संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ द्वाविंशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ द्वाविंशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ द्वाविंशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥श्रुतो गुणानुवादोपि हरेस्तृप्तिर्न मे गुरो: ।अतीव वर्धते तृष्णा शश्वच्छ्रवणपानत: ॥१॥भवाननलसो नूनमुदारतम एव मे ।पूर्वश्रेय:प्रभावेन संगतोस्ति कृपाकर: ॥२॥॥ सिद्ध उवाच ॥गुणानुवादक्षीराब्धे: कति पासि कथामृतं ।सच्चित्सुखस्य लीलानुरनन्तस्य परात्मन: ॥३॥गुणान्कार्त्स्न्येन वक्तुं न क्षम: कोपीशितुस्त्वहं ।उच्चावचखगोड्डानन्यायाद्वक्ष्ये यथामति ॥४॥स भीमामरजातीरविहारी भक्तवत्सल: ।भक्ताधीनत्वमाश्रित्य सदाभूत्तन्मतानुग: ॥५॥निराकारो निरीहोपि शुद्धसत्वस्वरूप्यज: ।बुद्ध्या संगत्य लीलार्थं स्वयं विश्वात्मकोभवत् ॥६॥सर्वत्र स्थितिमांस्त्वेष पश्येयुर्मुनयो हि मां ।इति मत्वा त्रिधा भूत्वा त्रिषु लोकेषु संस्थित: ॥७॥तत्रापि भुवि मे भक्ता भूयांसो मन्मयास्त्वहं ।तेषामगोचरोस्म्यस्मात्स्थेयं तत्रेत्यमंस्त स: ॥८॥ततोत्र भगवान्भूमौ लीलाधाम्ना युगे युगे ।भजतोनुभजत्येष श्रद्धाभक्तिप्रिय: प्रभु: ॥९॥किं वर्ण्यते भगवतो भक्तवात्सल्यमद्भुतं ।परिपूर्णोपि संतृप्तो भोक्तुं भ्रमति तद्गृहे ॥१०॥अन्या अपि तु तल्लीलास्तादृश्य: संत्यनंतश: ।स्वकृते तु न ता विद्धि भक्तानुग्रहलक्षणा: ॥११॥कलौ धोरेत्र नो भाग्यमुदितं हि युगे युगे ।दुर्लभस्तपसापीश: स्मृत्यैव सुलभोत्र नु: ॥१२॥स एष भगवांस्तत्र भक्ताधीनतयान्वहं ।निमंत्रितो भक्तगेह भिक्षान्नं बुभुजे प्रभु: ॥१३॥दीपावल्युत्सवे सप्त प्रिया भक्ता जगद्गुरुं ।स्वे स्वे गृहे नेतुकामा भिन्नवासा: समाययु: ॥१४॥भवंतं नेतुकामोद्य दीपाल्यां पंचवासरं ।प्राप्तोस्म्यद्यैव गंतव्यमित्येकैकोब्रवीद्गुरुं ॥१५॥॥ श्रीगुरुरुवाच ॥यूयं सप्तैक एवाहमेककालीन उत्सवे ।सप्तग्रामेष्वेकदैव कथं मे गमनं भवेत् ॥१६॥एकत्रैकैकघस्रे वा गतिरेकैकसद्मनि ।संभवेच्चेत्कृतं तद्वद्भवद्भिर्मे वरं द्विजा: ॥१७॥भक्ताधीनोस्मि मां यो यो नयेद्यास्यामि तत्र च ।तच्छ्रुवान्योन्यं कलहं चक्रुर्नेष्याम्यहं त्विति ॥१८॥नि:स्वो धनीति द्वैतान्मां मा पाहि ह्यसि भो सम: ।भूतमात्रेत एहीति प्रोक्त्वा ते पतिता: पुर: ॥१९॥निर्वाय तान्सर्वगृहानेष्यामीत्युदितेपि ते ।कैर्विश्वस्तव्यमित्यूचुर्भ्रांता: श्रीगुरुमीश्वरं ॥२०॥भगवानपि तद्भावं ज्ञात्वैकैकं रहो द्विजं ।सस्मितास्य: समाहूय प्राहोदारगिरा मुदा ॥२१॥न वाच्यं क्कापि तेदैव गृहमेष्ये चरेत्यथ ।तेपि सप्तैवमन्योन्यमशंसंतो ययुर्गृहान् ॥२२॥तत्रत्यै: क्क भवान्याति नो हित्वेत्युदितेत्र तु ।तिष्ठामीति प्रभु: प्रोक्त्वाष्टौ ग्रामानेकदाभ्यगात् ॥२३॥स्थलेषूवास पंचाहमष्टस्वपि जगन्मय: ।लौकिकैकस्वरूपेण ततोस्थात्संगमे प्रभु: ॥२४॥स्वाद्वन्नशाटीकंत्राणपादुकार्पणसेवनै: ।संतोषित: स भगवान्भक्तैराप मुहुर्मठं ॥२५॥पुन: सर्वेपि ते प्राप्ता: कार्तिक्यां तु परस्परं ।ऊचुर्मे धाम्नि पंचाहं दीपाल्यां संस्थितो गुरु: ॥२६॥तत्रत्या अपि तं प्राहु: पंचाहं क्कापि नो गत: ।अत्रैव प्रभुरस्माभिर्दीपावल्युत्सवं व्यधात् ॥२७॥मृषा म्रुषेति चान्योन्यं तदा प्रलपतो विभु: ।तान्प्राह तूष्णीं स्थेयं भो: सर्वत्राहं गत: खलु ॥२८॥तदा ते चकिता: सर्वे तुष्टुवुर्नतकंधरा: ।भगवंस्ते परं पारं महिम्नोsजानतां हि न: ॥२९॥कथं लौकिकवाचस्त्वं स्तोत्रपात्रो भविष्यसि ।श्रुतवाचामपि ब्रह्मन्न गुहाशयसंस्थित ॥३०॥विश्वव्यापक तेनंत दिव्यं जन्म क्रियाप्यज ।नान्यार्थं नोमृतत्वार्थमवतारप्रयोजनं ॥३१॥श्रूयते दृश्यतेदो यत्त्वन्मायेयं दुरत्यया ।मा वृणोत्विति भो श्रीमन्देहि नो दक्षिणां वरां ॥३२॥इत्युक्त्वा प्रणतिं चक्रुस्तान्संतोष्य जगत्प्रभु: ।सर्वान्प्रस्थापयामास स्वं स्वं धामापि ते ययु: ॥३३॥एवं स भगवान्नृनं पूर्ण: सच्चित्सुखात्मक: ।भक्ताधीनतया चेष्टा दुर्विभाव्या व्यधादिह ॥३४॥जात्याचारवयोरूपविद्यार्थगुणपौरुषं ।नापेक्षते हि भगवान् श्रद्धाभक्तिप्रिय: प्रभु: ॥३५॥श्रृणु चित्रं प्रवक्ष्यामि कश्चिच्छूद्रो गुरुप्रिय: ।दास्येनैवैहिकान्भोगान्भुक्त्वांते मुक्तिभागभूत् ॥३६॥कृषीवल: स तु सदा स्वकर्मासक्त एव तं ।स्वक्षेत्रादामठं यांतं ननाम प्रत्यहं गुरुं ॥३७॥तद्गमागमसौख्यार्थं प्रत्यहं संगमायनं ।अपास्य कंटकाश्मादीन्सुगमं विशदं व्यधात् ॥३८॥नत्वा पूर्ववदायांतं मुदा तद्गतमानस: ।कृषिं चकार तं दासं पृच्छति स्मैकदा गुरु: ॥३९॥सदा मेग्रे कुत: शूद्र पतस्येतेन किं वद ।साध्यं किं तेस्ति मनसि तदद्योद्धाटयाखिलं ॥४०॥॥ शूद्र उवाच ॥भजामि सुखकामस्त्वां क्षेत्रं ते कृपयाखिलं ।मनोज्ञं भाति तत्प्रेक्ष नोपेक्ष्य: पादजोप्यहं ॥४१॥तदा सस्मितमीशोपि सर्वं क्षेत्रं विलोक्य तत् ।आप्रादुर्भूतसस्यं तं प्राह द्राक्छिंध्यदोखिलं ॥४२॥विश्वासो मेस्ति वाक्ये चेच्छिंधि मे यावदागम: ।इत्युक्त्वा संगमं गत्वा प्रभु: कर्माह्निकं व्यधात् ॥४३॥गत्वा शूद्रोपि पत्ये तु प्राह निश्चित्य ते करं ।क्षेत्रं देहीति स प्राह नेदं साध्वद्य कर्षक ॥४४॥शश्वत्प्रार्थ परुद्दत्तद्विगुणं भागमंघ्रिज: ।दातुं निश्चित्य जग्राह प्रमापत्रमतोपि स: ॥४५॥आहूयाथार्थलुब्धान्स लोकान्यावच्छिनत्ति तत् ।सापत्या क्षेत्रमेत्य द्राग्वारयामास तं वधू: ॥४६॥निधा: स्तोत्राणि मा छिंधीति वदंत्या: स कैशिके ।चूर्णप्रतिनिधीकृत्य पद्धूलिं पुनराच्छिनत् ॥४७॥स नोन्मत्तस्तु भरतप्रर्हादकबिभीषणै: ।मातापित्रग्रजास्त्यक्ता गुर्वर्थे का कथान्यत: ॥४८॥सा गत्वेशं रुदत्यूचे मुंडिवाक्यानुवर्त्यहो ।क्षेत्रं छिनत्ति तेsपक्वं प्रमत्तस्तं निवारय ॥४९॥निवारणाय सोप्येकं दूतं प्रेरयदेत्य स: ।तस्मै गंभीरया वाचा स्वामिवाक्यं शशंस ह ॥५०॥तं प्राह शूद्रोपि पत्ये शंसारब्धोद्यमस्य तु ।पारं यास्ये नो बिभेमि तत्प्रमालिपिरस्त्यसौ ॥५१॥दूतोप्यागत्य पत्ये तु तत्स्माचष्टेब्रवीत्स तां ।शूद्र्यन्यथा कथं वाक्यं कार्यं सोप्यर्थधान्यवान् ॥५२॥तच्छ्रुत्वा सा रुदत्याप क्षेत्रसीमां सुतान्विता ।तच्छूद्रोप्यखिलं छित्वा गुर्वागममचिंतयत् ॥५३॥कृत्वाप्यान्हिकमागच्छन्छातं सर्वमवेक्ष्य तं ।प्रणतं प्राह किमिदं कृतं साहजिकोक्तित: ॥५४॥यदन्येन हृदापीदृक्कर्तुं शक्यं न भुव्यद: ।कर्माद्य दुष्करं निंद्यं त्वया कृतमत:परं ॥५५॥कुतस्ते भविता वृत्तिर्दास्यसीशाय किं वद ।अपक्वं हरितं सर्वं सस्यमेतद्वृथा गतं ॥५६॥स प्राहोक्तं कथमपि श्रुतवत्सद्गुरोर्वच: ।तन्मेपि फलदं जन्म दत्तं येन स वृत्तिद: ॥५७॥भक्तिश्चेदुक्तवद्भूयात्त इत्युक्त्वा ययौ गुरु: ।सोप्याप स्वगृहं धीरो ध्यायन्हरिपदांबुजं ॥५८॥कालेनाल्पीयसा सूर्य इते मूलर्क्षमंबुद: ।ववर्ष च्छिन्नमपि तद्यावनालाद्यवर्धत ॥५९॥प्रादुर्भूतानसंभाव्यानंकुरानभितोमितान् ।दृष्ट्वा जल्हादिरे सर्वे शूद्र्यप्यत्यंतहर्षिता ॥६०॥पत्यु: पादौ सकारुण्यं गृहीत्वा गद्गदाक्षरा ।बभाषे गुरुभक्तोसि मम मंतून्क्षमस्व भो: ॥६१॥तथेत्युक्त्वा तया शूद्र: प्रपूज्य क्षेत्रपं गुरुं ।यांतं क्षेत्रं दर्शयित्वा प्रणतो वाक्यमब्रवीत् ॥६२॥अंघ्री चिंतामणिर्वाक्यं सुधास्पर्घि दयानिधे ।ज्योतिर्मयं न वेत्त्यंधो घूकोर्कमिव धाम ते ॥६३॥दृष्टं समूढ्यपुण्येन धाम ते दिव्यमद्भुतं ।कृतकृत्योस्म्यतो देव मां माधोक्षज विस्मर ॥६४॥तमाह श्रीगुरु: शूद्र धन्योस्यवरवर्ण ते ॥परितुष्टोस्मि दास्येन नूनं सद्गतिभाग्भव ॥६५॥दुराचारोपि यदि चेत्सेवते मामनन्यधी: ॥स तु साधुर्हि तस्मात्त्वं स्वाचारो भक्तिमान्मयि ॥६६॥अतस्ते दत्तमेतत्तु निवसेत्त्वत्कुलेमले ।अचला कमला दास्यं मदीय चाप्यसंशयं ॥६७॥इत्युक्त्वागाद्गुरु: सोपि गत्वेशं प्राह निश्चितात् ।अधिभागं प्रदास्ये ते यतो धान्यर्धिरद्भुता ॥६८॥स प्राह नान्यथोक्तिर्मे प्रसादात्सद्गुरोस्त्वियं ।लब्धा धान्यर्त्धिरनयं न स्पृशाम्यर्पयोक्तवत् ॥६९॥परिपक्कं ततो दृष्ट्वा सस्यं छित्वानयद्गृहम् ।कामं शेषं जनेभ्योदादमितं धान्यमुत्तमम् ॥७०॥बहवो लेभिरे धान्यं प्रकामं सोपि सद्गुरो: ।कृपया परया भूत्वा श्रीमान्सेवेतिनीचवत् ॥७१॥तत्रेदृश्य: प्रभोर्लीला: कति वृत्तास्तु कृत्स्नश: ।न ज्ञाता: कैरपि पुरं मन्ये धन्यतमं तु तत् ॥७२॥॥ नामधारक उवाच ॥सत्तमाश्रितकाश्यादिक्षेत्रेषु भुवि सत्स्वपि ।प्रीत्योवास कुतस्तत्र भगवान्मे वदस्व तत् ॥७३॥॥ सिद्ध उवाच ॥तत्र तीर्थान्यनेकानि देवा अप्यखिला: खलु ।जगन्निवास उद्वीक्ष्य तस्थौ ध्रुवमधोक्षज: ॥७४॥मंदधीभिस्तु तीर्थानि तिष्येsज्ञातानि तान्यत: ।गुरु: प्राहैकदा लोकं पावनानि प्रदर्शयन् ॥७५॥काशीं जिगमिषो लोक सर्वतीर्थानि चात्र तु ।दर्शयामीति तान्प्रोक्त्वा तीर्थान्याह स दर्शयन् ॥७६॥संगमोयं प्रयागोष्टी तीर्थान्यत्र तु षट्कुले ।त्रिवेणीसंगमोयं तु पापघ्न्यमरजेष्टदा ॥७७॥जीवनायेशदत्तेंद्रनीयमानसुधाघटात् ।युद्धे जालंधरहतदेवानाममृतं च्युतं ॥७८॥किंचिच्च्युतादपि महाप्रवाहोत्रामरत्वद: ।कालम्रुत्युभयाघघ्नी जातैषामरजा तत: ॥७९॥मनोरथाख्यं तीर्थं तु कल्पद्र्वश्वत्थसन्निघौ ।संतोषतीर्थमग्रेत्र रुद्रो विश्वेश्वर: स्वय़ं ॥८०॥वामहस्तेन नंद्यंडं धृत्वांगुष्ठं च तर्जनीं ।संस्थाप्य श्रृंगयोर्मध्यात्कृतशैवीप्रदक्षिण: ॥८१॥पश्येद्यदीशं मर्त्योपि देववच्छ्रीष्टयुग्भवेत् ।साक्षात्काशीयमीशेन विहिता भक्ततुष्टये ॥८२॥जीवन्मुक्तोत्र शैव: प्राग्लोके जड इतीरित: ।येनाहिवज्जनो भोगा विषं स्त्री: शववन्मता: ॥८३॥कदाचित्स सदा युक्त: प्रमाथींद्रियसंयमी ।बंधूनाहात्र काशीयं त ऊचुर्दर्शयाद्य न: ॥८४॥स दध्यावीशमीशोपि तदैत्याहेप्सितं वद ।स प्राहाद्य त्वया सार्धं काशीं संस्थापय ध्रुवां ॥८५॥तथेत्युक्त्वेश्वरोगात्तज्जलांत: कुण्डमुत्तमं ।उद्भूतं तत्र विश्वेशमूर्तिराविरभूत्क्षणात् ॥८६॥काश्यां चिह्नानि यान्यत्र जातान्यालोक्य तानि स: ।स्वजनान् दर्शयित्वोचे काशीयं क्कापि यात नो ॥८७॥प्रत्यब्दं पूजयित्वा नो विठ्ठलं कुलदैवतं ।काशीयात्रात्र कर्तव्या सर्वाघघ्नीप्सितार्थदा ॥८८॥तस्मात्काशीयमित्यस्मिन्गुरौ ब्रुवति तत्क्षणं ।पूर्वाश्रमस्वसा रत्नानाम्नी प्राप्य ननाम तं ॥८९॥तामाह श्रीगुरु: प्रोक्तस्मृतिस्तेस्ति न वा वद ।सापि स्मृत्वा तदा स्वांगं कुष्ठीभूतं ददर्श ह ॥९०॥तां खिन्नां प्रणतां प्राह प्रभु: पापं भवांतरे ।चेद्भोक्षसेत्र कुष्ठं द्रागपैत्यंह: प्रयत्नत: ॥९१॥सा प्राह मातृकुक्षौ मे यथेतो न भवेत्स्थिति: ।तथैव भवता कार्यं नान्यज्जाने परात्पर ॥९२॥गुरु: प्राहाघहृत्तीर्थे त्र्यहं स्नानाच्छिवांतिके ।सप्तजन्मार्जितांहोपि नश्येत्कुष्ठस्य का कथा ॥९३॥सापि तत्र त्र्यहस्नानाद्भूत्वा कुष्ठोनितामला ।मठं निर्माय तत्रैव स्थिता मुक्ता बभूव ह ॥९४॥गुरुस्त्वग्रेघह्रुज्जंबुद्धीपस्थाखिलतीर्थवत् ।कोटितीर्थं दर्शयित्वा प्राहेदं सकलाघहृत् ॥९५॥क्रांतिपर्वग्रहेष्वत्र स्नानदानजपादय: ।अक्षय्यानंतफलदा अकुत्सितहृदां नृणां ॥९६॥गयावद्रुद्रपादाख्यं तीर्थं त्वग्रे गयोत्कवत् ।कृध्वं कर्मात्र कृष्णाग्रे चक्राख्यं द्वार्वतीसमं ॥९७॥द्वारकोक्तवदाचीर्नात्फलं तस्याश्चतुर्गुणं ।स्नानाज्ज्ञानी भवत्यत्र पतितोप्यस्थि चक्रवत् ॥९८॥गोकर्णवद्ग्रामपूर्वभाग: कल्लेश्वरोत्र तु ।महाबलेशवत्तीर्थं मन्मथाख्यं सुसिद्धिदं ॥९९॥नभस्यखंडाभिषेकादूर्जे दीपोत्सवात्स तु ।अक्षय्यफलदो दद्यात्सर्वसिद्धियुतामृतं ॥१००॥एवं शशंसाखिलतीर्थायात्रां तेपि प्रहृष्ताश्च तथैव चेरु: ।एतादृशं क्षेत्रमिदं वरीयो विज्ञाय विज्ञायमयात्मकोस्थात् ॥१०१॥म्लेच्छं समुद्धृत्य ततोखिलात्मा तत्र स्थितो भाविककामधेनु: ।प्रत्यक्ष ईशोपि न दृश्यतेसाववित्तमोंधैररुणो यथांधै: ॥१०२॥इति श्रीगुरुचरिते भक्तियोगे क्षेत्रमाहात्म्यवर्णनं नाम चतुर्थोsध्याय: ॥४॥आदित: द्वाविंशोsध्यय: ॥२२॥ Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP