संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ तृतीयोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ तृतीयोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ तृतीयोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥त्रय्यात्मासौ कुतो जातो भूमौ नर इवेश्वर: ।यं ब्रवीषि परं ब्रह्म तन्मे शुश्रूषवे वद ॥१॥॥ सिद्ध उवाच ॥धन्योस्यनुगहीतोसि यत्ते भक्तिरधोक्षजे ।संजाता भवबंधघ्नी हर्षो मेतीव वर्धते ॥२॥कोपि गां पर्यटंतं मां न पृच्छति गुरो: कथां ॥त्वयाद्य भक्तचंद्रेण बोधाब्धिर्मे प्रपूरित: ॥३॥अनंता: संत्यनंतस्य लीला: प्रश्नमृतेपि ता: ।न वक्तुर्यांति निजधीपरिणामावधि स्मृतिं ॥४॥कलौ तु नास्तिका मर्त्यास्तत्कथाश्रवणात्मकं ।प्लवं तर्तुं भवाब्धिं नो विदुर्मज्जंत्यतोत्र ते ॥५॥यत्रांब्ववित्तु तृष्णोर्मिर्ग्रहा: कामादयो ध्वनि: ।भोगोपारेsत्र नौस्त्वेषा गुरुर्नेता कृपामरुत् ॥६॥तस्माद्दिष्टया साधनानि प्राप्तान्यत्राप्ययत्नत: ।तरिष्यसि भवाब्धिं स्रागतो वक्ष्ये कथा: श्रृणु ॥७॥इत्युक्त्वामरजाभीमासंगमे ह्युपविश्य स: ।गुर्वधिष्ठितकल्पद्रुमूलेस्मै प्राह सत्कथा: ॥८॥मुमुक्षुभेषजं मुक्तजीवन विषयीष्टदं ।श्रीगुरोश्चरितं वाघृद्दूरत्वाद्वच्मि तेल्पकम् ॥९॥जगत्येकार्णवीभूते शेषतल्पश्रितोस्पृह: ।नारायणो जगत्स्रष्टुं मायामुद्भाव्य सोंदजम् ॥१०॥स्रष्टारं व्यसृजत्सृष्टयै सप्तर्षीन् सोपि मानसान् ।तत्रैकोत्रिस्तपस्वीशो यस्याभूद्भगवान्सुत: ॥११॥ऋषेरत्रेस्तपोर्थस्य पातिव्रत्यविभूषिता ।आसीद्भार्यानसूयाख्या त्रिलोक्यां विश्रुता सती ॥१२॥जातोर्वीं मृदुलार्काग्नी शीतौ मंदो मरुद्भिया ।तस्या देवा: पदापायभ्रांत्याssपु: शरणं हरिं ॥१३॥एकदा नारदोप्येत्य तद्धर्मान्ब्रम्हविष्ण्वजान् ।प्राब्रवीन्नेदृशी साध्वी सर्वदाभ्यागतप्रिया ॥१४॥इत्यृषेर्वाक्यमाकर्ण्य विषीदंत्य उपस्थिता: ।तद्देव्योsसहमाना द्राग्बभूवुर्मूर्छिता भृशं ॥१५॥पतिव्रतामानिनीस्ता: सावित्रीश्रीश्वरीस्त्रय: ।आश्वास्यातिथिवद्भूत्वा रोषाच्छप्तुं सतीं ययु: ॥१६॥पतिव्रतापि तान्दृष्ट्वा स्वाश्रमाभ्यागतान्सुरन् ।प्रत्युद्गत्वा समानीय स्वासने संन्यवेशयत् ॥१७॥वीजितान्कृतपच्छौचान्सूपविष्टान्जगौ सती ।स्वागतं वोद्य किं कार्यं मुनिस्तु तपसे गत: ॥१८॥त ऊचु: साध्वि नो विद्मस्तप:सक्तमना मुनि: ।कदाssयातीत्यतो देहि क्षुधितेभ्योन्नमाश्वलम् ॥१९॥इति श्रुत्वा गिरस्तेषां तथेत्युक्त्वा गृहं गता ।पात्राण्यासाद्य तेभ्योsन्नं परिविष्टं न्यवेदयत् ॥२०॥त आहु: साध्वि नो देहि नग्ना भूत्वेत्यपेक्षितं ।नेदं चेद्रोचतेन्यत्र गच्छाम: क्षुधिता इत: ॥२१॥तछ्रुत्वापि प्रहस्यैषा ऋषे: संगात्तपस्विन: ।पूताया मम कामेन किं भवेचेत्तथाsकृते ॥२२॥शप्त्वा गच्छंति विमुखा महांतोमी ममात्मजा: ।इति स्वगतमुद्भाव्य तथेत्युक्त्वांशुकं जहौ ॥२३॥तदैव तेभवन् बाला निर्विकारा अपीश्वरा: ।जगत्सृडीश्वरहरा: पातिव्रत्यप्रभावत: ॥२४॥तान्सा तथाविधान्प्रेक्ष्य सचित्राभूद्धृतांशुका ।पय: प्रसूत्या इवास्यास्तदालं स्तनतोस्रवत् ॥२५॥सपद्येवाद्भुताविष्टा प्रेम्णा हृष्टतनूरुहा ।प्रत्येकं पाययामास क्षीरं तेपि पपुर्मुदा ॥२६॥जगदुत्पत्तिकरणसुश्रांत इव विश्वसृट् ।पीत्वा पतिव्रतास्तन्यं परमां शांतिमाययौ ॥२७॥विश्वंभरो विश्वरक्षाक्रियात्रस्त इवामलं ।पतिव्रतापय: प्राश्य पीनां विश्रांतिमाविशत् ॥२८॥हरस्तु विश्वसंहारकर्मतष्ट इव क्षणात् ।सत्यौधस्याशनात्तृप्त: पुष्टिवर्धनतां ययौ ॥२९॥स्वधर्मज्ञाततत्सत्वा पाययित्वापि तान्पय: ।सा जगौ तत्कथोद्धातं प्रेम्णा विन्यस्य पालके ॥३०॥अत्रांतरे वनादेत्य श्रुतगीत: सतीमुखात् ।सर्व श्रुत्वेश्वरान्ज्ञात्वा ध्यानान्नत्वाsस्तुवन्मुनि: ॥३१॥विश्वसर्गस्थितिप्रांतनिदानं विश्वसाक्षिणं ।विष्णुं विश्वमयं वंदे विश्वाद्यं विश्वसंग्रहम् ॥३२॥तपस्तप्तं यदर्थ्म स त्वमेकोपीश लीलया ।त्रिधा भूत्वात्मनात्मानं स्वैर्गुणै रमयस्युत ॥३३॥अध्यारोपापवादाभ्यां समुद्भूतं जगत्तत: ।अहंममाभिमानेन पार्थक्यं त्वस्य नापरम् ॥३४॥इति स्तुवति तस्मिंस्ते पालके बालरूपत: ।स्थिता अप्याद्यरूपै: स्वै: स्थित्वोचुस्तं वरं वृणु ॥३५॥स प्राह सार्ध्वी सुभगे ब्रह्मविष्णुमहेश्वरा: ।त्वद्भक्त्याप्ता मनोदूरा अतोभीष्टं वरं वृणु ॥३६॥साप्याह सुतप: सृष्ट्यै त्रिधाभूतेन वै भवान् ।सृष्टोमुनामुमेवात: पुत्रत्वेन वृणोत्वजम् ॥३७॥ऋषि: सोपीदमेवेष्टं मत्वा वव्रे तदेव हि ।विष्णु: सर्वात्मनाहं ते मया दत्त: किलाब्रवीत् ॥३८॥पतिव्रताप्रभावोयं बाला भूत्वेश्वरा: स्थिता: ।स्वस्वप्राग्रूपतोप्येते स्वं स्वं स्थानं ययुस्त्रय: ॥३९॥पृथङ्नामानि बालेभ्यो ददौ तेभ्योर्थविन्मुनि: ।पूर्णत्वेन मयाहं ते दत्त इत्युक्तवान् स्वयम् ॥४०॥भगवानिति नाम्नैनं मुनिर्दत्तं चकार स: ।ब्रह्माशं चंदनाच्चंद्रमौग्रं दुर्वाससन्तथा ॥४१॥त्रयाणामप्ययं साक्षाद्दत्तस्तु भगवान्स्वयम् ।श्रुत्यन्विष्टांघ्र्यब्जरेणु: सच्चिदानंदविग्रह: ॥४२॥सदेष्टयोगसंविद्द: स्मृतिगामी क्षणे क्षणे ।चंडोप्यन्योनुग्रहाशीश्चंद्रो जननवर्धन: ॥४३॥दुर्वास:शापमाश्रुत्य भृदेवार्थमनंतश: ।धृत्वावतारान् कार्यांते लीलाकायान् जहात्यज: ॥४४॥परानुग्रहकार्यार्थमवतीर्ण: स्वयं किल ।दत्तरूपेण कार्यस्य नित्यत्वान्नामुमत्यजत् ॥४५॥॥ नामधारक उवाच ॥कुतो दुर्वाससा शप्त: शापोव्यक्ते कथं वद ।लग्न: परावरेमुं मे संशयं छेत्तुमर्हसि ॥४६॥सिद्ध उवाचभक्ताधीनतया त्वेष भगवान् भक्तिभावन: ।अव्यक्तोप्यस्ति सुव्यक्त: पूर्णातोत्र सहिष्णुता ॥४७॥पुरांबरीषनामैको भक्तो भागवतोत्तम: ।एकादशीव्रतपर आसीदभ्यागतार्चक: ॥४८॥एकदा व्रतभंगाय पारणाहे तदालयं ।चंड: प्राप्याह दुर्वासा भोजनं मेर्पयेति च ॥४९॥दास्यामीत्युक्तवत्यस्मिन्मत्वा स्नातुं नदीमरं ।छिद्रान्वेषी तत्र तस्थौ तरितुं पारणाक्षणं ॥५०॥सोप्यभुक्ते मुनौ भोज्यं नान्यथा व्रतभंगभी: ।तीर्थात्तूभयसिद्धिर्म इति मत्वा पपौ जलम् ॥५१॥तदैत्याह मुनि: पीतं हित्वा मां क्षुधितं यत: ।दुर्भगानेन दोषेण भ्रमिष्यसि भवे भवे ॥५२॥इत्युक्त: सोप्यजं भीतो दध्यौ स्वकुलदैवतम् ।स्वदासजीवनं विष्णुं सोप्यागत्याह तं मुनिं ॥५३॥मुने मोघं न ते वाक्यं शापं देहि तमेव मे ।नायं सोढुं प्रभुर्भुक्तवात्सल्यान्मे सहिष्णुता ॥५४॥इत्याकर्ण्य़ मुनिर्मत्वा भुव्ययं दुर्लभो नृणाम् ।अंबरीषप्रभावेण शापसंबंधकारणात् ॥५५॥भविष्यत्यत्र सुलभस्तच्छपाम्येनमित्यसौ ।तं शशापाप्यज: शापाद्बहुधावतरत्यज: ॥५६॥अस्यावतारा मत्स्याद्या: पुराणोक्ता हि विश्रुता: ।द्विवारामाविरासीत्स दीनान् त्रातुं जनान्कलौ ॥५७॥अद्यापि तौ कामदौ स्त: पामरागोचरौ कलौ ।यतकालकलौ द्राक्शं सिद्धयेन्नान्यदतोवित: ॥५८॥इति श्रीगुरु० दत्तावतारकथनं नाम तृतीयोsध्याय: ॥३॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP