संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग आठवा मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग आठवा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग आठवा Translation - भाषांतर श्रीवसिष्ठ उवाच ॥नाकृतिर्न कर्माणि न स्पन्दो न पराक्रमः । तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते ॥१॥स्वकर्मफलसंप्राप्ताविदमित्थमितीति याः । गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥२॥तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः । आत्तो दुरवबोधेन रज्ज्वामिव भूजंगमः ॥३॥ ह्यस्तनी दुषिक्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत् ॥४॥ मूढानुमानसंसिद्धं दैवं यस्थास्ति दुर्मतेः । दैवाद्दाहोस्ति नैवेति गन्तव्यं तेन पावके ॥५॥ दैवमेवेह चेत्कर्तृ पुंसः किमिव चेष्टया । स्नानदानासनोच्चारन्दिअवमेव करिष्यति ॥६॥ किं वा शास्त्रोपदेशेन मूकोयं पुरुषः किल । संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥७॥ न च निस्पन्दता लोके दृष्टेह शवतां विना । स्पन्दाच्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम् ॥८॥न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता । पुंसः संदृश्यते काचित्तस्माद्दैवं निरर्थकम् ॥९॥मिथाङ्गानि समासाद्य द्वयोरेकैककतृता । हस्तादीनां हतत्वे ह न दैवेन क्कचित्कृतम् ॥१०॥मनोबुद्धिवदप्येतद्दैवे नेहानुभूयते । आगोपालं कृतप्रज्ञैस्तेन दवमसत्सदा ॥११॥पृथक्केद्बुद्धिरन्योर्थः सैव चेत्कान्यता तयोः । कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते ॥१२॥ नामूर्तेस्तेन सङ्गोस्ति नभसेव वपुष्मतः । मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ॥१३॥ विनियोक्तृय भूतानामस्त्यन्यच्चेज्जगत्त्रये । शेरते भृतवृन्दानि दैवं सर्वं करिष्यति ॥१४॥दैवेन त्वभियुक्तोहं तत्करोमीदृशं स्थितम् । समाश्वासनवागेषा न दैवं परमार्थतः ॥१५॥मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः । प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः ॥१६॥ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः । तैस्तैः किमिव लोकेस्मिन्दव दैवं प्रतीक्ष्यते ॥१७॥कालविद्भिर्विनिर्णीता यम्यातिचिरजीविता । स चेज्जेवति संछिन्नशिरास्तद्दैवमुत्तमम् ॥१८॥कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव । अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥१९॥विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः । पौरुपेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ॥२०॥अस्माभिरपरै राम पुरुषैर्मुनितां गतैः । पौरुषेणैव संप्राप्ता चिरं गगनगामिता ॥२१॥उत्साद्य देवसंघातं चक्रुस्त्रिभुवनोदरे । पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥२२॥आलूनशीर्णमाभोगि जगदाजर्हुरोजसा । पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥२३॥राम पौरुषयुक्त्या च सलिलं धार्यतेनया । चिरं करण्डके चारु न दैवं तत्र कारणम् ॥२४॥भरणादानसंरम्भविभ्रमश्रमभूमिषु । शक्तता दृश्यते राम न दैवस्यौषधेरिव ॥२५॥सकलकारणकार्यविवर्जितं निजविकल्पवशादुपकल्पितम् । त्वमनपेक्ष्य हि दैवमसन्मयं श्रय शुभाशय पौरुषमुत्तमम् ॥२६॥ [ २६३ ] इति श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदुतोक्ते मोक्षोपाये० दैवनिराकरणं नामाष्टमः सर्गः ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP