संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| सुभाषितपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - सुभाषितपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत सुभाषितपद्धतिः Translation - भाषांतर कलासु काष्ठामातिष्ठन् भृम्ने सम्बन्धिनामपि ।पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥८२१॥सन्तः स्वदेशपरदेशविभागशून्यं हन्त स्ववृत्तिमनघां न परित्यजन्ति ।राज्ये वने च रघुपुङ्गवपादरक्षा नैजं जहौ न खलु कण्टकशोधनं तत् ॥८२२॥ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तंपृथ्वीं शशास परिमुक्तपदं पदत्रं ।किं वा न किं भवति केलिविधौ विभूनाम् पुण्य शरव्यमभवत्पयसां निधिर्वा ॥८२३॥अन्येषु सत्स्वपि नरेन्द्रसुतेशु दैवाद् भ्रष्टः पदादधिकरोति पदं पदार्हः ।प्रायो निदर्शयति तत्प्रथमो रघूणां तत्पादयोः प्रतिनिधी मणिपादुके वा ॥८२४॥चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं सकलभुवनगुप्त्यै सत्पथे वर्तते यः ।नरपतिबहुमानं पादुकेवाधिगच्छन् स भवति समयेषु प्रेक्षितज्ञैरुपास्यः ॥८२५॥रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां माता वव्रे तदहि भरते सत्यवादी ददौ च ।चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको दुर्व्ज्ञानस्वहृदयमहो दैवमत्र प्रमाणम् ॥८२६॥नातिक्रामेच्चरणवहनात्पादुका पादपीठंयद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य ।पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यंशङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम् ॥८२७॥प्रतिपदचपलाऽपि पादुका रघुपतिना स्वपदे निवेशिता ।समजनि निभृतस्थितिस्तदा भवति गुणः श्रियमभ्युपेयुषाम् ॥८२८॥गतिहेतुरभूत् क्कचित्पदे स्थितिहेतुर्मणिपादुका क्कचित् ।न हि वस्तुशुशक्तिनिश्चयोनियतिः केवलमीश्वरेच्छया ॥८२९॥अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः ।अलभत समये रामात् पादाक्रान्ताऽपि पादुका राज्यम् ॥८३०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ सुभाषितपद्धतिरष्टाविंशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP