अथ पंचमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


॥ नामधारक उवाच ॥
पुराणोक्तावतारास्तु श्रुता यद्भवतोच्यते ।
तन्मे शुश्रूषवे व्यासाच्छंस त्वन्याश्च तत्कथा: ॥१॥
॥ सिद्धि उवाच ॥
साधु पृष्टं त्वया वत्स श्रृणुष्वाsवहितोमला: ।
तत्कथा या: पुनंत्यत्र श्रोतॄन्वत्कारमप्यघात् ॥२॥
धर्मं गोप्तुं सतस्रातुं दुष्टान्हंतुं युगे युगे ।
लीलाधाम्नावरति नाsन्यत्किंचित्प्रयोजनम् ॥३॥
दीनान्हीनमतीन् ज्ञात्वा दुर्बलान्नॄन्स कच्चरे ।
आविरासीत्समुद्धर्तुं प्रेम्णा भक्तिविधित्सया ॥४॥
पीठापुरे पूर्वदेशे राजा नाम द्विजो वधू: ।
सुमतिस्तावुभौ नित्यं श्रीदत्तार्चनतत्परौ ॥५॥
एकदैत्यास्य वेश्मार्थिवेषेणान्नं स्म याचते ।
दत्त: श्राद्धेsकृतेप्यस्मै श्राद्धाहेsन्नं ददौ सती ॥६॥
तदा ज्ञात्वा स तद्भावं सर्वात्मा भगवान्विभु: ।
प्रीत: स्वरूपं साध्व्यै तत्करं ध्रुत्वा व्यदर्शयत् ॥७॥
स्रक्कुंडीडमरूच्छूलशंखचक्रधरोब्रवीत् ।
व्याघ्रचर्मावृतस्त्र्यास्यो जटिलो भस्मभूषित: ॥८॥
मातर्द्विजेष्वभुक्तेशु श्राद्धहेsन्नं त्वयार्पितं ।
हव्यकव्यादबुद्ध्या मे तत्तुष्टोस्मि वरं वद ॥९॥
॥ ब्राह्मण्युवाच ॥
धन्यास्मि सर्वे पितरोपि धन्या यद्यो भवान्योगिमनोविदूर: ।
भूत्वाद्य मे दृग्विषयोपि पित्र्यं स्वाद्वाददेन्नं किमुताधिकं सत् ॥१०॥
सृष्ट्यादिहेतो जगतोसि भक्तपुमर्थकल्पद्रुरतोर्पयाशु ।
मे सुप्रजस्त्वं जनसेवि मातरित्युक्तसंबोधनसिद्धिपूर्वं ॥११॥
एवं श्रुत्वात्रिवद्याच्ञां प्राह भूयात्तथैव ते ।
पुत्रस्ते भविता मादृक्तदुक्तिं मा तिरस्कुरु ॥१२॥
इत्युक्त्वांsतर्दधे दत्त: सापि वेश्मैत्य हर्षिता ।
पत्ये शशंस तत्सर्वमुभावपि ननंदतु: ॥१३॥
॥ ब्राह्मण्युवाच ॥
मयापराद्धमद्यान्नं दत्तं श्राद्धेsकृतेप्यहो ।
दत्तात्रेयाय तन्नाथ क्षंतुमर्हस्यशेषत: ॥१४॥
॥ विप्र उवाच ॥
पित्रर्थं भोजयित्वानैर्यैर्द्विजान्विष्णवेर्प्यते ।
कर्माभूत्स स्वयं तद्भुक्तत्कृतं सत्सुदुष्करं ॥१५॥
रूपांतरेण मध्याह्ने दत्तोsटत्यर्थिवत्स्वकान् ।
उद्धर्तुं भगवांस्तस्मात्तदार्च्यो नान्यथाप्यते ॥१६॥
तस्माद्भद्रे कृतं भद्रं धन्ये न: पावितं कुलं ।
वरोपि दुर्लभो लब्धो लोकस्यापि हितं यत: ॥१७॥
इत्युक्त्वा लौकिकं श्राद्धं शेषान्नेनाकरोद्द्विज: ।
साप्यथो गर्भिणी भूत्वा कलेsसूतामुमप्यजं ॥१८॥
मर्त्याकृतिं तदोद्वीक्ष्य तं दैवज्ञा जगुर्द्विज ।
ततपुण्यौधकल्पद्रुफलं लब्धं सुदुर्लभम् ॥१९॥
अयं हि साक्षाद्भगवान्दत्तात्रेय इवार्चित: ।
अवतीर्णोsत्र भक्त्यर्थमित्युक्त्वा ते मुदं ययु: ॥२०॥
श्रीपाद: स्वंकितांघ्रित्वान्नाम्नोक्त: पितृलौल्यत: ।
स्वंगैरृद्धिं पुपोषारं सौरांश्वाप्ते: शशीव स: ॥२१॥
संस्कृतेनोपनीतेन स्वयं त्रय्यपि पाठिता ।
स्वोद्वाहार्थं समुद्युक्त: पितानेन निवारित: ॥२२॥
मया प्रव्रजतोद्वाह्मा योगश्रीरेव नापरा ।
ममैव सुलभा सा तु यत: श्रीवल्लभोस्म्यहं ॥२३॥
इत्युक्त्वा प्रव्रजंतं तं दृष्ट्वोभौ साश्रुलोचनौ ।
ऊचतुस्त्वयि याते क्क जीवावोब्जा इवांबुनि ॥२४॥
त्वं साक्षाद्भगवान्विष्णु: पुत्रत्वेनाप्यतींद्रिय: ।
प्राक्पुण्यैर्गोचरीभूत: कुतोकाब्धौ जहासि नौ ॥२५॥
पंग्वंधार्भेक्षणान्नित्यं भवपाशविमोचनी ।
स्मृति: प्रवयसोर्नौ ते हरे दूरतरा भवेत् ॥२६॥
इति वाक्यं सकारुण्यं श्रुत्वारं भ्रातृमस्तके ।
सुखाकरं निजकरं तद्वात्सल्याद्दधौ हरि: ॥२७॥
तदैव सहसा तौ तु स्वंगौ ज्ञौ च बभूवतु: ।
लीलाविहारिणीदन्नो चित्रं भगवतीश्वरे ॥२८॥
माताप्यदृष्टपूर्वं तद्रूपमाश्चर्यवत्तदा ।
दृष्ट्वा दतोदितं स्मृत्वा प्राह गद्गदया गिरा ॥२९॥
माया दुरत्यया दैवी तव तन्मोहिता भृशम् ।
सत्वं रूपं न जानेतस्त्वयि मे पुत्रकल्पना ॥३०॥
ब्रह्मांडलेखा यत्कुक्षौ स मत्कुक्षिज इत्यद: ।
जगद्विडंबनं दत्त माया मां नावृणोतु ते ॥३१॥
॥ श्रीपाद उवाच ॥
अदो रूपं त्वया दृष्टं नित्यं हृद्यवधारय ॥
मायासिंधुं द्रुतं तीर्त्वा मत्सायुज्यं गमिष्यसि ॥३२॥
शतायुषौ सुतौ तेपि पितृशुश्रूषणोत्सुकौ ।
विद्याश्रापुत्रपौत्राढयौ मातर्मंक्षु भविष्यत: ॥३३॥
स्तुतोपि भ्रातरौ प्राह प्रब्रजाम्यधुना सदा ।
संसेव्यौ पितरौ तौ हि गृहिसत्पुत्रदैवतम् ॥३४॥
इत्युक्त्वा त्रि:परिक्रम्य प्रणम्य पितरौ स तु ।
जगाम तदनुज्ञात: काशीं च बरदीवनम् ॥३५॥
साधूनुद्धर्तुकामोथ गोकर्णं सज्जनाश्रयम् ।
ययौ यत्र गणेशेन शैवं लिंगं प्रतिष्ठितम् ॥३६॥
इति श्रीगुरुचरिते श्रीपादावतारो
नाम पंचमोध्याय: ॥५॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP