संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग पहिला मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग पहिला ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग पहिला Translation - भाषांतर श्रीवाल्मीकिरुवाच ॥इति नादेन महता वचस्युक्ते सभागतैः । राममग्रगतं प्रीत्या विश्वामित्रोभ्यभाषत ॥१॥न राघव तवात्स्यन्यज्ज्ञेयं ज्ञानवतां वर । स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवानसि ॥२॥केवलं मार्जनामात्रं मनागेवोपयुज्यते । स्वभावविमले नित्यं स्वबुद्धिमुकुरे तव ॥३॥भगवव्द्यासपुत्रस्य शुकस्येव मतिस्तव । विश्रान्तिमात्रमेवान्तर्ज्ञातज्ञेयाप्यपेक्षते ॥४॥श्रीराम उवाच ॥भगवव्द्यासपुत्रस्य शुक्रस्य भगवन्कथम् । ज्ञेयेप्यादौ न विश्रान्तं विश्रान्तं च धिया पुनः ॥५॥विश्वामित्र उवाच ॥आत्मोदन्तसमं राम कथ्यमानमिदं मया । शृणु व्यासात्मजोदन्तं जन्मनामन्तकारणम् ॥६॥ योग्यमञ्जनशैलाभो निविष्टो हेमविष्टरे । पार्श्वे तव पितुर्व्यासो भगवान्भास्करद्युतिः ॥७॥ अस्याभूदिन्दुवदनस्तनयो नयकोविदः । शुको नाम महाप्राज्ञो यज्ञो मूर्त्येव सुस्थितः ॥८॥ प्रविचारयतो लोकयात्रामलमिमां हृदि । तवेव किल तस्यापि विवेक उदभूदयम् ॥९॥तेनासौ स्वविवकेन स्वयमेव महामनाः । प्रविचार्य चिरं चारु यत्सत्यं तदवाप्तवान् ॥१०॥स्वयं प्राप्ते परे विस्तुन्यविश्रान्तमनाः स्थितः । इदं वस्त्विति विश्वासं नासावात्मन्यु पाययौ ॥११॥केवलं विररामास्य चेतो विगतचापलम् । भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥१२॥ एकदा सोमलप्रज्ञो मेरावेकान्तसुस्थितम् । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥१३॥संसाराडम्बरमिदं कथमभ्युत्थितं मुने । कथं च प्रशमं याति कियत्कस्य कदेति वा ॥१४॥इति पृष्ठेन व्यासेनाखिलमात्मजे । यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना ॥१५॥आज्ञामिषं पूर्वमेतदहमित्यथ तत्पितुः । स शुकः शुभया बुद्धया न वाक्यं बह्वमन्यत ॥१६॥ व्यासोपि भगवान्बुद्धा पुत्राभिप्रायमीदृशम् । प्रत्युवाच पुनः पुत्रं नाहें जानामि तत्त्वतः ॥१७॥जनको नाम भूपालो विद्यते वसुधातले । यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥१८॥पित्रेत्युक्ते शुकः प्रायात्सुमेरोर्वसुधातले । विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥१९॥ आवेदितोसौ याष्टीकैर्जनकाय महात्मने । द्वारि व्याससुतो राजञ्शुकोत्र स्थितवानिति ॥२०॥जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया । उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥२१॥ततः प्रवेशयामास जनकः शुकमङ्गणम् । तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥२२॥अथ प्रवेशयामास जनकोन्तःपुरं शुकम् । राजा न दृश्यते तावदिति सप्त दिनानि च ॥२३॥तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः । जनको लालयामास शुकं शशिसमाननम् ॥२४॥ते भोगास्तानि दुःखानि व्यासपुत्रस्य तन्मनः । नाजह्रुर्मन्दपवना बद्धपीठमिवाचलम् ॥२५॥केवलं सुसमः स्वस्थो मौनी मुदितमानसः । अतिष्ठत्स शुकस्तत्र संपूर्ण इव चन्द्रमाः ॥२६॥परिज्ञातस्वभावं तं शुकं स जनको नृपः । आनीतं मुदितात्मानमवलोक्य ननाम ह ॥२७॥निशेषितजगत्कार्य प्राप्ताखिलमनोरथ । किमीप्सितं तवेत्याशु कृतस्वागतमाह तम् ॥२८॥श्रीशुक उवाच ॥संसाराडम्बरमिदं कथमभ्युत्थितं गुरो । कथं प्रशममायाति यथावत्कथयाशु मे ॥२९॥विश्वामित्र उवाच ॥जनकेनेतिपृष्टेन शुकस्य कथितं तदा । तदेव यत्पुरा प्रोक्तं तस्य पित्रा महात्मना ॥३०॥श्रीशुक उवाच ॥स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः । एतदेव च पृष्टेन पित्रा मे समुदाहृतम् ॥३१॥भवताप्येष एवार्थः कथितो वाग्विदां वर । एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते ॥३२॥यथायं स्वविकल्पोत्थः स्वविकल्पपरिक्षयात् । क्षीयते दग्धसंसारो निःसार इति निश्वयः ॥३३॥तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम् । त्वत्तो विश्रान्तिमाप्नोमि चेतसा भ्रमता जगत् ॥३४॥जनक उवाच ॥ नातः परतरःकश्चिन्निश्चयोस्त्यपरो मुने । स्वयमेव त्वया ज्ञातं गुरुत्वश्च पुनः श्रुतम् ॥३५॥अविच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत् । स्वसंकल्पवशाद्बद्धो निःसंकल्पश्च मुच्यते ॥३६॥तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः । भोगेभ्यो विरतिर्जाता दृश्यात्प्राक्सकलादिह ॥३७॥तव बाल महावीर मतिर्विरतिमागता । भोगेभ्यो दीर्घरोगेभ्यः किमन्यच्छ्रोतुमिच्छसि ॥३८॥न तथा पूर्णता जाता सर्वज्ञानमहानिधेः । तिष्ठतस्तपसि स्फारे पितुस्तव यथा तव ॥३९॥ व्यासादधिक एवाहं व्यासशिष्योमि तत्सुतः । भोगेच्छाता नवेनेह मत्तो प्यत्यधिको भवान् ॥४०॥प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा । न दृश्ये पतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥४१॥ अनुशिष्टः स इत्येवं जनकेन महात्मना । अतिष्ठत्स शुकस्तूष्णीं स्वच्छे परमवस्तुनि ॥४२॥वीतशोकभयायासो निरीहश्र्छिन्नसंशयः । जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ॥४३॥ तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥४४॥ व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेसौ । सलिलकण इवाम्बुधौ महात्मा विगलितवासनमेकतां जगाम ॥४५॥इति श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां मुमुक्षुव्यवहारप्रकरणे शुकनिर्याणं नाम प्रथमः सर्गः ॥१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP