सर्ग सहावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवसिष्ठ उवाच ॥
तस्मात्प्राक्पौरुषाद्दैवं नान्यत्तत्प्रोज्झ्य दूरतः । साधुसंगमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ॥१॥
यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा । इति पौरुषमेवास्ति दैवमस्तु तदेव च ॥२॥
दुःखाद्यथा दुःखकाले हा कष्टमिति कथ्यते । हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ॥३॥
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते । बालः प्रबलपुंसेव तज्जेतुमिह शक्यते ॥४॥
ह्यस्तनो दुष्ट आचार आचारेणाद्यचारुणा । यथाशु शुभताभेति प्राक्तनं कर्म तत्तथा ॥५॥
तज्जयाय यतन्ते ये न लोभलवलम्पटाः । ते दीनाः प्राकृता मूढाः स्थिता दैवपरायणाः ॥६॥
पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति । तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ॥७॥
यदेकवृन्तफलयोरथैकं शून्यकोटरम् । तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ॥८॥
यत्प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् । क्षयकारकयत्नस्य ह्यत्र ज्ञेयं महद्बलम् ॥९॥
द्वौ हुडाविव युद्ध्येते पुरुषार्थौ परस्परम् । य एव बलवांस्तत्र स एव जयति क्षणाम् ॥१०॥
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् । तदमात्येभपौराणां प्रयत्नस्य बलं महत् ॥११॥
पौरुषेणान्नमाक्रम्य यथा दन्तेन चूर्ण्यते । अन्यः पौरुषमाश्रित्य तथा शूरेण चूर्ण्यते ॥१२॥
अन्नभूता हि महतां लघवो यत्नशालिनाम् । यथेष्टं विनियोज्यन्ते तेन कर्मसुलोष्ठवत् ॥१३॥
शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् । तद्दैवमित्यशक्तेन बुद्धमात्मन्य बुद्धिना ॥१४॥
भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् । तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः ॥१५॥
शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः । या सा भिक्षुकराज्यस्य कर्तृ धर्तृ प्रजास्थितेः ॥१६॥
भिक्षुको मङलेभेन नृपो यत्क्रियते क्कचित् । प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् ॥१७॥
ऐहिकः प्राक्तनं हन्ति प्राक्तनोद्यतनं बलात् । सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥१८॥
द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत् । दैवं जेतुं यतो यत्नैर्बालो यूनेव शक्यते ॥१९॥
मेघेन नीयते यद्वद्वत्सरोपार्जिता कृषिः । मेघस्य पुरुषार्थोसौ जयत्यधिकयत्नवान् ॥२०॥
क्रमेणोपार्जितेप्यर्थे नष्टे कार्या न खेदिता । न बलं यत्र मे शक्तं तत्र का परिदेवना ॥२१॥
यन्न शक्रोमि तस्यार्थे यदि दुःखं करोम्यहम् । तदामारितमृत्योर्मे युक्तं प्रत्यहरोदनम् ॥२२॥
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी । सर्व एव जगद्भावा जयत्यधिकयत्नवान् ॥२३॥
तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः । प्रज्ञाममलतां नीत्वा संसारजलधिं तरेत् ॥२४॥
क्राक्तनश्चैहिकश्चेमौ पुरुषार्थौ फलद्रुमौ । संजातौ पुरुषारण्ये जयत्यभ्यधिकस्तयोः ॥२५॥
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः । अज्ञो जन्तुरनीशोसावात्मनः सुखदुःखयोः ॥२६॥
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा । स सदैव पराधीनः पशुरेव न संशयः ॥२७॥
यस्तूदारचमत्कारः सदाचारविहारवान् । स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जारादिव ॥२८॥
कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने । यः स्थितो दृष्टमृत्सृज्य त्याज्योसौ दूरतोधमः ॥२९॥
व्यवहारसहस्राणि यान्युपायान्ति यान्ति च । यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥३०॥
यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः । उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधाविव ॥३१॥
स्वार्थप्रपककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥३२॥
क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् । साधुसंगमसच्छास्त्रतीक्षयोन्नीयते धिया ॥३३॥
अनन्तसमतानन्दं परमार्थं विदुर्बुधाः । स येभ्यः प्राप्यते नित्यं ते सेव्याः शास्त्रसाधवः ॥३४॥
देवलोकादिहागत्य लोकद्वयहितं भवेत् । प्राक्तनं पौरुषं तद्वै दैवशब्देन कथ्यते ॥३५॥
तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे । मूढैः प्रकल्पितं दैवं मन्यन्ते ये क्षयं गताः ॥३६॥
नित्यं स्वपौरुषादेव लोकद्वयहितं भवेत् । ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ॥३७॥
अद्यैवं प्राक्तनी तस्माद्यत्नाद्यः कार्यवान्भवेत् । करामलकवद्दृष्टं पौरुषादेव तत्फलम् । मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ॥३८॥
सकलकारणकार्यविवर्जितं निजविकल्पबलादुपकल्पितम् । तदनपेक्ष्य हि दैवमसन्मयं श्रय शुभाशयपौरुषमात्मनः ॥३९॥
शास्त्रैः सदाचरविजृम्भितदैशधर्मैर्यत्कल्पितं फलमतीव चिरप्ररूढम् । तस्मिन्हृदि स्फुरति चोपनमेपि चित्तमङ्गागली तदनुपौरुषमेतदाहुः ॥४०॥
बुद्धैव पौरुषफलं पुरुषत्वमेतदात्मप्रयत्नपरतैव सदैव कार्या । नेया ततः सफलतां परमामथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन ॥४१॥
दैवपौरुषविचारचारुभिश्चेदमाचरितमात्मपौरुषम् । नित्यमेव जयतीति भावितैः कार्य आर्यजनसेवयोद्यमः ॥४२॥
जन्मप्रबन्धमयमाययमेष जीवो बुद्धैहिकं सहजपौरुषमेव सिद्ध्यै । शान्तिं नयत्ववितथेन वरौषधेन मृष्टेन तुष्टपरपण्डितसेवनेन ॥४३॥
[ २०५ ] इति श्रीवासिष्ठमहारामायणे वाल्मीकीये० मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नाम षष्ठः सर्गः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP