संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| नादपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - नादपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत नादपद्धतिः Translation - भाषांतर श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ।मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥३८१॥मुरभिन्मणिपादुके भवत्याः स्तुतिमाकर्णयतां मया निबद्धाम् ।अवधीरयसीव मञ्जुनादैरचमत्कारवचांसि दुर्जनानाम् ॥३८२॥विहितेष्वभिवादनेषु वेदैर्गमनोदीरितगर्भरत्ननादा ।मधुरं मधुवैरिपादरक्षे भवती प्रत्यभिवादनं विधत्ते ॥३८३॥स्वदते किमिहैव रङ्गनाथो मयि तिष्ठन् यदि वा पदे परस्मिन् ।इति पृच्छसि देवि नूनमस्मान्मधुरैस्त्वं मणिपादुके निनादैः ॥३८४॥अवरोधगतस्य रङ्गभर्तुर्गुतिषु व्यञ्जितगर्भरत्ननादा ।प्रतिसँल्लपसीव पादुके त्वं कमलानूपुरमञ्जुशिञ्जितानाम् ॥३८५॥मुरभिच्चरणारविन्दरूपं महितानन्दमवाप्य पूरुषार्थम् ।अनघैर्मणिपादुके निनादैरहमन्नाद इतीव गायसि त्वम् ॥३८६॥मदुवैरिपदाम्बुजं भजन्ती मणिपादावनि मञ्जुशिञ्जितेन ।पठसीव मुहुः स्वयं प्रजानामपरोपज्ञमरिष्टशान्तिमन्त्रम् ॥३८७॥श्रुतिभिः परमं पदं मुरारेरनिदङ्कारमनेवमित्युपात्तम् ।इदमित्थमिति ब्रवीषि नूनं मणिपादावनि मञ्जुभिः प्रणादैः ॥३८८॥मुनयः प्रणिधानसन्निरुद्धे हृदि रङ्गेश्वररत्नपादुके त्वाम् ।विनिवेश्य विभावयन्त्यनन्याः प्रणवस्य प्रणिधिं तव प्रणादम् ॥३८९॥मधुरं मणिपादुके प्रवृत्ते भवती रङ्गेपतेर्विहारकाले ।अभयार्थनया समभ्युपेतानविसंवादयतीव मञ्जुनादैः ॥३९०॥श्रवसोर्मम पारणां दिशन्ती मणिपादावनि मञ्जुलैः प्रणादैः ।रमया क्षमया च दत्तहस्तं समये रङधुरीणमानयेथाः ॥३९१॥अनुयाति नित्यममृतात्मिकां कलांतव रङ्गचन्द्रमणिपादु झङ्कृतम् ।श्रवसा मुखेन परिभुज्य यत्क्षणा - दजरामरत्वमुपयान्ति साधवः ॥३९२॥परुषैरजस्रमसतामनर्थकैः परिवादपैशुनविकत्थनादिभिः ।मधुकैटभारिमणिपादुके मम श्रुतिदुष्कृतानि विनिवारय स्वनैः ॥३९३॥पादुके परिजनस्य दूरत सूचयन्ति खलु तावकाः स्वनाः ।लीलया भुजगतल्पमुज्जतः श्रीमतस्त्रिचतुरान् पदक्रमान् ॥३९४॥देवि दैत्यदमनाय सत्वरं प्रस्थितस्य मणिपादुके प्रभोः ।विश्वमङ्गलविशेषसूचकं शाकुनं भवति तावकं रुतम् ॥३९५॥दातुमर्हसि तदा मम श्रुतौ देवि रङ्गपतिरत्नपादुके ।विह्वलस्य भवदीयशिञ्जितं स्वादुकर्णरसनारसायनम् ॥३९६॥अहमुपरिसमस्तदेवतानामुपरि ममैष विभाति वासुदेवः ।तदिह परतरं न किञ्चिदस्मादिति वदसीव पदावनि प्रणादैः ॥३९७॥अवनतविबुधेन्द्रमौलिमालाम -धुमदशिक्षितमन्थरप्रयाता ।प्रथयसि परिरब्धशौरिपादा मणिकलहेन वियातजल्पितानि ॥३९८॥आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान् स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् ।वासागारं स्वयमुपसरन् पादुके मञ्जुनादा - मापर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति ॥३९९॥अन्तर्न्यस्तैर्मणिभिरुदितं पादुके रङ्गबन्धौ मन्दं मन्दं निहितचरणे मञ्जुलं ते निनादम् ।पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां पराया मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम् ॥४००॥प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां प्रायेण त्वां प्रथितविभवां वर्नयन्ती मया त्वम् ।पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजात् पद्यारम्भान् गणयसि परं पादुके स्वैर्निनादैः ॥४०१॥विष्णोरस्मिन् पदसरसिजे वृत्तिभेदैर्विचित्रै - रैदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् ।इत्थं पुंसामनिपुणधियां पादुके त्वं तदेव स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन ॥४०२॥आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां मध्ये भक्त्या मधुविजयिनः पादुके मोहभाजाम् ।शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुंसां मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः ॥४०३॥लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् ।प्रत्यादेशं भजति मधुरैः पादुके शिञ्जितैस्ते चेतोहारी कुसुमधनुषः शिंञ्जिनीमञ्जुनादः ॥४०४॥रङ्गाधीशे सह कमलया सादरं यायजूकैः सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने ।नेदीयोभिर्निगमवचसां नित्यमंहःप्रतीपैः प्रत्यालापं दिशति भवती पादुके शिञ्जितैः स्वैः ॥४०५॥उपास्य नूनं मणिपादुके त्वां रङ्गेशपादाम्बुजराजहंसीम् ।पत्युः प्रजानामलभन्त पूर्वं मञ्जुस्वनं वाहनराजहंसाः ॥४०६॥अनादिमायारजनीवशेन प्रस्वापभाजां प्रतिबोधनार्हाम् ।पश्यामि नित्योदितवासरस्य प्रभातनान्दीमिव पादुके त्वाम् ॥४०७॥श्रृणोतु रङ्गाधिपतिः प्रजानामार्तध्वनिं क्कापि समुज्जिहानम् ।इतीव मत्वा मणिपादुके त्वं मन्दप्रचारैर्मृदुशिञ्जिताऽसि ॥४०८॥अन्ते ममार्ति शमयिष्यतस्तामग्रेसराण्यापततो मुरारेः ।श्रमोपपन्नः श्रृणुयां भवत्याः शीतानि पादावनि शिञ्जितानि ॥४०९॥स्वादूनि रङ्गेश्वरपादरक्षे श्रोत्रैः पिबन्तस्तव शिञ्जितानि ।पचन्त्यविद्योपचितानशेषान्तर्गतानात्मविदः कषायान् ॥४१०॥अवैमि रङ्गाधिपतेः सकाशादवेक्षमाणेषु जनेषु रक्षाम् ।उदारनादां मणिपादुके त्वामोमित्यनुज्ञाक्षरमुद्गिरन्तीम् ॥४११॥मधुद्विषः स्वैरविहारहेतुर्मञ्जुस्वनान् शिक्षयसीव मातः ।पर्यन्तभाजोर्मणिपादरक्षे पद्माधरण्योर्मणिनूपुराणि ॥४१२॥प्रास्थानिकेषु समयेषु समागतेषु प्राप्ता पदं परिचितं द्विजपुङ्गवेन ।पुष्णासि रङ्गनृपतेर्मणिपादुके त्वंपुण्याहघोषमिव गर्भमणिप्रणादैः ॥४१३॥आर्तध्वनेरुचितमुत्तरमन्तकाले कर्णेषु मञ्जुनिनदेन करिष्यसीति ।वासं भजन्ति कृतिनो मणिपादरक्षे पुण्येषु देवि पुलिनेषु मरुद्वृधायाः ॥४१४॥दूत्ये बलेर्विमथने शकटस्य भङ्गे यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या ।वीरायितानि बिरुदोपहितानि नूनंमञ्जुस्वनैः प्रथयसे मणिपादुके त्वम् ॥४१५॥स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वांव्यासज्यमानकरणं विषयेष्वजस्रम् ।अन्तर्मणिध्वनिभिरच्युतपादुके त्वं सम्बोधयस्यनुकलं सहजानुकम्पा ॥४१६॥देवस्य दानवरिपोर्मणिपादरक्षे प्रस्थानमङ्गलविधौ प्रतिपन्ननादाम् ।मा भैष्ट साधव इति स्वयमालयन्तींजाने जगत्रितयरक्षणदीक्षितां त्वाम् ॥४१७॥स्वञ्छन्दविभ्रमगतौ मणिपादुके त्वंपादारविन्दमधिगम्य परस्य पुंसः।जातस्वना प्रतिपदं जपसीव सूक्तंविद्रावणं किमपि वैरिवरूथिनीनाम् ॥४१८॥रक्षार्थमाश्रितजनस्य समुज्जिहाने रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् ।नादास्तव श्रुतिसुखा मणिपादरक्षे प्रस्थानशङ्खनिनदात् प्रथमे भवन्ति ॥४१९॥नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां गोपीजनप्रियतमो मणिपादरक्षे ।सम्बन्नघोषविभवां गतिभिर्निजाभिः प्रीत्यैव न त्यजति रङ्गसमाश्रितोऽपि ॥४२०॥प्रायः पदावनि विभोः प्रणतार्तिहन्तुः प्रस्थानमङ्गलविधौ प्रथमोद्यतानि ।त्वच्छिञ्जितानि सपदि स्वयमारभन्ते कालोचितान् कनककाहलशङ्गनादान् ॥४२१॥आम्रेडितश्रुतिगणैर्निनदैर्मणीना - माम्नायवेद्यमनुभावमभङ्गुरं ते ।उद्गास्यतां नियतमिच्छसि सामगानां तानप्रदानमिव शौरिपदावनि त्वम् ॥४२२॥रथ्यासु रङ्गनृपतेर्मणिंपादरक्षे त्वद्गर्भरत्नजनितो मधुरः प्रणादुः ।सन्दर्शनोत्सुकधियां पुरसुन्दरीणांसम्पद्यते श्रवणमोहनमन्त्रघोषः ॥४२३॥आकस्मिकेषु समयेष्वपवार्य भृत्या - नन्तःपुरं विशति रङ्गपतौ सलीलम् ।व्यामोहनेन भवती सुदृशामधीते मञ्जुस्वनेन मदनोपनिषद्रहस्यम् ॥४२४॥यात्राविहारसमयेषु समुत्थितं तेरङ्गाधिपस्य चरणावनि मञ्जुनादम् ।पर्याकुलेन्द्रियमृगग्रहणाय पुंसां सम्मोहनं शबरगीतमिव प्रतीमः ॥४२५॥प्रायेण सह्यदुहितर्नदराजकन्या जामातुरागमनसूचनमीहमाना ।मञ्जुप्रणादसुभगैर्मणिपादुके त्वा - मन्तर्युतामकृत यौतकरत्नखण्डैः ॥४२६॥नित्यं विहारसमये निगमानुयातैः - र्विक्षेपताण्डवितगर्भमणिप्रसूतैः । नादैः स्वयं नरकमर्दनपादरक्षे नादावसाननिलयं वदसीव नाथम् ॥४२७॥साधारणेषु युवयोर्मणिपादरक्षे देवस्य दानवरिपोस्त्रिषु विक्रमेषु ।अद्यापि शिञ्जितमिषादनुवर्तमानंन्यूनाधिकत्वविषयं कलहं प्रतीमः ॥४२८॥प्रायः पदावनि विभोः प्रणयापराधे मानग्रहं शमयितुं महिषीजनानाम् ।उच्चारयन्ति निनदैस्तव गर्भरत्ना - न्युद्धातमक्षरमुपाश्रयभारतीनाम् ॥४२९॥अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाःप्रत्यड्मुखीं परिणमय्य मनःप्रवृत्तिम् ।आस्वादयन्ति सरसं मणिपादरक्षे नादावसानसमये भवतीनिनादम् ॥४३०॥दाक्षिण्यमत्र नियतं नियता सुधाऽस्मि - न्नित्युद्गतो नियतमच्युतपादरक्षे ।प्रत्येकसंश्रितपदस्तुतये भवत्योः सङ्घर्षवाद इव मध्यमणिप्रणादः ॥४३१॥सञ्चारकेलिकलहायितगर्भरत्ना सांसिद्धिकं सकलजन्तुषु सार्वभौमम् ।रक्षार्थिनां प्रथयसीव पदावनि त्वंरङ्गेश्वरस्य निरवग्रहमानृशंस्यम् ॥४३२॥प्राप्तुं परं पुरिशयं पुरुषं मुनीना - मभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् ।श्रीरङ्गराजचरणावनि शिञ्जितं ते शङ्के समुन्नयनसामविशेषघोषम् ॥४३३॥नित्यं समाहितधियामुपंदर्शयन्ती नागेशयं किमपि धाम निजोर्ध्वभागे ।हृत्कर्णिकामनुगता मणिपादुके त्वं मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव ॥४३४॥मानेषु दानवरिपोर्मणिपादरक्षे त्वामाश्रितेषु निगमेष्ववधीरितेषु ।मञ्जुस्वनैर्वदसि मैवमितीव मात - र्वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम् ॥४३५॥क्रन्दत्सु कातरतया करणव्यपायेरङोपशल्यशयितेषु जनेष्वलक्ष्यम् ।आसीदसि त्वरितमस्खलितानुकल्पा मातेव मञ्जुनिनदा मणिपाद्के त्वम् ॥४३६॥भास्वत्सुवर्णवपुषां मणिपादरक्षे पद्मासहायपदपद्मविभूषणानाम् ।मञ्जीरशिञ्जितविकल्पितमञ्जुनादा मञ्जूषिकेव भवती निगमान्तवाचाम् ॥४३७॥रङ्गेशपादकमलात् त्वदधीनवृत्ते - रन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् ।आम्नायगूधमबहिर्मणिभिः क्कणद्भि - र्नेदीयसां प्रथयसीव निजानुभावम् ॥४३८॥कालोपपन्नकरणात्ययनिर्विचेष्टे जातश्रमे मयि जनार्दनपादरक्षे ।आश्वासनाय पुरतः प्रसरन्तु मात - र्वार्ताहरास्तव रवाः शमितार्तयो मे ॥४३९॥संरक्षणाय समये जगतां त्रयाणांयात्रासु रङ्गनृपतेरुपतस्थुषीषु ।सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे मङ्गल्यसूक्तिरनघा तव मञ्जुनादैः ॥४४०॥गर्भोपलैर्गमनवेगवशाद्विलोलै - र्वाचालिता मधुभिदो मणिपादुके त्वम् ।प्रस्तौषि भावितधियां पथि देवयाने प्रस्थानमङ्गलमृदङ्गविशेषघोषम् ॥४४१॥पर्यङ्कमाश्रितवतो मणिपादुके त्वंपादं विहाय परिकल्पितमौनमुद्रा । श्रोतुं प्रभोरवसरं दिशसीव मात - र्नाभीसरोजशयितार्भकसामगीतिम् ॥४४२॥भोगाय देवि भवती मणिपादरक्षे पद्मासहायमधिरोप्य भुजङ्गतल्पे ।विश्वस्य गुप्तिमधिकृत्य विहारहीना वाचंयमा किमपि चिन्तयतीव कार्यम् ॥४४३॥नित्यप्रबोधसुभगे पुरुषे परस्मिन् निद्रामुपेयुषि तदेकविहारशीला ।मञ्जुस्वनं विजहती मणिपादुके त्वं संवेशमिच्छसि परं चरणान्तिकस्था ॥४४४॥लास्यं विहाय किमपि स्थितमाश्रियन्ती रङ्गेश्वरेण सहिता मणिमण्टपेषु ।मञ्जुस्वनेषु विरतेष्वपि विश्वमेत - न्मौनेन हन्त भवती मुखरीकरोति ॥४४५॥विस्मापितेव भवती मणिपादरक्षे वैरोचनेर्वितरणेन तथाविधेन ।एतावताऽलमिति देवि गृहीतपादा नाथं त्रिविक्रममवारयतेव नादैः ॥४४६॥सामानि रङ्गनृपतिः सरसं च गीतंलीलागतेषु विनिवारयति स्वतन्त्रः ।श्रोतुं तव श्रुतिसुखानि विशेषवेदी मञ्जूनि काञ्चनपदावनि शिञ्जितानि ॥४४७॥तत्तादृशीं प्रथयता रुचिरां स्वरेखांवर्णाधिकेन मधुसूदनपादरक्षे ।पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो मञ्जुस्वनेन तव नैगमिकं सुवर्णम् ॥४४८॥मुग्धस्य हन्त भवतीं स्तुवतो ममैता - न्याकर्ण्य नूनमयथायथ जथल्पितानि ।इत्थं वद त्वमिति शिक्षयितुं प्रणादान् मञ्जूनुदीरयसि माधवपादुके त्वम् ॥४४९॥आदौ सहस्रमिति यत्सहसा मयोक्तं तूष्टूषता निरवधिं महिमार्णवं ते ।आम्रेडयस्यथ किमेतदमृष्यमाणा मञ्जुस्वनेन मधुजिन्मणिपादुके त्वम् ॥४५०॥परिमितपरिबर्हं पादुके सञ्चरिष्णौ त्वयि विनिहितपादे लीलया रङ्गनाथे ।नियमयति विपञ्चीं नित्यमेकान्तसेवी निशमयितुमुदारान्नारदस्ते निनादान् ॥४५१॥विहरति विशिखायां रङ्गनाथे सलीलं गमनवशविलोलैर्गर्भरत्नैः क्कणन्त्याः ।मणिवलयनिनादैर्मञ्जुलैस्ते दिशन्ति प्रतिवचनमुदारं पादुके पौरनार्यः ॥४५२॥अनुकृतसवनीयस्तोत्रशस्त्रां निनादै - रनुगतनिगमां त्वामास्थितो रङ्गनाथः ।अनितरविबुधार्हं हव्यमास्वादयिष्यन् विशति चरणरक्षे यज्ञवाटं द्विजानाम् ॥४५३॥चरणकमलमेतद्रङ्गनाथस्य नित्यं शरणमिति जनानां दर्शयन्ती यथावत् ।प्रतिपदमपि हृद्यं पादुके स्वादुभावा - दनुवदति परं ते नादमाम्नायपङ्क्तिः ॥४५४॥रहितभुजगतल्पे त्वत्सनाथे प्रजानां प्रतिभयशमनाय प्रस्थिते रङ्गनाथे ।प्रथममुदयमानः पादुके तूर्यघोषात् प्रतिफलति निनादः पाञ्चाजन्ये त्वदीयः ॥४५५॥वकुलधरतनुस्त्वं संहितां यामपश्यः श्रुतिपरिषदि तस्याः सौरभं योजयन्ति ।हरिचरणसरोजामोदसम्मोदितायाः प्रतिपदरमणीयाः पादुके ते निनादाः ॥४५६॥दनुतनयनिहन्तुर्जैत्रयात्रानुकूले शरदुपगमकाले सह्यजामापतन्ति ।श्रुतिमधुरमुदारं शिक्षितुं ते निनादंपरिहृतनिजवासाः पादुके राजहंसाः ॥४५७॥विहरणसमयेषु प्रत्यहं रङ्गभर्तु - श्चरणनखमयूखैः सोत्तरीया विशुद्धैः ।परिणमयसि नादं पादुके गर्भरत्नै - र्दमयितुमिव शिष्यान् दीर्घिकाराजहंसान् ॥४५८॥परिषदि विरतायां पादुके रङ्गभर्तुः परिजनमपवार्य प्रस्थितस्यावरोधान् ।मणिनिकरसमुद्यन्मञ्जुनादापदेशा - दभिलपसि यथार्हं नूनमालोकशब्दम् ॥४५९॥गुरुजननियतं तद्गोपिकानां सहस्रंदिनकरतनयायाः सैकते दिव्यगोपः ।वशमनयदयत्नाद्वंशनादानुयातै - स्तव खलु पदरक्षे तादृशैर्मञ्जुनादैः ॥४६०॥निजपदविनिवेशान्निर्विशेषप्रचारान् परिणमयति भक्तान् रङ्गनाथो यथा माम् ।इति विहरणकाले मञ्जुशिञ्जाविशेषै - र्हितमुपदिशसीव प्राणिनां पादुके त्वम् ॥४६१॥अयमयमिति तैस्तैः कल्पितानध्वभेदान् प्रतिपदमवलोक्य प्राणिनां व्याकुलानाम् ।चटुलमणिकलापैः शौरिपादावनि त्वं मुखरयसि विहारैर्मुक्तिघण्टापथाग्र्यम् ॥४६२॥पदकमलमुदारं दर्शयन्ती मुरारेः कलमधुरनिनादा गर्भरत्नैर्विलोलैः ।विषमविषयतृष्णाव्याकुलानि प्रजाना - मभिमुखयसि नूनं पादुके मानसानि ॥४६३॥मधुरिपुपदरक्षे मन्दबुद्धौ मयि त्वा - मनवधिमहिमानं त्वत्प्रसादात् स्तुवाने ।मणिनिकरसमुत्थैर्मञ्जुनादैः कवीना - मुपरमयसि तांस्तान्नूनमुत्सेकवादान् ॥४६४॥शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् ।प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वै - रलमलमिति नूनं वारयस्यादरेण ॥४६५॥विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं विलपति मयि मोहाद्बिभ्रती शौरिपादम् ।परिसरमधिगन्तुं पश्य पादावनि त्वं प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः ॥४६६॥करणविगमकाले कालहुङ्कारशङ्की द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् ।परिणमयतु कर्णे रङ्गनाथः स्वयं नः प्रणवमिव भवत्याह पादुके मञ्जुनादम् ॥४६७॥कमलवनसखीं तां कौमुदीमुद्वहन्तं सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् ।प्रलयदिनसमुत्थान् पादुके मामकीनान् प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः ॥४६८॥प्रशमयतु भयं नः पश्चिमश्वासकाले रहसि विहरणं ते रङ्गनाथेन सार्धम् ।नियतमनुविधत्ते पादुके यन्निनादो निखिलभुवनरक्शाघोषणाघोषलीलाम् ॥४६९॥त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं गतवति हृदि मोहं गच्छता जीवितेन ।परिकलयतु बोधं पादुके शिञ्जितं ते त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम् ॥४७०॥उपघ्नं संवित्तेरुपनिषदुपोद्धातवचनंतव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् ।विजृम्भन्ते नूनं मधुमथनपादावनि मम द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः ॥४७१॥विलासैः क्रीणन्तो निखिलजनचेतांसि विविधा विहारास्ते रङ्गक्षितिरमणपादावनि मुहुः ।विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला - खलात्कारव्याजक्षरदमृतधाराधमनयः ॥४७२॥श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां भजेम त्वां पद्मारमनचरणत्रायिणि परम् ।न मुद्रानिद्रानद्रविणकणविश्राणनदशा - विशालाहङ्कारं कमपि घनहुङ्कारपरुषम् ॥४७३॥तवैतच्छ्रीरङ्गक्षितिपतिपदत्रायिणि नृणांभवत्यागश्चिन्तारणरणकभङ्गाय रणितम् ।शरीरे स्वं भावं प्रथयति यदाकर्णनवशा - न्न नः कर्णे भावी यममहिषघन्टाघणघणः ॥४७४॥परित्रस्ताः पुण्यद्रवपतनवेगात्प्रथमतः क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि तदा ।विदामासुर्देवा बलिमथनसंरम्भमनघैः प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः ॥४७५॥स्वेषु स्वेषे पदेषु किं नियमयस्यष्टौ दिशामेश्वरान् स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया ।रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहंमा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके ॥४७६॥रङ्गे देवि रथाङ्गपाणिचरणस्वच्छन्दलीलासस्वि स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् ।कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी - दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम् ॥४७७॥त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा मातर्माधवपादुके बहुविदां प्रायः श्रुतिर्मुह्यति ।सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभि - र्ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः ॥४७८॥तवाम्ब किल खेलतां गतिवशेन गर्भाश्मनां रमारमणपादुके किमपि मञ्जुभिः शिञ्जितैः ।पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः सयूथ्यकलहायितं श्रुतिशतं समापद्यते ॥४७९॥क्षिपति मणिपादरक्षे नादैर्नूनं समाश्रितत्राणे । रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविलम्बम् ॥४८०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ नादपद्धतिश्चतुर्दशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP