संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| निर्वेदपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - निर्वेदपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत निर्वेदपद्धतिः Translation - भाषांतर प्रपद्ये पादुकां देवी परविद्यामिव स्वयम् ।यामर्पयति दीनानां दयमानो जगद्गुरुः ॥९५१॥अपि जन्मनि पादुके परस्मि - न्ननघैः कर्मभिरीदृशो भवेयम् ।य इमे विनयेन रङ्गभर्तुः समये त्वां पदयोः समर्पयन्ति ॥९५२॥परिवर्तयिता पितामहादीन् ।त्वमिवानन्तमसौ वहत्यनेहा ।अधुनाऽपि न शौरिपादुके त्वा - मनघालम्बनमभ्युपैति चित्तम् ॥९५३॥कमलाध्युषिते निधौ निरीहे सुलभे तिष्ठति रङ्गकोशमध्ये ।त्वयि तत्प्रतिलम्भने स्थितायां परमन्विच्छति पादुके मनो मे ॥९५४॥यद्यप्यहं तरलधीस्तव न स्मरेयंन स्मर्तुमर्हसि कथं भवती स्वयं मे ।वत्से विहारकुतुकं कलयत्यवस्था का नाम केशवपदावनि वत्सलायाः ॥९५५॥मातर्मुकुन्दकरुणामपि निह्नुवानात्किं वा परं किमपि किल्बिषतो मदीयात् ।गाढं गृहीतचरणा गमनापदेशात् तत्प्रेरणप्रणयिनी तव चेन्न लीला ॥९५६॥क्षीबाऽसि काञ्चनपदावनि कैटभारेःपादारबिन्दमकरन्दनिषेवणेन ।देवि त्वदन्तिकजुषः कथमन्यथा मे दीनाक्षराणि न श्रृणोषि दयाधिका त्वम् ॥९५७॥मातस्त्वदर्पितभरस्य मुकुन्दपादे भद्रेतराणि यदि नाम भवन्ति भूयः ।कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः किं न त्रपेत तव काञ्वनपादरक्षे ॥९५८॥दौवारिकद्विरसनप्रबलान्तरायै - र्दूये पदावनि दुराढ्यबिलप्रवेशैः ।तद्रङ्गधामनिरपायधनोत्तरायां त्वय्येव विश्रमय मङ्क्षु मनोरथं मे ॥९५९॥व्यामुह्यतां त्रिविधतापमये निदाघे मायाविशेषजनितासु मरीचिकासु ।संस्पृष्टशौरिचरणा चरणावनि त्वं स्थेया स्वयं भवसि नश्चरमे पुमर्थे ॥९६०॥अच्छेद्यया विषयवागुरया निबद्धान् दीनान् जनार्द्नपदावनि सत्पथस्था ।प्रायः क्रमेण भवती परिगृह्य मौलौ कालेन मोचयति नः कृपया सनाथा ॥९६१॥संवाहिका चरणयोर्मणिपादरक्षे देवस्य रङ्गवसतेर्दयिता ननु त्वम् ।कस्त्वां निवारयितुमर्हति योजयन्तींमातः स्वयं गुणगणेषु ममापराधान् ॥९६२॥किं वा भविष्यति परं कलुशैकवृत्ते - रेतावताऽप्यनुपजातमनेहसा मे ।एकं तदस्ति यदि पश्यसि पादुके ते पद्मासहायपदपङ्कजभोगसाम्यम् ॥९६३॥विविधविषयचिन्तासन्तताभिश्चिरं मां जनितकलुषमित्थं देवि दुर्वासनाभिः ।पदसरसिजयोत्स्वं पादुके रङ्गभर्तुः परिमलपरिवाहैः पावनैर्वासयेथाः ॥९६४॥शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे सकृदपि विनियुक्तं त्वत्सपर्याधिकारे ।पुनरपि कथमेनं हस्तमुत्तानयेयंधनमदमुदितानां मानवानां समाजे ॥९६५॥यदि किमपि समीहे कर्म कर्तुं यथावत् प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः ।अवधिरसि यदि त्वं तत्र नैमित्तिकानांशरणमिह न किं मे शौरिपादावनि स्याः ॥९६६॥अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिःशब्दादीनां परवशतया दुर्जयानीन्द्रियाणि ।विष्णोः पादप्रणयिनि चिरादस्य मे दुःखसिन्धोः पारं प्रपयं भवति परया विद्यया वा त्वया वा ॥९६७॥गोमायूनां मलयपवने तस्कराणां हिमांशौदुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे ।तत्त्वज्ञाने तरलमनसां शार्ङ्गिणः पादरक्षे नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः ॥९६८॥काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्या घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् ।श्रीमद्रङ्गेश्वरचरनयोरन्तरङ्गैः प्रयुक्तंसेवाह्वानं सपदि श्रृणुयां पादुकासेवकेति ॥९६९॥पाषाणकल्पमन्ते परिचितगौतमपरिग्रहन्यायात् ।पतिपदपरिचरणार्हं परिणमय मुकुन्दपादरक्षिणि माम् ॥९७०॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP