संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| फलपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - फलपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत फलपद्धतिः Translation - भाषांतर उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥९७१॥निविशेय निरन्तरं प्रतीतस्त्रिदशानां विभवं तृणाय मत्वा ।सविधे तव देवि रङ्गभर्तुः पदलीलाकमलं समुद्वहन्त्याः ॥९७२॥किमहं मणिपादुके त्वया मे सुलभे रङ्गनिधौ श्रिया सनाथे ।करणानि पुनः कदर्थयेयं कृपणद्वारदुरासिकादिदुःखैः ॥९७३॥सकृदप्यनुभूय रङ्गभर्तुस्त्वदुपश्लेषमनोहरं पदाब्जम् ।अपुनर्भवकौतुकं तदैव प्रशमं गच्छति पादुके मुनीनाम् ॥९७४॥अपरस्परपातिनाममीषा - मनिदम्पूर्वनिरूढसन्ततीनाम् ।भरतव्यसनादनूनसीम्नां दुरितानां मम निष्कृतिस्त्वमासीः ॥९७५॥त्वदुपासनसम्प्रदायविद्भिः समये सात्त्वतसेविते नियुक्ताः ।भरतव्रतिनो भवान्बुराशिंकतिचित् काञ्चनपादुके तरन्ति ॥९७६॥अलमच्युतपादुके यथावत् भवती यच्च पदं त्वदेकधार्यम् ।इतरेतरभूषितं तदेतत् द्वितयं संवननाय चेतसो नः ॥९७७॥अनन्यसामान्यतया मुरारे - रङ्गेष्ववाप्तेषु किरीटमुख्यैः ।पादावनि त्वं निजमेव भागं सर्वात्मसाधारणतामनैषीः ॥९७८॥समाश्रितानां मणिपादुके त्वां विपश्चितां विष्णुपदेऽप्यनास्था ।कथं पुनस्ते कृतिनो भजेरन् वासादरं वासवराजधान्याम् ॥९७९॥विमृश्य रङ्गेश्वरपादरक्षे वारक्रमं नूनमवारणीयम् ।पद्माग्रहेऽपि स्पृशती प्रतीता स्थूलेन रूपेण वसुन्धरा त्वाम् ॥९८०॥अभिरक्षसि त्वमनपायनिधिंमणिपादुके मधुभिदश्चरणम् ।अत एव देवि तदनन्यधनाः शिरसा वहन्ति भवतीं कृतिनः ॥९८१॥पदयुगमिव पादुके मुरारे - र्भवति विभूतिरकण्टका त्वयैव । कथमिव हृदयानि भावुकानांत्वदनुभवादुपजातकण्टकानि ॥९८२॥ज्ञानक्रियाभजनसीमविदूरवृत्ते - र्वैदेशिकस्य तदवाप्तिकृतां गुणानाम् ।मौलौ ममासि मधुसूदनपादुके त्वं गङ्गेव हन्त पतिता विधिनैव पङ्गोः ॥९८३॥रङ्गेश्वरस्य यदियं मणिपादरक्षे पादारविन्दयुगलं भवतीसमेतम् ।पुंसामुपोषितविलोचनपारणार्हंक्षीरं तदेतदिह शर्करया समेतम् ॥९८४॥कामादिदोषरहितं त्वदनन्यकामाः कर्म त्रयोदशविधं परिशीलयन्तः ।पादावनि त्वदनुषङ्गविशेषदृश्यः - मेकान्तिनः परिचरन्ति पदं मुरारेः ॥९८५॥मौलौ स्थिता मखभुजामथवा श्रुतीनां तद्रङ्गराजचरणावनि वैभवं ते ।अस्मादृशामपि यदि प्रथितं ततःस्यात् सौलभ्यमम्ब तदिदं तव सार्वभौमम् ॥९८६॥स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्टा नम्रस्य मे नरकमर्दनपादरक्षे ।स्थाने तदेतदिह देवि यतः समाधौ सन्तो विदुस्तमपि तादृशबुद्धिगम्यम् ॥९८७॥बद्धाञ्जलिः परिचरन्नियमेव रङ्गे विश्राणिताच्युतनिधिं मणिपादुके त्वाम् ।कस्यापि कूणितदृशो धनिनः पुरस्ता - दुत्तानयेय न कदाऽपि करं विकोशम् ॥९८८॥त्वय्यर्पितेन चरणेन सदध्वभाजः पादावनि प्रथितसात्त्विकभावदृश्याः ।रङ्गेशवद्विदधते मुहुरङ्गहारान् रङ्गे महीयसि नटा इव भावुकास्ते ॥९८९॥येन स्थिता शिरसि मे विधिनाऽधुना त्वं तेनैव देवि नियतं मम साम्पराये ।लक्ष्यीकरिष्यसि पदावनि रङ्गनाथं लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम् ॥९९०॥हरिचरणसरोजे भक्तिभाजां जनाना - मनुकरणविशेषैरात्मनैवोपहास्यम् ।परिणमय दयार्द्रा पादुके तादृशं मां भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम् ॥९९१॥दुरितमपनयन्ती दूरतः पादुके त्वंदनुजमथनलीलां देवतामानयन्ती । अनितरशरणानामग्रिमस्यास्य जन्तो - रवशकरणवृत्तेरग्रतः सन्निधेयाः ॥९९२॥चरमनिगमगीते सप्ततन्तौ समाप्ते निजसदनसमीपे प्रापयिष्यन् विहारम् ।ज्वलनमिव भवत्योः सम्यगारोपयेन्मां प्रथमवरणवश्यः पादुके रङ्गनाथः ॥९९३॥पुनरुदरनिवासच्छेदनं सह्यसिन्धोः पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् ।परिणमति शरीरे पादुके यत्र पुंसां त्वमसि निगमगीता शाश्वतं मौलिरत्नम् ॥९९४॥बहुविधपुरुषार्थग्रामसीमान्तरेखां हरिचरणसरोजन्यासधन्यामनन्यः ।भरतसमयसिद्धां पादुके भावयंस्त्वांशतमिह शरदस्ते श्रावयेयं समृद्धिम् ॥९९५॥तिलकयसि शिरो मे शौरिपादवनि त्वं भजसि मनसि नित्यं भूमिकां भावनाख्याम् ।वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता तदिह परिणतं मे तादृशं भागधेयम् ॥९९६॥अजनिषि चिरमादौ हन्त देहेन्द्रियादि - स्तदनु तदधिकः सन्नीश्वरोऽहं वभूव ।अथ भगवत एवाभूवमर्थादिदानींतव पुनरहमासं पादुके धन्यजन्मा ॥९९७॥त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानां - दास्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः ।तामेवाहं शिरसिनि हितामद्य पश्यामिं दैवा - दात्माधारां जननि भवतीमात्मलाभप्रसूतिम् ॥९९८॥कथङ्कारं लक्श्मीकरकमलयोग्यं निजपदं निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः ।न चेदेवं मध्ये विशति दयया देवि भवती निजाकान्तिक्षुण्णस्मरशरशिखाकण्टकततिः ॥९९९॥क्रीडालौल्यं किमपि समये पादुके वर्जयन्ती निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः ।मामप्येवं जनय मधुज्प्तादयोरन्तरङ्गं रङ्गं याऽसौ जनयसि गुनैर्भारतीनृत्तरङ्गम् ॥१०००॥इति रङ्गधुरीणपादुके त्वं स्तुतिलक्षेण सहस्रशो विमृष्टा ।सफलं मम जन्म तावदेतत् यदिहाशास्यमतःपरं किमेतत् ॥१००१॥मातः स्वरूपमिव रङ्गपतेर्निविष्टंवाचामसीमनि पदावनि वैभवं ते । मोहादमिष्टुतवतो मम मन्दबुद्धे - र्बालस्य साहसमिदं दयया सहेथाः ॥१००२॥ये नाम भक्तिनियताः कवयो मदन्येमातः स्तुवन्ति मधुसूदनपादुके त्वाम् ।लप्स्ये गुणांशविनिवेशितमानसानां तेषामहं सबहुमानविलोकितानि ॥१००३॥सङ्घर्षय(व)न्ति हृदयान्यसतां गुणांशे सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् ।तद्रङ्गनाथचरणावनि ते स्तुतीना - मेका परं सहसतोरिह साक्षिणी त्वम् ॥१००४॥इत्थं त्वमेव निजकेलिवशादकोर्षी - रिक्ष्वाकुनाथपदपङ्कजयोरनन्या ।स्वीयं पदावनि मया सुमहच्चरित्रंसीतेव देवि सहजेन कवीश्वरेण ॥१००५॥पृथुकवदनशङ्खस्पर्शनीत्या कदाचि - च्छिरसि विनिंहितायाः स्वेन भूम्ना तवैव ।स्तुतिरियमुपज्ञाता मन्मुखेनेत्यधीयुःपरिचरणपरास्ते पादुकेऽपास्तदोषाः ॥१००६॥यदिस्फीता भक्तिः प्रणय(व)मुखवाणीपरिपणंपदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः ।निरुन्मादो यद्वा निरबधिसुधानिर्झरमुचो वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः ॥१००७॥जयति यतिराजसूक्ति - र्जयति मुकुन्दस्य पादुकायुगली ।तदुभयधनास्त्रिवेदी - मवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥१००८॥इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुका सहस्रे ॥ फलपद्धतिः द्वात्रिंशी ॥॥ श्री पादुका सहस्रं च संपूर्णम् ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP