संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग पाचवा मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग पाचवा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग पाचवा Translation - भाषांतर श्रीवसिष्ठ उवाच ॥प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम् । प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् ॥१॥मनसा वाञ्च्छ्यते यच्च यथाशास्त्रे न कर्मणा । साध्यते मत्तलीलासौ मोहनी नार्थसाधनी ॥२॥यथा संयतते येन तथा तेनानुभूयते । स्वकर्मैवेति चास्तेन्या व्यतिरिक्ता न दैवदृक् ॥३॥उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् । तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥४॥द्वौ हुडाविव युद्ध्येते पुरुषार्थौ समासमौ । प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान् ॥५॥अतः पुरुषयत्नेन यतितव्यं यथा तथा । पुंसा तन्त्रेण सद्योगाद्येनाश्चद्यतनो जयेत् ॥६॥ द्वौ हुडाविव युद्ध्येते पुरुषार्थौ समासमौ । आत्मीयश्चान्यदीयश्च यजत्यतिबलस्तयोः ॥७॥अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् । अनर्थकर्तृबलवत्तत्र ज्ञेयं स्वपौरुषम् ॥८॥ परं पौरुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन् । शुभेनाशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ॥९॥प्राक्तनः पुरुषार्थोसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ॥१०॥तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥११॥दोषः शाम्यत्यसंदेहं प्राक्तनोद्यतनैर्गुणैः । दृष्टान्तोत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः ॥१२॥असदैवमधः कृत्वा नित्यमुद्रिक्तया धिया । संसारोत्तरणं भूत्यै यतेताधातुमात्मनि ॥१३॥ न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥१४॥संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥१५॥प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः । संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥१६॥किंचित्कान्तान्नपानादि कलिलं कोमलं गृहे । व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥१७॥शुभेन पौरुषेणाशु शुभमासाद्यते फलम् । अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥१८॥प्रत्यक्षमानमुसृज्य योनुमानमुपेत्यसौ । स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते ॥१९॥दैव संप्रेरयति मामिति दग्धधियां मुखम् । अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीनिवर्तते ॥२०॥तस्मात्पुरुषयत्नेन विवेकं पूर्वमाश्रयेत् । आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥२१॥चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः । असंसाधयतामेव मूढानां धिग्दुरीप्सितम् ॥२२॥पौरुषं च न वानन्तं न यत्नमभिवाञ्च्छ्यते । न यत्नेनापि महता प्राप्यते रत्नमश्मतः ॥२३॥यथा घटः परिमितो यथा परिमितः पटः । नियतः परिमाणस्थः पुरुषार्थस्तथैव च ॥२४॥स च सच्छास्त्रसत्सङ्गसदाचारैर्निजं फलम् । ददातीति स्वभावोयमन्यथा नार्थसिद्धये ॥२५॥स्वरूपं पौरुषस्यैतदेवं व्यवहरन्नरः । याति निष्फलयत्नत्वं न कदाचन कश्चन ॥२६॥दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥२७॥आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः । गुणैः पुरुषयत्नेन स्वार्थः संप्राप्यते यतः ॥२८॥ इति प्रत्यक्षतो दृष्टमनुभूतं श्रुतं कृतम् । दैवात्तमिति मन्यन्ते ये हतास्ते कुबुद्धयः ॥२९॥आलस्यं यदिन भवेज्जगत्यनर्थः को न स्याद्बहुधनको बहुश्रुतो वा । आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च ॥३०॥बाल्ये गतेविरतकल्पितकेलिलोले दोर्दण्डमण्डितवयःप्रभृति प्रयत्नात् । सत्संगमैःपदपदार्थविशुद्धबुद्धिः कुर्यान्नरः स्वगुणदोषविचारणानि ॥३१॥श्रीवाल्मीकिरुवाच ॥इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेस्तमिनो जगाम ॥ स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरेण सहाजगाम ॥३२॥[ १६२ ] ॥ इति श्रीवासिष्ठमहा०मुमुक्षुव्यवहारप्रकरणे पौरुषस्थापनंनाम पञ्चमः सर्गः ॥५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP