संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| एकादशोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - एकादशोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत एकादशोऽध्याय: । Translation - भाषांतर कथयाम्यन्यश्रवणं रमणीकमनुत्तमम् ।तथाक्रमं प्रकुर्वीत मल्ल: पश्चविद्या अपि ॥१॥अस्थिसारो मांससारो मेदसारस्तथैव च ।तथास्थिमांससारश्च चतुर्थक: प्रकीर्तित: ॥२॥तथास्थिमेदसारोपि पश्चम: (मश्च) प्रयुज्यते ।पश्चानां गुणभेदानां भिन्नभ्रमणिका स्मृता ॥३॥कथयिप्यामि विधिबधो यथा तं करिप्यति ।क्रमात्वय: समारख्याता: पूर्वसूरिभिरेख च ॥४॥प्रयस्य क्रमोतिक्रमो धारणांक्रमेति स्मृत: ।दोपचयस्तनोवातकफपित्तसमं (स्य सं ) भव: ॥५॥तत्रास्थिसारमल्लेन पित्तसारेण तेन तु ।प्रशस्तकमपूर्व तु कर्तव्या भ्रमाणिका सदा ॥६॥मांससारेण वातेन संयुक्तेन यथा क्रम: ।इति क्रमभ्रमणिका कर्तव्या सुम्बमिच्छता ॥७॥तथैव भेदसारेण कफवातयुतेन ते ।सदा गौणितककटिप्राणसंप्राणमेव च ॥८॥पवनस्य जयश्चैव एतदष्टगुणं स्मृतम् ।मल्लानां विजयकरं तम्मादेवत्नमम्ययेत् ॥९॥अष्टधा भवति प्राणं बाहुप्रेगणिकश्रमात ।तलहस्तभवं प्राणं गुजप्राणं तथैव च ॥१०॥स्काल्पप्राणसुरप्राण्म भुजणिर्पभयं तथा ।जानुषानं कटिप्राणं रोपनं नवपादयो: ॥११॥उर्ध्वस्थायिकमेवैतत् प्राण एकादशात्मक: ।अत: सर्वप्रकारेण श्रममेव सदाभ्यसेत् ॥१२॥ऊहापोहस्तु कर्तव्य प्रतिमल्लसमागमे ।यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥१३॥ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।कथं च धारय्यिप्यामि कथं स्थाप्यामि वा पुन: ॥१४॥कथं च धारायिप्यामि गमिप्यामि च वा कथम् ।गृह्यते वा कथं ह्येप रक्ष्यते वा कथं पर: ॥१५॥कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।गुरुगोणितकाभेदा श्रेष्ठा सप्तदशापि वा ॥१६॥तानहं कथयिप्यामि यथायोग्यां तथाबलम् ।प्रथमं च नमस्कृत्य कक्षाया जानुसभवम् ॥१७॥घ्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।तथैव कुक्षिजानुभ्या तले कृत्वा विधारणम् ॥१८॥घृतेनापि वशं तिष्ठेत्ततो याति तथा पुन: ।उरसा धारणं तस्मात्ततो दण्डविधारणम् ॥१९॥पुनश्चैव तु जानुभ्या तले हस्तविधारणम् ।पुनरुत्तिष्ठविंशति यथाशक्त्या समभ्यासेत् ॥२०॥ध्रियते वाड् घ्रिजानुभ्या लोलयेच्च पुन: पुन ।धारणं तलपादाभ्या तथैव च पुन: क्रमात् ॥२१॥अथ धारयकन्ये (स्यै) व स्थानानि परिपूरयेत् ।शिरसा धारणं चैव शिरसो हननं तत:॥२२॥बाहुचालनमेवोक्तं चरणग्राहणमेव च ।पदस्य संधिग्रहणं करसंधिस्तथैव च ॥२३॥सर्वाडे चालनं चैव भेदा: सप्तदश स्मृता: ।गुरुगोणिताभ्यां चैव वर्धते प्राण उत्तम: ॥२४॥एकोनविशत्यधिकं कथ्यतेऽथ यथा शृणु ।जडाप्राणू (ण) मुर:कण्ठप्राणं च उत्तमम् ॥२५॥सर्वाडस्थानसंभूत जायते प्राणमष्टधा ।इति ज्ञात्वा च सततं सादरं च समभ्यसेत् ॥२६॥मयात्वेवं समाख्याता: सर्वे विजयहेतवे ।त्रय: पीडनका भेदा: कथिता मल्लकर्मणि ॥२७॥तलहस्तविधारणं कक्षाधारणमेव च ।भुजसंधिधारणं च त्रय: पीडनकेऽधमा: ॥२८॥गुणा भवन्ति ये चान्ये शृणु तान् कथितान् मया ।प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात् ॥२९॥कक्षाप्राणं च भवति प्राणं च्द करसंधिजम् ।तलहस्तभवं प्राणं पादप्राणं भवत्यपि ॥३०॥इति पीडनिकाभ्यां च दृढप्राणं चतुष्टयम् ।प्राणपद्मं गदाभ्यसात् कर्तुर्भवति सर्वदा ॥३१॥तलहस्तप्राणं चात्र भुजप्राणं तथा पुन: ।योवा छोटनकाभ्यासात् प्राणत्रयसमुद्भव ॥३२॥तलहस्तभवं प्राणं पोवाप्राणं तथैव च ।भुजप्राणं तथैवात्र सदा तेन समाम्यसेत् ॥३३॥मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात् ॥३४॥जहाप्राणं च प्रथमं कटिप्राणस्तथैव च ।जितश्वामध्य भवति हृदयं दृढमेव च ॥३५॥कडुका (कुण्डक) वर्तानाभ्यासात् सदा तेन समाचरेत् ।कर्करश्रमकायोगात्प्राण चैव चतुर्विधा (धम्) ॥३६॥जडाप्राण कटिप्राण लघु तन भवत्यपि ।पदनस्य जयश्चेव अर्थश्च जायते सदा ॥३७॥तेन तत्सर्वदा कुर्यात्कर्करश्रममुत्तमम् ।प्राणाव्दयं जलाभ्यासात्कर्तुर्भवति निश्चितम् ॥३८॥भुजप्राणमुर प्राण सर्व तेन समाचरेत् ।सोपानरोहणे चेव प्राणत्रयमुदाहृतम् ॥३९॥भोजनार्धभ्रमात्पुसा त्रिविध प्राणमेव च ।जायते सर्वसामान्य तथैव च समाचरेत् ॥४०॥पश्चदशाविधानोपि श्रमे प्राणसमुद्भव ।एव रडसमभ्यासात्प्रशमो जायते तनु ॥४१॥तेन सर्वश्रमाणाअ तु ज्येष्ठी रडश्रमोधिक ।इति ज्ञात्वा गुणान्सार्वानुत्तमा गुणहेतव ॥४२॥मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।अष्टो गुणा भवन्त्येते शृणु वा कथयाम्यहम् ॥४३॥श्वासहरा वृध्दिकरा तथा श्रमहरापि च ।मेदोहरा प्राणकरा सुशरीरकरापि च ॥४४॥तथोत्करकरौ चैव तथाप्यायनकरापि (च) ।देयास्थिमाससारस्य भीमसेनी च मर्दनी ॥४५॥त्वक् रुधिरमासमेदपर्यन्तेनाभिसयुता ।गुणा सप्त भवन्त्यत्र स्फुट ते कथयाम्यहम् ॥४६॥निद्रा करोति प्रथम तथा तेज करोति च ।शौर्यकरा दीपनी च अडंशुध्दिकरेति च ॥४७॥कुरुतेऽत्यन्तशोभा च मनस्थिरकरा तथा ।भीमसेनी च दातव्या माससारस्य मर्दना ॥४८॥त्वग् रुधिरमांसपुष्टस्य लघुसारेण वर्ध्दयेत् ।करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥४९॥उत्साह क्रुरुते चाशु तथा हादं करोति च ।सुखं कर्रोति परमं लाघव क्रुरुते परम् ॥५०॥मेधा ददाति परमां तन्द्रां च हरयेत्सदा ।एवं सा कुरते भद्र श्वाससारस्य मर्दना ॥५१॥तेन सर्वैस्तथा सेव्यो मल्लै: सर्वाडसिध्दये ।तथा मासास्थिसारस्य लघ्वी देया च मर्दना ॥५२॥त्वग् रुधिरपुष्टिकरा प्रजाहादप्रदायिनी ।चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥५३॥कायाशोधकरा चैव कायामार्दवकारिका ।मर्दनाय परा नास्ति कार्या सौप्ठवकारका ॥५४॥अस्धिगता मासगता तथा मलगतापि वा ।श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥५५॥प्रथमा भीमसेनी च तथा नारायणी परा ।तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥५६॥चेत प्रकरा चैवेयं कथिता कैटभारिणा ।प्रथमा चरणे देया व्दितीया जानुनि न्यसेत् ।तृतीया च करे देया मसृणी पट्टके तथा ।पुनश्चतुर्विधा देय व्दात्रिंशद्गुणकारिका ॥५८॥तथा त्रयोदशगुणैहेतुभिनामदोहरा ।श्रमहरा तथा वातहरा च कफहारिणी ॥५९॥अग्निकरा वृध्दिकरा तनुविस्तारकारिका ।काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥६०॥इत्यास्थिता त्रिदाशधा कथिता मर्दना मया ।कष्ठ हरन्ति नि: शेषजडत्वं यात्यसंशयम् ॥६१॥श्रमवानसि वातीति मांसस्य मर्दको भवेत् ।भीमसेना च मल्लानां देवा (या) नारायणी शृणु ॥६२॥चित्रिणी बालवृध्दानां तैलाभ्यडेपु मर्दनी ।भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥६३॥धातुपश्चाकपर्यन्तं जानुपादविमर्दना ।सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥६४॥करस्तु केवलं यत्र दद्यात्त्वमांसमर्दना ।सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधै: ॥६५॥तैलाभ्यडे पटे नैव मसृणी त्वक् व विमर्दना ।इति विशेषतो युक्ता मर्दना लोकसंमता ॥६६॥ज्ञात्वैतां च बहु शृणु चतुर्नामसमन्विताम् ।या यस्य रोचतेऽत्यन्तं तां तस्य कारयेध्ध्रुवम् ॥६७॥व्यायाम: कफनाशाय वातनाशाय मर्दनी ।स्नानं च पित्तनाशाय तेन मल्ला महाबला: ॥६८॥ N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP