संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
रत्नसामान्यपद्धतिः

श्रीपादुकासहस्रम् - रत्नसामान्यपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


उदर्चिषस्ते रङ्गेन्द्रपादावनि बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥४८१॥
विधेहि शौरेर्मणिपादुके त्वं
विपद्यमाने मयि रश्मिजालैः ।
आसीदतामन्तककिङ्कराणां
वित्रासनान् वेत्रलताविशेषान् ॥४८२॥
मुकुन्दपादावनि मध्यनाड्या
मूर्धन्यया निष्पततो मुमुक्षोः ।
आब्रह्मलोकादवलम्बनार्थं रत्नानि
ते रश्मिगणं सृजन्ति ॥४८३॥
असूर्यभेद्यां रजनीं प्रजाना
मालोकमात्रेण निवारयन्ती ।
अमोघवृत्तिर्मणिपादरक्षे मुरद्विषो
मूर्तिमती दया त्वम् ॥४८४॥
रङ्गेशपादावनि तावकानां
रत्नोपलानां द्युतयः स्फुरन्ति ।
श्रेयःफलानां श्रुतिवल्लरीणा
मुपघ्नशाखा इव निर्व्यपायाः ॥४८५॥
कस्यापि पुंसः कनकापगायाः
पुण्ये सलीलं पुलिने शयालोः ।
समीपवृत्तिर्मणिपादुके त्वं
संवाहयन्तीव पदं करैः स्वैः ॥४८६॥
दिदृक्षमाणस्य परं निधानं
स्नेहान्विते योगदशाविशेषे ।
संवित्प्रदीपं मणिपादरक्षे
सन्धुक्षयन्तीव मरीचयस्ते ॥४८७॥
समाधिभाजां तनुते त्वदीया
रङ्गेशपादावनि रत्नपङ्क्तिः ।
स्थानं प्रयातुं तमसः परं तत्
प्रदीपकृत्यं प्रभया महत्या ॥४८८॥
बन्धासि रङ्गेश्वरपादरक्षे
मन्ये यथार्हं मणिरश्मिजालैः ।
सेवानतानां त्रिदशेश्वराणां
शेषापटीं शेखरसन्निकृष्टाम् ॥४८९॥
भजन्ति रङ्गेश्वरपादरक्षे
प्रकल्पयन्तो विविधान् पुमर्थान् ।
उदर्चिषश्चिन्तयतां जनानां
चिन्तामणित्वं मणयस्त्वदीयाः ॥४९०॥
नाथस्य दत्ते नदराजकन्या
पातुं शुभान् पादनखेन्दुरश्मीन् ।
मणिप्रभाभिः प्रतिपन्नपक्षां
लीलाचकोरीमिव पादुके त्वाम् ॥४९१॥
जनस्य रङ्गेश्वरपादुके त्वं
जातानुकल्पा जनयस्ययत्नात् ।
आकृष्य दूरान्मणिरश्मिजालै -
रनन्यलक्षाणि विलोचनानि ॥४९२॥
रङ्गेशपादावनि तावकीनैः
स्पृष्टाः कदाचिन्मणिरश्मिपाशैः ।
कालस्य घोरं न भजन्ति भूयः
कारागृहान्तेषु कशाभिघातम् ॥४९३॥
रत्नानि रङ्गेश्वरपादरक्षे
त्वदाश्रितान्यप्रतिघैर्मयूखैः ।
आसेदुषीणां श्रुतिसुन्दरीणां
वितन्वते वर्णनिचोललक्ष्मीम् ॥४९४॥
निद्रारसप्रणयिनो मणिपादरक्षे
रङ्गेश्वरस्य सविधं प्रतिपद्यमाना ।
शय्याफणीन्द्रमभितो भवती विधत्ते
रत्नांशुभिर्यवनिकामिव दर्शनीयाम् ॥४९५॥
सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां
स्रस्तांशुकं निजरुचा मणिपादुके त्वम् ।
पद्मासहायपरिवारविलासिनीनां
पट्टांशुकैरिव पयोधरमावृणोषि ॥४९६॥
देवस्य रङ्गवसतेः पुरतः प्रवृत्तै -
रुद्धूतविश्वतिमिरां मणिरश्मिजालैः ।
मन्ये मदीयहृदयायतनप्रवेश -
मङ्गल्यदीपकणिकां मणिपादुके त्वाम् ॥४९७॥
आकीर्णरत्ननिकरां मणिपादुके त्वां
रङेश्वरस्य ललितां विपणिं प्रतीमः ।
यत्संश्रयेण भवति स्थिरभक्तिमूल्यं
कैवल्यमत्र जगतां क्रयविक्रयार्हम् ॥४९८॥
व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं
वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् ।
आश्लिष्य निर्भररुचिं मणिपादुके त्वा -
मासीदनाभरणसुन्दरमङ्घ्रिपद्मम् ॥४९९॥
रत्नप्रभापटलचक्रमनोहरा त्वं
पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः ।
मन्ये तदेतदुभयं मणिपादरक्षे
चक्राब्जमण्डलमकिञ्चनरक्षणार्थम् ॥५००॥
त्रासात्स्वयं प्रणमतां दनुजेश्वराणां
सङ्ख्येऽवलूनशिरसामपि मौलिरत्नैः ।
आयोजयत्यनुकलं मणिपादुके त्वां
सैरन्ध्रिकेव मुरवैरिकृपाणधारा ॥५०१॥
आस्कन्दनानि विबुधेन्द्रशिखामणीनां
त्वामाश्रितान्यसुरसूदनपादरक्षे ।
रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे
नूनं भजन्ति निकषोपलतां कवीनाम् ॥५०२॥
पादावनि प्रणयिनां प्रतिपादितार्थां
क्रीडासरोजमिव शौरिपदं वहन्तीम् ।
प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां
पश्यामि रोहणगिरेरधिदेवतां त्वाम् ॥५०३॥
यामेव रत्नकिरणैर्मणिपादाक्षे
क्रीडासरोजमिव शौरिपदं वहन्तीम् ।
प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां
पश्यामि रोहणगिरेरधिदेवतां त्वाम् ॥५०४॥
रत्नाङ्कुरैरविरला मणिपादरक्षे
पाकोन्मुखैः परिगता पुरुषार्थसस्यैः ।
देवेन रङ्गपतिना जगतां विभूत्यै
केदारिकेव कृपया परिकल्पिता त्वम् ॥५०५॥
निर्धूतमोहतिमिरास्तव रत्नदीपै -
र्निर्विश्यमानविभवं नदराजपुत्र्या ।
प्रत्यक्षयन्ति निगमान्तनिगूधमर्थं
पादावनि त्वयि निवेशितभावबन्धाः ॥५०६॥
रत्नोपलप्रकरसम्भव एष दूराद्
रङ्गाधिराजचरणावनि तावकीनः ।
आर्द्रापराधपरिखिन्नधियां प्रजाना -
माश्वासनार्थ इव भाति करप्रसारः ॥५०७॥
व्यामुह्यतो विषयिबालमृगान्मदीयान्
संसारघर्मजनितासु मरीचिकासु ।
पादावनि प्रगुणरत्नमरीचिजालै -
राकृष्य विश्रमय केशवकान्तिसिन्धौ ॥५०८॥
अन्तर्निधाय मुनिभिः परिरक्षमाणा -
मात्मीयरश्मिगुणितां मणिपादरक्षे ।
रङ्गेशपादकमलप्रतिपन्नमुद्रां
नीवीमवैमि भवतीं निगमान्तवाचाम् ॥५०९॥
रामस्य रङ्गवसतेश्चरणानुषङ्गात्
काष्ठां गतां परमपावनतां दधाना ।
पादावनि प्रचुररत्नशिलानिबद्धा
संसारसन्तरणसेतुरसि प्रजानाम् ॥५१०॥
दिविषन्मकुटेषु सञ्चरन्त्याः प्रचुरस्ते मणिपादुके प्रकाशः ।
दिवि रङ्गपतेर्महोत्सवार्थं वितता वन्दनमालिकेव भाति ॥५११॥
प्रभवन्ति दवीयसां स्वभावात्
तव रत्नानि मुकुन्दपादरक्षे ।
अयसामिव हन्त लोहकान्ताः
कठिनानां मनसां विकर्षणाय ॥५१२॥
परिपश्यति देवि रङ्गनाथे रहसि त्वं सविधे निविश्य लक्ष्म्याः ।
परिपुष्यसि रत्नधामभिः स्वैरनसूयेव मनोज्ञमङ्गरागम् ॥५१३॥
तव रत्नकरार्पितं नवीनं परिगृह्य स्थिरमंशुकं मनोज्ञम् ।
जरदंशुकत्सुखेन देहं कृतिनः केशवपादुके त्यजन्ति ॥५१४॥
अभितो मणिपादुके निबद्धैः
कृतसंस्कारविशेषमात्मरत्नैः ।
कुरुते भवती पदं मुरारेः
कठिनेऽस्मिन् हृदि मे निवेशयोग्यम् ॥५१५॥
निजरत्नकराञ्चलैर्मदीयानपराधानवधूय दत्तसाम्या ।
रमया सहितस्य रङ्गभर्तुः पदयोरर्पय पादुके स्वयं माम् ॥५१६॥
रश्मिजालपरिवेषबन्धुरा रङ्गभूमिपतिरत्नपादुके ।
विश्वलोचनविहङ्गहारिणी वागुरेव वितता विराजसे ॥५१७॥
मानसाम्बुजविकासहेतुभिः सेविता मणिगणैः प्रभाकरैः ।
पादुके वहसि सद्भिराश्रितां देवि विष्णुपदसम्पदं नवाम् ॥५१८॥
अधिशयितफणिश्वरस्य शौरेः
स्वयमधिरूढपदोपधानपार्श्वा ।
मणिवलयजुषा करेण मन्दं
स्पृशसि पदावनि पादयोर्युगं तत् ॥५१९॥
भवत्यन्ते त्वां प्रणतस्य जन्तो -
स्तदोकोऽग्रज्वलनं त्वत्प्रकाशैः ।
यतो नाड्या मध्यमया विनिर्यन्
गतिं विन्देत् केशवपादरक्षे ॥५२०॥
अशिथिलपरिणद्धा रश्मिजालैर्मणीनां
दुरधिगमतमं नः पारमारोपयन्ती ।
कमलनयनमाद्यं कर्णधारं दधाना
भवसि भवपयोधेः पादुके पोतपात्री ॥५२१॥
मणिगणकिरणैस्ते कल्पिते गुल्मभेदे
मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् ।
हरति चरणरक्षे भक्तिपाशावरुद्धं
हृदयहरिणयूथं प्राणिनां रङ्गनाथः ॥५२२॥
परिचितपदमूला पादुके रङ्गिणस्तवं
प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि ।
भवति भृशमधस्तात् तेजसा भव्यभूम्ना
शलभितदुरितानां तावकानां मणीनाम् ॥५२३॥
कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते
विष्वग्व्याप्ते जगति तमसा पादुके तादृशेन ।
स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः
सम्पद्यन्ते सह कमलया जागरूकस्य यूनः ॥५२४॥
श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपा -
दारूढायां त्वयि मखभुजामानतान् मौलिभागान् ।
तेषां चूडामणिभिरनघैस्तावकानां मणीनां
केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम् ॥५२५॥
त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो
मातर्माधवपादुके न तु पुनर्हस्तैः स्पृशन्त्याकुलैः ।
दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाःपालकोपानल -
ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः ॥५२६॥
संवर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि
प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् ।
तन्मन्ये त्वदनन्यसूरिपरिषन्मध्ये निवेशाय न -
स्तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धंतमः ॥५२७॥
सलीलं विन्यस्य त्वयि चरणरक्षे निजपदं
यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके ।
दिशासौधानष्टौ जनयसि तदा निर्भरमिल -
न्मणिच्छायामायाघनघटितकेतुव्यतिकरान् ॥५२८॥
महाघैंराश्लिष्टां मणिभिरवधूतद्युमणिभिः
कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब भवतीम् ।
मुकुन्देन त्रातुं पदकमलमूले विनिहितां
निराबाधां मन्ये निधिमनघवाचां निरवधिम् ॥५२९॥
तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् ।
तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके तेजः ॥५३०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ रत्नसामान्यपद्धतिः पञ्चदशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP