संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग तिसरा मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग तिसरा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग तिसरा Translation - भाषांतर श्रीवसिष्ठ उवाच ॥पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना । सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम् ॥१॥श्रीराम उवाच ॥कथयिष्यसि विस्तीर्णां भगवन्मोक्षसंहिताम् । इमं तावत्क्षणं जातं संशयं मे निवारय ॥२॥पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः । विदेहमुक्तो न कथं कथं मुक्तः सुतोस्य सः ॥३॥श्रीवसिष्ठ उवाच ॥परमार्कप्रकाशान्तस्त्रिजगत्त्रसरेणवः । उत्पत्योत्पत्य लीना ये न सङ्ख्यामुपयान्ति ते ॥४॥वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः । शक्यन्ते ताश्च सङ्ख्यातुं नैव काश्चन केनचित् ॥५॥भविष्यन्ति पराम्भोधौ जगत्सर्गतरङ्गकाः । तांश्च वै परिमङ्ख्यातुं सा कथैव न विद्यते ॥६॥श्रीराम उवाच ॥या भूता या भविष्यन्त्यो जगत्सर्गपरंपराः । तासां विचारणा युक्ता वर्तमानास्तु का इव ॥७॥ श्रीवसिष्ठ उवाच ॥तिर्यक्पुरुषदेवादेर्योनाम स विनश्यति । यस्मिन्नैव प्रदेशेसी तदैवेदं प्रपश्यति ॥८॥आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् । व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः ॥९॥एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः । भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक् ॥१०॥संकल्पनिर्माणमिव मनोराज्यविलासवत् । इन्द्रजालाभास इव कथार्थप्रतिभासवत् ॥११॥दुर्वातभूकम्प इव त्रस्तबालपिशाचवत् । मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत् ॥१२॥ स्वप्नसंवित्तिपुरवत्स्मृतिजातखपुष्पवत् । जगत्संसरणं स्वान्तर्म्रुतोनुभवति स्वयम् ॥१३॥ तत्रातिपरिणामेन तदेव घनतां गतम् । इह लोकोयमित्येव जीवाकाशे विजृम्भते ॥१४॥पुनस्तत्रैव जन्मेहामरणाद्यनुभूतिमान् । परं लोकं कल्पयति मृतस्तत्र तथा पुनः ॥१५॥तदन्तरन्ये पुरुषास्तेषामग्तस्तथेतरे । संसार इति भान्तीमे कदलीदलपीठवत् ॥१६॥न पृथ्यादिमहाभूतगणा न च जगत्क्रमाः । मृतानां सन्ति तत्रापि तथाप्येषां जगद्भ्रमाः ॥१७॥अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी । जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी ॥१८॥परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः । भूयोभूयोनुवर्तन्ते त एवान्ये च भूरिशः ॥१९॥सर्वतः सदृशाः केचित्कुलक्रममनोगुणैः । केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः ॥२०॥इमं व्याममुनिं तत्र द्वात्रिंशं संस्मराम्यहम् । यथासंभवविज्ञानदृशा संदृश्यमानया ॥२१॥द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः । दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः ॥२२॥अद्याप्यन्ये भविष्यन्ति व्यासवाल्मीकयसथा । भृग्वङ्गिरःपुलस्त्याश्च तथैवाप्यन्यथैव च ॥२३॥नराः सुरर्षिदेवानां गणाः संभूय भूरिशः । उत्पद्यन्ते विलीयन्ते कदाचिच्च पृथक्पृथक् ॥२४॥ब्राह्मी द्वासप्ततिस्त्रेता आसीदस्ति भविष्यति । स एवान्यश्च लोकाश्च त्वं चाहं चेति वेद्म्यहम् ॥२५॥क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः । संलक्ष्यतेवतारोयं दशमो दीर्घदर्शिनः ॥२६॥अभूम व्यासवाल्मीकियुक्ता वयमनेकशः । अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ॥२७॥अभूम वयमेवेमे सदृशा इतरे विदः । अभूम वयमेवेमे नानाकाराः समाशयाः ॥२८॥भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः । भूयोपि भारतं नाम सेतिहासं करिष्यति ॥२९॥कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् । ब्रह्मत्वं च तथा कृत्वा भाव्यं वै देहमोक्षणम् ॥३०॥वीतशोकभयः शान्तनिर्वाणो गतकल्पनः । जीवन्मुक्तो जितमना व्यासोयमिति वर्णितः ॥३१॥वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः । समानि सन्ति भूतानि कदाचिन्न तु तानि तु ॥३२॥क्कचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा । कदाचिदपि मायेयमित्थमन्तविवर्जिता ॥३३॥ यच्छतीयं विपर्यासं भूरिभूतपरंपरा । बीजराशिरिवाजस्रं पूर्णमाणः पुनः पुनः ॥३४॥तेनैव संनिवेशेन तथान्येन पुनः पुनः । सर्गाकाराः प्रवर्तन्ते तरङ्गा कालवारिधेः ॥३५॥आश्वस्तान्तःकरणः शान्तविकल्पः स्वरूपसारमयः । परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः ॥३६॥[ १०७ ] इति श्रीवासिष्ठमहारामायणे० मुमुक्षुव्यवहारप्रकरणे भूयोभूयः सर्गानुवर्णनं नाम तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP