संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग दुसरा मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग दुसरा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग दुसरा Translation - भाषांतर श्रीविश्वामित्र उवाच ॥तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् । यथोपयुक्तं ते राम तावदेवोपयुज्यते ॥१॥ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः । स्वदन्तेस्मै न यद्भोगा रोगा इव सुमेधसे ॥२॥ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् । न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ॥३॥भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः । तयोपशान्तयायाति बन्धो जगति तानवम् ॥४॥वासनातानवं राम मोक्ष इत्युच्यते बुधैः । पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥५॥स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् । मुने विषयवैरस्यं कदर्थादुपजायते ॥६॥सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः । न स्वदन्ते बलादेव तस्मै भोगा महात्मने ॥७॥यशःप्रभृतिना यस्मै हेतुनैव विना पुनः । भुवि भोगा न गेचन्ते स जीवन्मुक्त उच्यते ॥८॥ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते । विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ॥९॥अत एव हि विज्ञानज्ञेयं विद्धि रघोद्वहम् । यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ॥१०॥रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् । आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः ॥११॥केवलं केवलीभावविश्रान्तिं समपेक्षते । रामबुद्धिः शग्ल्लक्ष्मीः खलु विश्रमणं यथा ॥१२॥अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः । युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम् ॥१३॥रघूणामेष सर्वेषां प्रभुः कुलगुरुः सदा । सर्वज्ञः सर्वसाक्षीं च त्रिकालामलदर्शनः ॥१४॥वसिष्ठ भगवन्पूवं कच्चित्स्मरसि यस्त्वयम् । आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥१५॥निषधाद्रेर्मुनीनां च सानौ सरलसंकुले । उपदिष्टं भगवता ज्ञातं पद्मभुवा बहु ॥१६॥येन युक्तिमता ब्रह्मञ्ज्ञानेनेयं हि वासना संसारी नूनमायाति शमं श्यामेव भास्वता ॥१७॥ तदेव युक्तिमञ्जेयं रामायान्ते निवासिने । ब्रह्मन्नुपदिशाशुत्वं येन विश्रान्तिमेष्यति ॥१८॥कदर्थना च नैवैषा रामो हि गतकल्मषः । निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥१९॥तज्ज्ञानं स च शास्त्रार्थस्तद्वैदग्ध्यमनिद्नितम् । सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥२०॥अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते । तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥२१॥वीतरागभयक्रोधा निर्माना गलितैनसः । वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥२२॥इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मनुयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥२३॥अथोवाच महातेजा राज्ञः पार्श्वेव्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः ॥२४॥वसिष्ठ उवाच ॥मुने यदादिशासि मे तदविघ्नं करोम्यहम् । कः समर्थः समर्थोपि सतां लङ्घयितुं वचः ॥२५॥अहं हि राजपुत्राणां रामादीनां मनस्तमः । ज्ञानेनापनयाम्याशु द्वीपेनेव निशातमः ॥२६॥स्मराम्यखण्डितं सर्वं संसारभ्रमशान्तये । निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना ॥२७॥श्रीवाल्मीकिरुवाच ॥इति निगदितवानसौ महात्मा परिकरबन्धगृहीतवक्तृतेजाः । अकथयदिदमज‘जतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः ॥२८॥[ ७१ ] इति श्रीवासिष्ठम० द्वात्रिंशत्साहख्यां संहितायां मुमुक्षुव्यवहारप्रकरणे विश्वामित्रवाक्यं नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP