मल्लपुराणम् - तृतीयोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


ब्रह्मोवाच ।
इति कृष्णवच : श्रुत्वा सोमेश्वरपुर सरा: ।
ज्योतिविदं समाहूय मुहूर्तं स्थापयन्ति ते ॥१॥
अक्रूरै: सुखदैर्वारै: सुभगायां तिथावपि।
विद्यारम्यस्य नक्षत्रैर्ग्रहैश्चापि शुभप्रदै: ॥२॥
ततस्ते मण्डपं रम्यं रडंभूमौ प्रकल्पितम्‍ ।
पताकाभिस्तोरणैश्च स्वस्तिकैश्च विचित्रितम्‍ ॥३॥
चतर्व्दारेपु व्दौ  च कलशौ राजवारकौ ।
होमकुण्डसमोपेतं विस्तीर्णाकृतवेदिकम्‍ ॥४॥
तत्र ते ब्राह्यणा: सर्वे शुभे लग्रे समागता: ।
कृष्णं च बलभद्रं च पुरस्कृत्य कृतोत्सवा: ॥५॥
शुभासने चोपविष्टौ त्र तौ परमेश्वरौ ।
कारयन्तौ शुभं होमं व्दिजेभ्यो दानमुत्तमम्‍ ॥६॥
ऋग्यजु: सामावेदैश्च कृतस्वस्त्या (य) नौ तत: ।
कृताअलिपुटो भूत्वा व्दिजस्तत्रा तयो: पुर: ॥७॥
तत: सामेश्वर: कृष्ण प्रणम्य इदमब्रवीत्‍ ।
सोमेश्वर उवाच ।
देव देव कृपालुस्तवं  सर्वाविप्रगणाधिप ॥८॥
प्रथमंख मल्लविद्यायां विधाननुपदिश्यताम्‍ ।
ब्रह्मोवाच ।
पश्चाव्दिधाने  विज्ञाते कर्तत्र्योभिनव: सुखम्‍ ॥९॥
एवनस्त्विति  कृष्णेन स च प्रत्यभिनन्दित: ।
प्रारव्धमुपदेशं नु संप्रदातुं  मनो दधे ॥१०॥
श्रीकृष्णा उवाच ।
ज्येष्ठी तथान्तरज्येष्ठी तथा गोपकुलेऽपि च ।
भविष्यश्चेति चत्वारि श्रममात्राणि तानि च ॥११॥
तत्रादौ तावदुच्यन्ते नि:शेषा ज्येष्ठिनां गुणा: ।
संस्कृतप्राकृताभ्यां च ततो लौकिकभापया ॥१२॥
अपभ्रंशाच्चा वक्ष्यामि ये यत्रोक्तास्तथैव तान्‍ ।
कुलं च शीलं च नयो विनयश्च तथैव च ॥१३॥
आहारश्च तथारोग्यमुद्यमो बलमेव च ।
प्राणश्चैव  तथायासस्तथैव सुशरीरता ॥१४॥
सुश्रमश्च शुभसहो (श्रमसहो) विजितेन्द्रिय एव च ।
जितश्रम कष्टसहो मानी कर्मजयस्तथा ॥१५॥
लज्जापरोभिमानी च तथा भक्तिपर: स्मृत: ।
स्थाने शक्ति स्थापने  च धातुशक्तिस्तात:  परम्‍ ॥१६॥
आसने ग्रहणे शक्ति रक्षणे शक्तिरेव च  ।
चारणे शक्तिरत्रैव शक्तिर्निसरणेऽपि च ॥१७॥
विज्ञानशक्ती रचनाशक्तिइ: सौष्ठवने तथा ।
भेढशक्ति कर्पशाक्तिर्युध्दशक्तिस्तथैव च ॥१८॥
अध शक्तिश्च विज्ञेय उर्ध्वशक्ति: परा स्मृता ।
तथा कातरशक्तिश्च त्राणस्शक्तिम्तथोत्तमा ॥१९॥
अत्राणके च या शक्तिरशक्ते शक्तिरेव च ।
अरडंरडंयो शक्तिर्भोजने शक्तिरेव च ॥२०॥
पाने च शयने शक्तिर्मात्राशक्ति: प्रशस्यते ।
कामव्यायामयोश्चैव मात्रां यत्नेन पालयेत्‍  ॥२१॥
कालमानं देशमानं राजमानमत: परम्‍ ।
सभामानमर्थमानं यशोमानमिति क्रमात्‍ ॥२२॥
कथिताश्च चतु: पष्ठिरित्येते ज्येष्ठिनो गुणा: ।
इति ६४ गुणा:  ॥२३॥
एवं सोमेश्वर:  श्रुत्वा पुन: पप्रच्छ केशवम्‍ ।
सोमेश्वर उवाच ।
कथिता: कृष्ण सर्वे च भवता  ज्येष्ठिनो गुणा: ॥२४॥
भगवन्‍ कथयेदानीमन्तराज्येष्ठिनो गुणान्‍ ।
श्रूयातामिति तं  कृष्ण: प्रत्युवाच कृतादर:॥२५॥
कृष्ण उवाच ।
कुलीनो र (द) क्ष(:) सर्वेषु नीतिशीलाश्च सर्वदा ।
प्रमाण्सुशरीरश्च सुविस्तरस्तनुस्तथा ॥२६॥
शौर्ययुक्तो निरालस्यो व्यवसायी तथैव च ।
अगवृतिर्भगवृत्तिरर्धप्राणसमन्वित: ॥२७॥
अर्धश्रमगुणयुत: सत्यभापी तथैव च ।
ज्येष्ठी गुणवृध्दिकर:  शौर्यवृध्दिकरास्तथा ॥२८॥
पुण्यागुणवृध्दिकरो यशोवृध्दिकरोऽपि च ।
लवृवृतिकरस्तव्द्त्‍ गुणेषु कुशलस्तथा ॥२९॥
भयहर: स्थानपर: सदा हेतुपरा: स्मृत: ।
जितश्रमो विश्वासवान्‍ ज्येष्ठिन: श्रमपूरक: ॥३०॥
प्राणवान्‍ वलवाँश्चेव सर्वकार्यविचारवित्‍ ।
अन्तरज्येष्ठिनस्त्रिंशत्‍ कथिता मध्यमा गुणा: ॥३१॥
इत्यन्तरज्येष्ठिन: ३० गुणा ।
ब्रह्मोवाच ।
इत्युतममध्यमाश्च श्रुत्वा सोमेश्वरो गुणान्‍ ।
अधमानपि पप्रच्छ प्रणम्य शिरसा हरिम्‍ ।
सोमेश्वर उवाच ।
भगवान्‍ कथयेदानीमधामानपि तान्‍ गुणान्‍ ॥३२॥
श्रीकृष्ण उवाच ।
शृणु गोपकुलादीनामधमांश्च गुणान्बहुन् ।
विचार्य तत्त्वात्‍ सर्वज्ञ अशेपं गदतू मम ॥३३॥
मतिमान्‍ मार्गगश्चैव कृतव्दिगुणवानपि ।
शीलवानविनीतश्च सुविस्तरभयं हृदि ॥३४॥
श्रमासहोऽप्यसज्जडो न युध्दकुशलस्तथा  ।
वाचाशक्तिरसद्‌वाक्यो विचार्यायासकार्यकृर्त्‍  ॥३५॥
बलवान्‍ शक्तिहीनश्च प्राणवान्‍ मूर्ख  एव च ।
वाचा त्राणकर: कोऽपि वाचा लाभकर: पर: ॥३६॥
वाचा हानिकर: कश्चित्‍ न किंचित्‍ परमार्थवित्‍ ।
तथा कष्टसह: कोऽपि कर्माशक्यस्तथैव च ॥३७॥
सेवापरोऽपि कोऽप्यत्र कुरडो भबति ध्रुवम्‍ ।
कार्यतत्पर एव स्यादहितोपिइ कचिन्नर: ॥३८॥
हिंसावांश्चा ह्यविश्वासी भवेत्‍ कचितथा पर: ।
भक्तिनधरं एव स्यात्‍  विकारी च तथा पर: ॥३९॥
परान्‍ दोपान्‍ वादयति  पश्चाव्दादयति केवलम्‍ ।
अधमा: कथिता: सर्वे सप्तत्रिंशदिमे  गुणा: ॥४०॥
इत्यधमा (३७) गुणा:
एवं  गुणसमायुक्तो नाम्रा गोपकुलो भवेत्‍ ।
तथाधमाधमगुणान्‍ शृणु चान्यानशेषत: ॥४१॥
अकुलीनो भवेत्‍ कश्चिदातिमध्यम एव च ।
कोप्यतो दूतकार: स्यादतिकामी तथा पर: ॥४२॥
आलस्यवान्‍  पर: कश्चिदतिभीरुश्च निन्दित: ।
अतिमूर्खोऽतिलुब्धश्च स्थूलरोमविवर्जित: ॥४३॥
दुर्बलो  नीचसडी च निषिध्दो मल्लकर्मणि  ।
विपक्षभेदकोऽप्यन्यो गुणप्रच्छादकस्ताथा ॥४४॥
संवाहनको न स्यात्‍ शोकदु: खप्रकाशक: ।
अहितोऽपि पर: कश्चित्‍ कार्याशक्य इति क्रमात्‍ ।
एकर्विशतिसंख्याता:  कथिताश्चाधमाधमा: ॥४५॥
इत्यधमाधम (२१) गुणा:
सोमेश्वर  उवाच ।
पुन: सोमेश्वर:कृष्णं सादरं पृच्छ (ष्ट) बानिति ।
देव देव भबिष्यस्य गुणान्‍ ब्रूहि विशेषत: ॥४६॥
श्रीकृष्ण उवाच ।
कुलीनोऽथ विनीतश्च लज्जावान्‍ शीलसंगत: ।
दयावान् श्रध्दया युक्तो व्यायामी चाग्रिमास्तथा ॥४७॥
आधानी सुवपुश्चैव सुश्रमश्च तथा पर: ।
श्रुतिग्राही श्रमसहो दृष्टिग्राही तथैव च ॥४८॥
चित्तग्राही सत्यवाश्च शौर्यवान्‍ बुध्दिमाँस्तथा।
जनप्रियश्च गुणवान्‍ पितृभक्त: प्रियवद: ॥४९॥
मातृभक्तो भ्रातृभको  भक्तो गुरुजनेऽपि च  ।
देवव्दिजयोर्भक्तर्श्चै चतुर्विश इमे गुणा: ॥५०॥
मया तव  समख्याता: सर्वे विजयहेतवे ।
एवं गुणैश्च संयुक्तो ज्येष्ठी भवति सत्वर: ॥५१॥

N/A

References : N/A
Last Updated : December 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP