संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| अष्टमोऽध्याय; । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - अष्टमोऽध्याय; । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत अष्टमोऽध्याय; । Translation - भाषांतर ताला पश्चविद्या ज्ञेया यथोक्तास्तान् निरुप्यते ।आत्मताल परताल क्रियातालस्तथैव च ॥१॥समताल: शून्यतालो ज्ञातव्या संप्रयत्नत ।एतान् ज्ञात्वा सदा मल्लो नियुध्दविजयी भवेत् ॥२॥सर्वदैवा हि मल्लाना दृष्टिर्भवाति पश्चधा ।प्रथमं चित्तदृष्टिश्च चक्षुर्दृष्टिस्तथैव च ॥३॥वाक्यदृष्टि श्रुतिदृष्टी रडदृष्टिस्तथैव च ।एव च पश्चधा दृष्टर्मल्लाना भवति ध्रुवम् ॥४॥अथाडलागा कथ्यन्ते सख्यया च चतुर्दश ।यैरडैर्लभ्यते शक्त्या प्राप्यते च महत्फलम् ॥५॥जूटके कथ्यते लाग स्कन्धो हस्तेन लाग्यते ।एकहस्तेन लागश्च व्दिहम्तेनेव वा पुन ॥६॥कक्षातलेन लागोऽपि लागो हस्तेन बाहुना ।पृष्ठलागो वंशलाग कटिलागेस्तथा पुन ॥७॥तथैवोदरलागोऽपि लागो निर्मितिपूर्वका ।हस्तधारणलागोऽपि लागश्चरणधारणात् ॥८॥निराधारोऽपि लाग स्यादिति लागाध्रतुर्दश ।कर्तव्यास्तु यथास्थान यथाममयमेव चं ॥९॥अथ व्दादश स्थानानि कथ्यन्ते मल्लकर्मणि ।जयस्थानकमप्यन चतुर्था परिकीर्तितम् ॥१०॥शिरसि स्थानकं प्रोक्तं स्थानं करतलेऽपि च ।उदरस्थानकं वापि पृष्ठस्थानमत: परम् ॥११॥समास्थानकमप्येवं चतुर्धा परिकीर्त्यते ।प्रथम स्थानकं ज्ञेयं चरणेन च धाराणम् ॥१२॥शिरोधारणामप्यत्र जडाभ्यां धारणं परम् ।अन्योन्यकरापादाभ्यां धारणं परमं स्मृतम् ॥१३॥समस्थानकमप्येवं चतुर्धा परिकीर्तितम् ।उपस्थानानि चत्वारि श्रूयतां च यथा तथा ॥१४॥कराभ्यां धारणं स्थानं स्थानं कक्षावधारणम् ।अर्धाडधारणं चैव जानुव्दयविधारणम् ॥१५॥इत्येवं व्ददशाडेपुउ स्थानकानि भवन्ति च ।अष्टादशप्रकारेण शिर: पूर्वकमासनम् ॥१६॥अग्रासनं च प्रथमं पश्चादासनमप्यथ ।मध्यासनं तथैवान्यत् सिंहासनमपीक्षते ॥१७॥कूर्मासनमपि श्रेष्ठं दर्दुरासनमुच्यते ।गजासनं समुद्दिष्टं ततोर्धासनमुच्यते ॥१८॥शिरासनं तु विज्ञेयं कक्षासनमत: परम् ।ग्रीवासनं च परमं भुजासनमिहोच्यते ॥१९॥व्दिभुजासनमप्यत्रा कुक्कुटासनमुत्तमम् ।फणगुप्तासानं चैव गरुडासनमेव च ॥२०॥उदरासनमित्येवं कथितं दशसप्तधा ।चत्वारोऽत्र भवन्त्येव मल्ला: श्रमगुणैर्युता: ॥२१॥ज्येष्ठी तथान्तरज्येष्ठी तथा गोपुकुलोऽपि च ।भबिष्योऽपि भवत्यन्यश्चतुर्थो भाविर्तैर्गुणै: ॥२२॥श्रमाश्चैव तु चत्वार्रो भवन्ति विनियोगत: ।अल्पश्रमश्चार्धश्रम: पूर्णश्रम इति क्रमात् ॥२३॥ततोऽतिश्रम एव स्यात् कथिता मल्लकर्मणि ।निपिध्दान् कथयिप्यामि शृणु मल्लान् यथार्थत: ॥२४॥पीनस: शोफवान् कासश्चासवानपि क्षुधातुर: ।भुक्तवानक्षम: क्षीणो व्यग्रचि(ग्रश्चि) न्तातुरस्तथा ॥२५॥अजीर्णवान् दुर्यालश्च स्त्रीपु क्षीणस्तथैव च ।मदपीडितसर्वाड शिरोरोगार्त एव च ॥२६॥भ्रान्तश्चैव क्षुधाविष्टो वर्ज्जितो मल्लकर्मणि ।अल्पश्रमं करिष्यन्ति ये च तान्कथयाम्यहम् ॥२७॥बालो वृध्दो ज्वरी चैव चक्षूरोगी व्रणी तथा ।रोगी च दुर्बलाश्चैव ततो मन्दाग्रिरेव च ॥२८॥वातातपादिपीडावान् तथा चायासवानपि ।रक्तहीनो लहनश्च ये चान्ये कुशरीरिण: ॥२९॥अल्पश्रमं करिष्यन्ति ते सर्वे स्थानरुपत: ।अल्पश्रमस्य विस्तारो नि:शेष: कथितो मया ॥३०॥अल्पश्रमेण मल्लानां ये भवन्ति गुणा अपि ।तानहं कथयिप्यामि व्दिज: श्रृण्वन्तु तत्त्वत: ॥३१॥बलवृध्दिस्तधाग्रिश्च लघुता पित्तनाशन: (मू) ।वृहणं न जराठग्भो गांवस्थैर्य विशेषत: ॥३२॥ऊत्साहवृध्दिरप्यस्य जायतेऽल्पश्रमेण तु ।तस्मादल्पश्रमो नित्य कर्तव्य सुखमिच्छता ॥३३॥अथाल्पश्रमसभूत लक्षण कथयाम्यहम् ।अल्पश्रमे कृते प्रात श्वास स्वेदो न जायते ॥३४॥अर्धश्रमेण जायन्ते नित्याभ्यासेन ये गुणा ।तानह कथयिप्यामि मल्लाना सुखहेतवे ॥३५॥सौमनस्य बल चेव पुष्टिरुत्साह एव च ।हर्षश्चैव सुख प्राणबलवृध्दिस्तथैव च ॥३६॥अग्निमूर्छाविनाशश्च मेदोनाशस्तथेव च ।पित्तस्यापि विनाश स्यात् व्दादशेते वरा गुणा ॥३७॥अर्धश्रम कृतो येस्तु लक्ष्यते शृणु तान्गुणान् ।अर्धश्रमे मल्लाना प्रस्वेदो जायते पुन ॥३८॥वक्षाकण्ठकपोलेपु ललाटे करसन्धिषु ।पादसन्धिपु प्रास्वेदो हृदि श्वासश्च जायते ॥३९॥अथ पूर्ण श्रमो येस्तु कर्तव्य सुसमाहितै ।तानह कथयिप्यामि यथाशास्त्र यथाबलम् ॥४०॥ज्येष्ठी तथान्तरज्येष्ठी तथा गोपकुलोऽपि च ।एते पूर्णश्रम कार्य सयुक्तेर्भावितैर्गुणै ॥४१॥आरोग्याबलवान् शूर प्राणवान् सुश्रमस्तथा ।श्रमसह केशसह पृष्ठकार्याग्निमानपि ॥४२॥पूर्णश्रमेपि मल्लाना जायन्ते ये गुणा अपि ।तानह कथयिप्यामि यथाशास्त्र यथावलम् ॥४३॥तथा हृद्रोगनाशश्च पित्तनाशोऽपि जायते ।कृमिनाश कुष्टनाश स्वाडसामर्थ्यमेव च ॥४४॥केशे सहिष्णुता शौर्य रोगाणां क्षय एव च ।अग्निवृध्दि:क्रमादेते भवन्त्यत्र गुणा दश ॥४५॥परिपूर्णश्रमस्तस्माद् कर्तव्यस्तु समाहितै: ।पूर्णाश्रमे कृते मल्लैजयिन्ते लक्षणानि वै ॥४६॥तान्यह कथयिप्यामि श्रयता च प्रयत्नत: ।स्वेद: सर्वेषु चाडेषु नेत्रयाश्चैवा रक्तिमा ॥४७॥जरानाश: कफनाशो मेदोनाशस्तथा पर: ।प्रस्वेदं शोषयत्येव मुखे श्वास: प्रवर्तते ॥४८॥हृदयं शोषयत्याशु कण्ठे शोषश्च तत्क्षणात् ।तथा मुखं च शोषयति कला शोपयति क्रमात् ॥४९॥भ्रमोऽत्यन्तमेव स्यात् मूर्छा प्रकुरुते परम् ।पिपासा जायते सद्यो बलहानिर्विशेषत: ॥५०॥छर्दिभ्रमश्चासकासरक्तपित्तभयानि च ।तथा हृदयदाहं च ज्वरमुत्पादादेदलम् ॥५१॥इति ज्ञात्वा च सकलं कर्तव्यं हितमात्यन: ।येन कृतेन मल्लाना जायते सुखामाशु वै ॥५२॥तदहं कथयिप्यामि शृण्वन्तु विधिपूर्वकम् ।स्त्रानं शीतोदकनैव कारयेत् प्रथमं सदा ॥५३॥कर्तव्यं च पय: पानं शी (मि) तथा च समन्वितम् ।द्राक्षाणां भक्षणं चैव श्वेतवस्त्रनिपेवणम् ॥५४॥ विलेपनं चन्दनेन कर्पूरेण च शोभतम् ।अर्धवस्त्राच्छादन च्च कटुतिक्ताम्लवर्जनम् ॥५५॥भोजनं सरसं चैव गुडसारैश्च गोधुमै ।एवं कृते तत: पुष्टि: शरीरे गच्छति श्रम ।मल्लै: कर्तव्यभित्येवमुपचार सुखावह: ॥५६॥ N/A References : N/A Last Updated : December 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP