मल्लपुराणम् - चतुर्थोऽध्याय: ।
१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.
श्रीकृष्णा उवाच ।
अथाडांनां विवेकं च विविधं कथयाम्यहम् ।
उत्तमाधममध्यैश्च भेदै: श्रृणु समाहित: ॥१॥
सुप्राणस्तु सुसंत्थान: सुशरीरस्तु मासल: ।
स्वस्थश्चैव सुगात्रश्च समभ्यस्तवरासन: ॥२॥
सुविस्तरस्वरोऽथोपि नेत्रविस्तर एव च ।
स्कन्धयोरपि विस्तीर्णो ग्रीवाविस्तीर्णकस्तथा ॥३॥
भुजौ च (चापि) सुविस्तीर्णौ बाहुविस्तीर्ण एव च ।
तथा प्रकोष्ठविस्तीर्णो विस्तीर्णाडुलिरेव च ॥४॥
कटिविस्तीर्ण एव स्यात् जडाविस्तीर्ण च ।
विज्ञेउयो जानुविस्तीर्णो चित्तविस्तीर्ण एव च ॥५॥
शौर्यस्य विस्तर: कापि गुणानां विस्तरोऽपि च ।
व्दात्रिंशत् कथिता होते विस्तारा जयदायका ॥६॥
अथोत्तममध्यगानामुच्यन्ते लक्षणानि च ।
विशेषमविशेषं वा ज्ञायते तेन तत्त्वत: ॥७॥
मध्यास्थूल उर: सूक्ष्मा: स्कन्धास्थूलस्तथापर: ।
ग्रीवायामतिसंकीर्णो न स मल्ल: प्रशस्यते ॥८॥
बाहुस्थूलो भवेत्कश्चित् संकटो भुजशीर्षयो: ।
कश्चित् प्रकोष्ठसंकीर्णो विस्तीर्ण: स्थूलहस्तयो: ॥९॥
कस्यैव च स्फिचौ स्थूलौ संकीर्णा च भवेत् कटि:।
कृशजडो भवेत् कश्चित स्थूलजानुरपि स्मृत: ॥१०॥
अधोर्ध्वविस्तर: कश्चित अर्धसंकीर्ण एव च ।
अधोविस्तर एव स्यात् उर्ध्वसंकीर्णवान् भवेत् ॥११॥
वाचा शूरश्चितभीरु: कायस्थूलस्तथापर: ।
प्राणहीनश्च विज्ञेया विशतिर्मध्यमा इमे ॥१२॥
अथाधमाडानां (ड) कथने मल्लाश्चलितलक्षणा: ।
भवन्ति निन्दिता ये तु लोकेऽस्मिन् गुणावर्जिता: ॥१३॥
अतिदीर्घश्च सर्वत्र तथा विकृश एव च ।
अतिक्रमोथ सूक्ष्मास्य: कृशाडोंऽथ नपुंसक: ॥१४॥
कुप्टाडंश्च सदोपाड: स्कन्धो वातुल एव च।
अतिभीरुस्तथालस्यो मूर्खोप्यातिशयेन च ॥१५॥
अप्राणावांश्च मन्दाग्रिरित्येते चाधमा: स्मृता: ।
अडानि पोडशोक्तानि निदितान्यडसडरे ॥१६॥
श्रीकृष्ण उवाच ।
पश्चाडाश्च भवन्त्येते मल्लास्तान् कथयाम्यहम् ।
अस्थिसारो मांससारो भेदसारम्तथैव च ॥१७॥
कोऽप्यास्थिमांससार: स्यादन्यो मेदाग्रिसारवान ।
तेषां तु भेदा वक्तव्या निरुप्यन्ते यथार्थवत् ॥१८॥
स्थूलास्थि: स्थूलसन्धिश्च स्वल्पमांसोऽल्पप्राणवान् ।
श्रमणो भ्रमणक: कश्चिदल्पश्रमकरस्तथा ॥१९॥
तथा शौर्येण संयुक्ता: तथा चाप्रियदर्शन: ।
इत्यष्टावास्थिस्सारस्य भेदा: प्रकथिता मया ॥२०॥
इदानीं मांससारस्य कथ्यते गुणविस्तर: ।
सुप्रमाणो न सूक्ष्मास्थिर्न स्थुलास्थिर्भवत्यपि ॥२१॥
मध्यस्थास्थिरसौ नैव बहुमांसो न शस्यते ।
नालपमांसो हि बलवान् सममांसस्य चादय: ॥२२॥
बलबर्धनलीनाडो बद्भदृढतनुस्तथा ।
लीनशौर्यगुणोपेत: सर्वेपामुत्तरोत्तर: ॥२३॥
प्राणावांश्च श्रमसहस्तथैव च जितश्रम: ।
कथिता मांससारस्य गुणा एते चतुर्दश ॥२४॥
अथातो मेदसारस्य गुणानामेकविंशति : ।
मध्यस्थूलो भवेत् कश्चित् सूक्ष्मोऽन्य: करपादयो: ॥२५॥
सूक्ष्मास्थिरलूपमांसश्च बहुभेद: श्रमार्धभाक् ।
श्वासाधिक: स्वलूपबलो व्यायामेऽशक्य एव च ॥२६॥
निद्रापर: शय्यापरो वहामी बहुपानकृत ।
सेवापर: शीतसह: सदा धर्मेण पीडयते ॥२७॥
बहुश्रम: सूक्ष्मास्योऽर्धस्वरो भीरुरधस्तथा ।
सस्वेदवान् वातसहो गुणा इत्येकविंशति: ॥२८॥
अधास्धिमेदसारस्य गुणा: सप्तदश स्मृता: ।
पृथुलास्थिस्वरुपोऽपि मांमलो मेदकस्तथा ॥२९॥
कश्चित् स्थलोदरोऽपि स्यात् सूक्ष्मवक्षास्यलोऽपि च ।
सूलकन्य: प्रौढबाहुस्लूपजहो भवत्यपि ॥३०॥
अल्पसत्य: पृथुश्चैव तथोप्मसह एव च ।
आहारवान् श्वासपर: प्राणवान् स्थिरयुध्दकृत् ॥३१॥
दृष्टनीरुक् स्वभावात् स स्थिरर्श्चैवाडसडरे ।
इत्यास्थिमेदसारस्य गुणा: सप्तदश स्मृता: ॥३२॥
अथास्थिमांससारस्य गुणा: पोडश प्रोच्यते (न्ते) ।
शोभनास्थिवयश्चैव तथा वशशरीरवान् ॥३३॥
सममांस: समास्थिश्च किश्चित्त् कायेन मेदुर: ।
पित्तविसितारवांश्चापीनतनुवाक् च कचिद्भवेत् ॥३४॥
न हस्व: कचिदडेपु सप्रमाणश्च सर्वदा ।
समप्राण; समशौर्यस्तंथैव समसत्वर: ॥३५॥
उर्ध्वभद्रप्रयोध्दा च अर्धभद्रप्रयुध्दकृत् ।
अधोर्ध्वभद्रयोधी च सर्वयुध्दकरस्तथा ॥३६॥
अष्टाडभद्रयोधी च गुणा: पोडश संख्यया ।
इत्त्यडानां च पश्चानां गुणा: संकीर्तिता मया ॥३७॥
N/A
References : N/A
Last Updated : December 30, 2017
TOP