श्रीपादुकासहस्रम् - द्वन्द्वपद्धतिः
श्रीमद्वेदान्तदेशिक विरचितम्
प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम् ॥७६१॥
मणिपादुकयोर्युगं मुरारेर्मयि नित्यं विदधातु मङ्गलानि ।
अधिकृत्य चराचरस्य रक्शामानुकम्पाक्षमयोरिवावतारः ॥७६२॥
चरणौ मणिपादुके मुरारेः प्रणतान् पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां प्रतिकारं युवयोर्द्वयं प्रतीमः ॥७६३॥
मुरभिन्मणिपादुके भवत्योर्विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणामविरोधाय सुरासुरेश्वराणाम् ॥७६४॥
अहितोन्मथनाय संश्रितानामलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ मधुहन्तुः पदयोश्च पादुके ये ॥७६५॥
अवधीरितसाधुपद्धतीनामलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं प्रतिपन्ने इव दैवपौरुषे नः ॥७६६॥
पार्श्वयोः सरसिजावसुन्धरे पादयोश्च मणिपादुके युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः किं करिष्यति कृतागसां गणः ॥७६७॥
पादुके भवभयप्रतीपयोर्भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे विद्ययोरिव परावरात्मनोः ॥७६८॥
रङ्गसीमनि रथाङ्गलक्ष्मणश्चिन्तयामि तपनीयपादुके ।
शापदोषशमनाय तत्पदे चक्रवाकमिथुनं कृतास्पदम् ॥७६९॥
मानयामि जगतस्तमोपहे माधवस्य मणिपादुके युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः ॥७७०॥
रङ्गनाथपदयोरलङ्क्रिया राजते कनकपादुकाद्वयी ।
तद्विभूतियुगलीव तादृशी छन्दतः समविभागमाश्रिता ॥७७१॥
साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्या -
माज्ञां श्रुतिस्मतिमयीमवधारयामि ॥७७२॥
विश्वोपकारमधिकृत्य विहारकाले -
श्वन्योन्यतः प्रथममेव्परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम् ॥७७३॥
द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधास्थितवती मणिपादुके त्वम् ।
यत्रैव दर्शयति देवि सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा ॥७७४॥
पर्यायतो गतिवशान्मणिपादरक्षे
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये ॥७७५॥
अश्रान्तसञ्चरणयोर्निजसम्प्रयोगा -
दम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे
विद्ये बलामतिबलां च विचिन्तयामि ॥७७६॥
अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत्
पद्यामित्थं परिचितवतां पादुके पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथपादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः ॥७७७॥
न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्यो -
राम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः ॥७७८॥
अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः ॥७७९॥
बद्धहरिपादयुगलं युगलं तपनीयपादुके युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयश्रृङ्खलायुगलम् ॥७८०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्म कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ द्वन्द्वपद्धतिश्चतुर्विशी ॥
N/A
References : N/A
Last Updated : September 03, 2017
TOP