संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| अभिषेकपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - अभिषेकपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत अभिषेकपद्धतिः Translation - भाषांतर पाहि नः पादुके यस्या विधास्यन्नभिषेचनम् ।आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥१८१॥राघवस्य चरणौ पदावनि प्रेक्षितुं त्वदभिषेकमीषतुः ।आभिषेचनिकभाण्डसन्निधौ यत्प्रदक्षिणगतिः शनैर्ययौ ॥१८२॥मूर्धाभिषिक्तैर्नियमेन वाह्यौविचिन्त्य नूनं रघुनाथपादौ ।रत्नासनस्थां मणिपादुके त्वां रामानुजन्मा भरतोऽभ्यषिञ्चत् ॥१८३॥भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् ।रामानुजौ तौ ननु पारतन्त्र्यादुभावुभाभ्यां भवती जिगाय ॥१८४॥निवेश्य रङ्गेश्वरपादरक्षे भद्रासने सादरमभ्यशिञ्चत् ।वशी वसिष्ठो मनुवंशजानां महीक्षितां वंशपुरोहितस्त्वाम् ॥१८५॥कृताभिषेका भवती यथावत् रङ्गेशपादाअनि रत्नपीठे ।गङ्गानिपातस्नपितां सुमेरोरधित्यकाभूमिमधश्चकार ॥१८६॥वसिष्ठमुख्यैर्विहितभिषेकां राज्यासने रामनिवेशयोग्ये ।तुष्टाव रङ्गेश्वरपादरक्षे प्राचेतसस्त्वां प्रथमः कवीनाम् ॥१८७॥रक्षोवधार्थं मणिपादरक्षे रामात्मनो रङ्गपतेः प्रवासे ।रक्षोऽपकाराद्भवती वितेने राजन्वतीं कोसलराजधानीम् ॥१८८॥प्राप्ताभिषेका मणिपादरक्षे प्रतापमुग्रं प्रतिपद्यमाना ।शशास पृथ्वीं भवती यथावत्साकेतसिंहासनसार्वभौमी ॥१८९॥दशाननादीन्मणिपादरक्षे जिगीषतो दाशरथेर्वियोगात् ।जातोपतापा त्वयि संप्रयुक्तै स्तीर्थोदकैरुच्छ्वसिता धरित्री ॥१९०॥अध्यासितं मनुमुखैःक्रमशोनरेन्द्रै - रारोप्य देवि भवतीं तपनीयपीठम् ।राज्याभिषेकमनघं मणिपादरक्षे रामोचितं तव वशं भरतो वितेने ॥१९१॥स्नेहेन देवि भवतीं विषयेऽभिषिञ्चन्द्विस्सप्तसंख्यभुवनोदरदीपरेखाम् ।जातं रघूद्वहदिवाकरविप्रयोगा - दन्धं तमिस्रमहरद्भरतः प्रजानाम् ॥१९२॥हस्तापचेयपुरुषार्थफलप्रसूते र्मूलं पदावनि मुकुन्दमहीरुहस्त्वम् ।छायाविशेषमदिशद्यदसौ प्रजाना - मावर्जितैस्त्वयि शुभैरभिषेकतोयैः ॥१९३॥अह्नाय रामविरहात्परिखिन्नवृत्ते - राश्वासनाय भवती मणिपादरक्षे ।तीर्थाभिषेकमपदिश्य वसुन्धराया - श्चक्रे तदा समुचितं शिशिरोपचारम् ॥१९४॥मालिन्यमाश्रितवती मणिपादरक्षे पङ्केन केकयसुताकलहोत्थितेन ।शुद्धिं परामभिजगाम वसुन्धरेयंत्वत्तः क्षणान्निपतितैरभिषेकतोयैः ॥१९५॥आवर्जितं मुनिगणेन जगद्विभूत्यै तोयं पदावनि तदा त्वयि मन्त्रपूतम् ।मूलावसेकसलिलं निगमद्रुमाणांशापोदकं च समभूत्क्षणदाचाराणाम् ॥१९६॥विप्रोषिते रघुपतौ भवती यथार्हंमान्ये पदे स्थितिमती मनुवंशजानाम् ।आत्मन्यथर्वनिपुणैः प्रहितैः प्रजाना - मश्रूण्यपास्यदभिषेकजलप्रवाहैः ॥१९७॥प्रायो विशोषितरसा पतिविप्रयोगात् पर्याकुलीकृतसमुद्रपयोधरा गौः ।अम्ब त्वदियमभिषेकजलं पिबन्तीधेनुर्बभूव जगतां धनधान्यदोग्ध्री ॥१९८॥वृत्ते यथावदभिषेकविधौ बभासेपश्चात्तवाम्ब भरतेन धृतः किरीटः ।आकस्मिकस्वकुलविप्लवशान्तिहर्षात् प्राप्तस्त्विषामिव पतिर्मणिपादुके त्वाम् ॥१९९॥मनुवंशपुरोहितेन मन्त्रै - रभिमन्त्र्य त्वयि पादुके प्रयुक्तम् ।अभिषेकजलं क्षणेन राज्ञांशमयामास समुत्थितान् प्रतापान् ॥२००॥पादपादुपहृता रघूद्वहा - दालवालमिव पीठमाश्रिता ।अभ्यषेचि भवती तपोधनैः पारिजातलतिकेव पादुके ॥२०१॥अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते दिनकरकुलदैन्यं पादुके क्षालयिष्यन् ।स खलु कमलयोनेः सूनुराधत्त मन्त्रे - श्वधिकनियमयोगां शक्तिमाधर्वणेषु ॥२०२॥दिनकरकुलजानां देवि पृथ्वीपतीनांनिरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् ।अजनिषत समस्ताः पादुके तावकीन - स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः ॥२०३॥तव विधिवदुपात्ते सार्वभौमाभिषेके भरतसमयविद्भिः पादुके मन्त्रिमुख्यैः ।त्वदवधि निजकर्मस्थायिनीनां प्रजानांप्रथमयुगविशेषाः प्रादुरासन् विचित्राः ॥२०४॥अवसितरिपुशब्दा नन्वभूस्त्वं तदावींरघुपतिपदरक्षे लब्धराज्याभिषेका ।चलितभुजलतानां चामरग्राहिणीनांमणिवलयनिनादैर्मेदुरान् मन्त्रघोषान् ॥२०५॥समुचितमभिषेकं पादुके प्रप्नुवत्यांत्वयि विनिपतितानां देवि तीर्थोदकानाम् ।ध्वनिरनुगतमन्त्रः सीदतां कोसलानां शमयितुमलमासीत् सङ्कुलानार्तनादान् ॥२०६॥दिविशदनुविधेयं देवि राज्याभिषेकंभरत इव यदि त्व पादुके नान्वमंथाः ।कथमिव रघुवीरः कल्पयेदल्पयत्न - स्त्रिचतुरशरपातैस्तादृशं देवकार्यम् ॥२०७॥कतिचन पदपद्मस्पर्शसौख्य त्यजन्ती व्रतमतुलमधास्त्वं वत्सरान् सावधाना ।रघुपतिपदरक्षे राक्षसैस्त्रासितानां रणरणकविमुक्तं येन राज्यं सुराणाम् ॥२०८॥अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां वसिष्ठादीनामप्युपचितचमत्कारभरया ।त्वदास्थान्या रङ्गक्षितिरमनपादावनि तदा लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः ॥२०९॥अभिशेचयतु स रामःपदेन वा स्पृशतु पादुके भवतीम् ।अविशेषितमहिमा त्वंक्क वा विशेषः क्षमासमेतानाम् ॥२१०॥इति कवितार्त्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कुतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ अभिषेकपद्धतिः सप्तमी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP