस्य रोचतेऽत्यन्तं तां तस्य कारयेध्ध्रुवम् ॥६७॥व्यायाम: कफनाशाय वातनाशाय मर्दनी ।स्नानं च पित्तनाशाय तेन मल्ला महाबला: ॥६८॥ N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP