संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| पुष्पपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - पुष्पपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत पुष्पपद्धतिः Translation - भाषांतर शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥३२१॥दैवतं मम जगत्त्रयार्चिता दिव्यदम्पतिविहारपादुका ।पाणिपादकमलार्पणात् तयोर्या भजत्यनुदिनं सभाजनम् ॥३२२॥तव रङ्गराजमणिपादु ततो विहितार्हणः सुरसर्त्पयसा ।अवतंसचन्द्रकलया गिरिशो नवकेतकीदलमिवार्पयति ॥३२३॥कुसुमेषु समर्पितेषु भक्तै - स्त्वयि रङ्गेशपदावनि प्रतीमः ।शठकोपमुनेस्त्वदेकनाम्नः सुभगं यत् सुरभित्वमस्य नित्यम् ॥३२४॥पदे परस्मिन् भुवने विधातुःपुण्यैः प्रसूनैः पुलिने सरय्वाः ।मध्ये च पादावनि सह्यसिन्धो -रासीच्चतुःस्थानमिवार्चनं ते ॥३२५॥तवैव रङ्गेश्वरपादरक्षे सौभाग्यमव्याहतमाप्तुकामाः ।सुरद्रुमाणां प्रसवैः सुजतैरभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम् ॥३२६॥निवेशितां रङ्गपतेः पदाब्जे मन्ये सपर्यां मणिपादरक्षे ।त्वदर्पणादापतितामपश्यद् गाण्डीवधन्वा गिरिशोत्तमाङ्गे ॥३२७॥पत्राणि रङ्गनृपतेर्मनिपादरक्षे द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः ।पर्यायलब्धपुरुहूतपदाः शचीनांपत्राङ्कुराणि विलिखन्ति पयोधरेषु ॥३२८॥निर्वर्तयन्ति तव ये निचितानि पुष्पै - र्वैहारिकाण्युपवनानि वसुन्धरायाम् ।कालेन ते कमललोचनपादरक्षे क्रीडन्ति नन्दनवने कृतिनः पुमांसः ॥३२९॥अर्चन्ति ये मुरभिदो मणिपादरक्षे भावात्मकैरपि परं भवतीं प्रसूनैः ।मन्दारदामसुभगैर्मकुटैरजस्रं बृन्दारकाः सुरभयन्ति पदं तदीयम् ॥३३०॥अस्पृष्टदोषपरिमर्शमलङ्घ्यमन्यै - र्हस्तापचेयमखिलं पुरुषार्थवर्गम् ।चित्रं जनार्दनपदावनि साधकानांत्वय्यर्पिताः सुमनसः सहसा फलन्ति ॥३३१॥वन्दारुभिः सुरगणैस्त्वयि सम्प्रयुक्ता माला विभाति मधुसूदनपादरक्षे ।विक्रान्तविष्णुपदसंश्रयबद्धसख्या भागीरथीव परिरम्भणकांक्षिणी ते ॥३३२॥ये नाम रङ्गनृपतेर्मणिपादुके त्वा - मभ्यर्चयन्ति कमलैरधिकर्तुकामाह ।आरोपयत्यवहिता नियतिः क्रमात् तान् कल्पान्तरीयकमलासनपत्रिकासु ॥३३३॥त्वय्यर्पितानि मनुजैर्मणिपादरक्षेदूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः ।साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या संसारनागदमनौषधयो भवन्ति ॥३३४॥आराध्य नूनमसुरार्दनपादुके त्वा - मामुष्मिकाय विभवाय सहस्रपत्रैः ।मन्वन्तरेशु परिवर्तिषु देवि मर्त्याः पर्यायतः परिणमन्ति सहस्रनेत्राः ॥३३५॥धन्यैस्त्वयि त्रिदशरक्षकपादरक्षेपुष्पाणि काञ्चनमयानि समर्पितानि ।विस्रंसिना विनमतो गिरिशोत्तमाङ्गा - दारग्वधेन मिलितान्यपृथग्भवन्ति ॥३३६॥विश्वोपसर्गशमनं त्वयि मन्यमानै - र्वैमानिकैः प्रणिहितं मणिपादरक्षे ।पद्मासहायपदपद्मनखार्चिषस्ते पुष्पोपहारविभवं पुनरुक्तयन्ति ॥३३७॥नाकौकसां शमयितुं परिपन्थिवर्गान् नाथे पदं त्वयि निवेशयितुं प्रवृत्ते ।त्वत्संश्रितां विजहतस्तुलसीं वमन्ति प्रस्थानकाहलरवान् प्रथमं द्विरेफाः ॥३३८॥रङ्गेशपादपरिभोगसुजातगन्धांसम्प्राप्य देवि भवतीं सह दिव्यपुष्पैः ।नित्योपदर्शितरसं न किलाद्रियन्ते नाभीसरोजमपि नन्दनचञ्चरीकाः ॥३३९॥प्रागेव काञ्चनपदावनि पुष्पवर्षात् संवर्तिते शमितदैत्यभयैः सुरेन्द्रैः ।पद्मेक्षणस्य पदपद्मनिवेशलाभे पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम् ॥३४०॥दिशिदिशि मुनिपत्न्यो दण्डकारण्यभागे न जहति बहुमानान्नूनमद्यापि मूलम् ।रघुपतिपदरक्षे त्वत्परिष्कारहेतो - रपचितकुसुमानामाश्रमानोकहानाम् ॥३४१॥घटयसि परिपूर्णान् कृष्णमेघप्रचारे कृतिभिरुपहृतैस्त्वं केतकीगर्भपत्रैः ।वरतनुपरिणामाद्वामतः श्यामलानां प्रनतिसमयलग्नान् पादुके मौलिचन्द्रा ॥३४२॥परिचरणनियुक्तैः पादुके रङ्गभर्तुःपवनतनयमुख्यैरर्पितां त्वत्समीपे ।विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम् ॥३४३॥विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पै -स्त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः ।मधुरिपुपदरक्षे मञ्जुभिः स्वैर्निनादै - रविदितपरमार्थान् नूनमध्यापयन्ति ॥३४४॥प्रशमयति जनानां सज्ज्वरं रङ्गभर्तुःपरिसरचलितानां पादुके चामराणाम् ।अनुदिनमुपयातैरुत्थितं दिव्यपुष्पै - र्निगमपरिमलं ते निर्विशन् गन्धवाहः ॥३४५॥अखिलभुवनरक्षानाटिकां दर्शयिष्य - न्ननिमिषतरुपुष्पैरर्चिते रङ्गमध्ये ।अभिनयमनुरूपं शिक्षयत्यात्मना त्वां प्रथमविहितलास्यः पादुके रङ्गनाथः ॥३४६॥अगलितनिजरागं देवि विष्णोः पदं तत् त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् ।भवति विबुधमुक्तैः स्पष्टतारानुषङ्गंपरिसरपतितैस्ते पारिजातप्रसूनैः ॥३४७॥व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रतीर्नःप्राध्वं रङ्गक्षितिपतिपदं पादुके धारयन्त्याः ।नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गा दिव्यैः पुष्पैः स्नपितवपुषो देवि सौस्नातिकास्ते ॥३४८॥किं पुष्पैस्तुलसीदलैरपि कृतं दूर्वाऽपि दूरे स्थिता त्वत्पूजासु मुकुन्दपादु कृपया त्वं कामधेनुः सताम् ।प्रत्यग्राहृतदर्भपल्लवदलग्रासाभिलाषोन्मुखी धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले ॥३४९॥चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् ।रङ्गेशपादुके त्वामभिषिञ्चति मौलिगङ्ग्या शम्भुः ॥३५०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ पुष्पपद्धतिर्द्वादशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP