संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| श्रीगुरुस्तुति: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् श्रीगुरुस्तुति: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत श्रीगुरुस्तुति: Translation - भाषांतर श्रीगुरुचरिते - श्रीगुरुस्तुति:श्रीवैष्णवैशगाणेशसौर्यशाक्त्यादिरूपधृक् ॥दत्तात्रेयोsस्त्वजोsनन्त: सदा मे हृदि सद्गुरु: ॥१॥योsजोsनन्तोsगुणोsरूपो निस्तृडेकोsक्रियोsसृजत् ।विश्वं धृत्वा षोडशांशं पुंरूषं योगमायया ॥२॥दृश्यते ज्ञानदृष्टया यत्सहस्राक्षिशिरोङ्घ्रि सत् ।रूपं यदंगसंस्थानैर्लोकव्यास: प्रकल्प्यते ॥३॥नानावतारबीजं यदनन्तं यत्कलामुखै: ॥देवतिर्यड्मुखं सृष्टमस्वतंत्रं जगत्पुरु ॥४॥गोभि: स्वार्थदानमीशसृष्टं नेशात्परं क्वचित् ॥देहेन्द्रियात्मजीवोत्थौ रागद्वेषावियन्तु भित् ॥५॥भूतेट् जोsजोsव्ययात्मापि संभवत्यात्ममायया ॥श्रेयोsर्हसाधुगुप्त्यै स्वप्रकृतिस्थो युगे युगे ॥६॥श्रुत्वा तत्कर्म निर्द्वन्द्वो मुच्यते कर्मबन्धनात् ।न तथा कर्मसिद्धीप्सुर्द्वन्द्वात्मा भ्रान्तहृन्नर: ॥७॥गुणकर्मभिदा सृष्टचातुर्वर्ण्यस्य सोsव्यय: ॥कर्ताप्यकर्ता यैर्ज्ञातो बध्यन्ते कर्मभिर्न ये ॥८॥भूभारभूततद्द्वेष्यघाताय विविधास्तनू: ॥धृत्वा कंटकमन्वत्वा कृतकार्यो जहात्यसौ ॥९॥अस्यैवापूर्णकृत्या: स्युस्तन्वस्तासूत्तमोत्तमा ॥तनुरेकास्ति दत्ताख्या कृपासू: स्मर्तृगामिनी ॥१०॥मुक्तिर्मुमुक्षुभिश्चान्यैर्ध्येया नान्येदृशी कलौ ।कामदा यस्य कस्यापि स्मृतिगामिन्यनुक्षणम् ॥११॥विश्वं ततान योव्यक्तस्तद्यत्स्थं यो न तत्स्थित: ॥तद्यत्स्थं नैश्वराद्योगात्तद्भृत्तत्स्थो न वायुवत् ॥१२॥मावशाद्योsवशोsभीक्ष्णं व्यसृजत्तदबंधन: ॥येनाध्यक्षेण मा सूते जगद्वेदामलं न यम् ॥१३॥नृरूपेणावतीर्णं यत्तत्त्वाज्ञोsसुरभावग: ॥न वेत्ति योगगम्यं यं सद्धर्मत्राणकारणम् ॥१४॥सोsन्वर्थाख्यानसूयात्रिपुत्रो जज्ञेsज ईश्वर: ॥अचिन्त्याव्यक्तरूपोsपिदत्तोsर्च्य: स्मृतितोषण: ॥१५॥परानंदमयो विष्णुर्हृत्स्थोsवेद्योप्यतीन्द्रिय: ।सदा संपूज्यते भक्तिर्भगवान् भक्तिभावन: ॥१६॥अचिन्त्यस्य कुतो ध्यानं कूटस्थावाहनं कुत: ।क्कासनं विश्वसंस्थस्य पाद्यं पूतात्मन: कुत: ॥१७॥क्कानर्घोरुक्रमस्यार्घ्यं विष्णोराचमनं कुत: ।निर्मलस्य कुत: स्नानं क्क निरावरणेsम्बरम् ॥१८॥स्वसूत्रस्य कुत: सूत्रं निर्मलस्य च लेपनम् ।निस्तृष: सुमनोभि: किं किमक्लेद्यस्य धूपत: ॥१९॥स्वप्रकाशस्य दीपै: किं किं भक्ष्याद्यैर्जगद्भृत: ।किं देयं परितृप्तस्य विराज: क्क प्रदक्षिणा: ॥२०॥किमनंतस्य नतिभि: स्तौति को वागगोचरम् ।अंतर्बहि:प्रपूर्णस्य कथमुद्वासनं भवेत् ॥२१॥सर्वतोपीत्यसंभाव्यो भाव्यते भक्तिभावन: ।सेव्यसेवकभावेन भक्तैर्लीलानृविग्रह: ॥२२॥तवेशातींद्रियस्यापि पारंपर्याश्रुतां तनुं ।प्रकल्प्याश्मादावर्चंति प्रार्चयेsर्चां मनोमयीं ॥२३॥कलसुश्लोकगीतेन भगवन्दत्त जागृहि ।भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥२४॥श्रीदतं खेचरीमुद्रामुद्रितं योगिसद्गुरुं ।सिद्धासनस्थं ध्यायेsभीवरप्रदकरं हरिम् ॥२५॥दत्तात्रेयाह्वयाम्यत्र परिवारै: सहार्चने ।श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नांजसा विभो ॥२६॥सौवर्णं रत्नजडितं कल्पितं देवतामयम् ।रम्यं सिंहासनं दत्तं तत्रोपविश यंत्रिते ॥२७॥पाद्यं चंदनकर्पूरसुरभि स्वादु वारि ते ।गृहाण कल्पितं तेन दत्तांघ्री क्षालयामि ते ॥२८॥गंधाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् ।सांम्बर्ध्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥२९॥सुस्वाद्वाचमनीयांबु हैमपात्रेण कल्पितम् ।तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥३०॥पुष्पवासितसत्तैलमंगेष्वालिप्य दत्त भो: ।पंचामृतैश्च गांगाद्भि: स्नानं ते कल्पयाम्यहं ॥३१॥भक्त्या दिगंबराचांतजलेदं दत्त कल्पितम् ।काषायपरिधानं तद् गृहाणैणेयचर्म च ॥३२॥नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते ।गृहाण दैवतमये श्रीदत्त नवतंतुके ॥३३॥भूतिमृत्स्नासुकस्तूरीकेशरान्वितचंदनम् ।रत्नाक्षता: कल्पितास्त्वामलंकुर्वेsथ दत्त तै: ॥३४॥सच्छमीबिल्वतुलसीपत्रै: सौगंधिकै: सुमै: ।मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥३५॥लाक्षासिताभ्रश्रीवासश्रीखंडागुरुगुग्गुलै: ।युक्तोsग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥३६॥स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा ।दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥३७॥सषड्रसं षड्विघान्नं नैवेद्यं गव्यसंयुतम् ।कल्पितं हैमपात्रे ते भुंक्ष्व दत्तांब्वद: पिब ॥३८॥प्रक्षाल्यास्यं करौ चाद्भिर्दत्ताचम्य प्रगृहताम् ।तांबूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥३९॥नीराज्य रत्नदीपैस्त्वां प्रणम्य मनसा च ते ।परितस्त्वत्कथोद्धातै: कुर्वे दत्त प्रदक्षिणा: ॥४०॥मंत्रवन्निहितो मूर्ध्नि दत्त ते कुसुमांजलि: ।कल्प्यंते मनसा गीतवाद्यनृत्योपचारका: ॥४१॥प्रेर्यमाणप्रेरकेण त्वया दत्तेरितेन ते ।कृतेयं कनसा पूजा श्रीमंस्तुष्टो भवानया ॥४२॥दत्त मानसतल्पे मे सुखनिद्रां रह: कुरु ।रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥४३॥रसज्ञा वशा तारकं स्वादु लभ्यं गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४४॥वियोन्यंतरे दैवदार्ढ्याद्विभो प्राग्गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४५॥मया मातृगर्भस्थितिप्राप्तकष्टाद् गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४६॥मया जातमात्रेण संमोहितेन गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४७॥मया क्रीडनासक्तचित्तेन बाल्ये गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४८॥मया यौवनेsज्ञानतो भोगतोषाद् गृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४९॥मया स्थाविरेsनिघ्नसर्वेद्रियेणगृहीतं कदाचिन्न ते नाम दत्त ।क्षमस्वापराधं क्षमस्वापराधंक्षमस्वाप्राधं प्रभो क्लिन्नचित्त ॥५०॥हृषीकेश मे वाङ्मन:कायजातंहरेsज्ञानतो ज्ञानतो विश्वसाक्षिन् ।क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥५१॥स्मृतो ध्यात आवाहितोस्यर्चितो वान गीत: स्तुतो वंदितो वा न जप्त: ।क्षमस्वपराधं क्षमस्वापराधंक्षमस्वपराधं प्रभो क्लिन्नचित्त ॥५२॥दयाब्धिर्भवादृङ् न सागाश्च मादृ -ग्भवत्याप्तमंतोर्भवान्मे शरण्य: ।यथालम्बनं भूर्हि भूनि:सृतांघ्रे -रिति प्रार्थितं दत्तशिष्येण सारम् ॥५३॥दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमं ।दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥५४॥दातारं दारुणं दान्तं दास्यादं दानतोषणम् ।दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥५५॥दिक्पं दिवसपं दिक्स्यं दिव्ययोगं दिगंबरम् ।दिव्यं दिष्टं दिनं दिश्यं दिव्यांगं दितिजार्चितं ॥५६॥दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुं ।दीनसेव्यं दीनबंधुं दीक्षादं दीक्ढितोत्तमम् ॥५७॥दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दु:खभंजनम् ।दुष्टघ्नं दुग्धपं दु:खं दुर्वासोग्र्यं दुरासदम् ॥५८॥दूतं दूतप्रियं दृष्यं दूष्यत्रं दूरदर्शिपम् ।दूरं दूरतमं दूर्वाभं दूरांगं च दूरगम् ॥५९॥देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् ।देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥६०॥दैन्यं दैन्यहरं दैवं दैन्यदं दैविकांतकम् ।दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥६१॥दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् ।दोषज्ञं दोहपं दोषेड्रबन्धुं दोर्ज्ञं च दोहदम् ॥६२॥दौरात्म्यघ्नं दौर्मनस्यहरं दौर्भाग्यमोचनम् ।दौष्ट्यत्रं दौष्कुल्यदोषहरं दौर्हृद्यभंजनम् ॥६३॥दण्डज्ञं दण्डिनं दण्डं दंभघ्नं दम्भिशासनम् ।दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदम् ॥६४॥अनन्तानन्तनामानि सन्ति तेsनंतविक्रम् ।वेदोsपि चकितो यत्र नुर्वाघृद्दूर का कथा ॥६५॥नामरूपगुणातीत भेदसंगविवर्जित ।एक एवाद्वितीयोsसि परमात्मन्हि नाकवत् ॥६७॥बहुरूपाप्रमेया ते मायैषा जगदीश्वर ।मन्यते मेsहमित्यस्या रममाणो गुणेष्वसौ ॥६८॥कारणं त्विदमेवात्र जगद्विपरिवर्तने ।येषां नाव्यक्त गम्योsसि त्वमेव परमा गति: ॥६९॥आसत्यलोका लोकास्ते पुनरावर्तिनोsक्षर ।तस्मात्त एव धन्या: स्युर्गृहीतं धाम यैस्तु ते ॥७०॥नानुमानेव ते धाम ग्रहीतुं शक्यते ह्यत: ।मृग्योsसि पुरुषेणैव बुद्धयादिगुणहेतुभि: ॥७१॥पुंस्त्वेsप्यर्क इवांधानां गोकल्पानामतींद्रिय ।स्वप्नेsपि नैव ते वार्ता पुन: प्रत्यक्षता कुत: ॥७२॥प्रेष्ठत्वद्भक्तसंयोगविवेकामलदृष्टिभि: ।सांख्ययोगपरैर्धीरै: क्रमात्ते धाम गम्यते ॥७३॥तस्माद्दत्तं नृजन्मेदं त्वया दिष्टयाsमृतक्षमं ।सद्दृष्टिदानाद्भगवंस्तत्साफल्यं कुरु प्रभो ॥७४॥त्वत्प्रेमभक्त्यैव सदा मदात्मा धिया धियं दृष्टिमपीश दृष्ट्या ।अंगै: सदांगानि दृढं दयाब्धेहरे निबध्नात्विति मेस्ति याच्ञा ॥७५॥पादौ त्वदीयालयतीर्थयात्राविहारिणावर्चनतत्परौ मे ।करौ रसज्ञापि भवत्वजस्रं सत्त्वत्कथोद्धातरसज्ञतोत्का ॥७६॥त्वत्पादपद्मच्युतपुष्पगंधं नासा भजत्वक्षियुगं गुणात्मन् ।त्वन्मूर्तिमासेचनकां श्रुती मे श्राव्यास्त्वदीया भगवन्कथाश्च ॥७७॥त्वदीयभक्तांघ्र्यामलाब्जपूतां धूलिं मदंगानि सदा वहंतु ।मनस्तुरंगो निवसत्वजस्रं त्वय्येव दीर्पोsग यथा निवाते ॥७८॥शिरो नमत्वीश्वर तेंध्रिपद्मं देह: सदालिंगयतु त्वदर्चाम् ।एषा त्वदीयैव तनुस्त्वमेव संबंधिनो मे न हि केsद्वितीय ॥७९॥नूनं भवानृषिर्नैव न वर्णाश्रमलिंगभाक् ।निर्मितं भवतैवेदं विश्वं स्वांशांशतोsखिलम् ॥८०॥न जानंति भवन्मायामोहिता दिव्यमुत्तमं ।भवद्धामात एवैते भ्रमंत्यसुरभावगा: ॥८१॥कर्ता भर्तासि हर्ता त्वं प्रत्यक्षं तत्त्वमस्यपि । भो सर्वं खल्विदं ब्रह्म त्वमस्यात्मासि केवलं ॥८२॥त्वदुदेति रमत्येतद्विश्वं त्वय्येव लीयते ।अष्टमूर्तिभिराभिस्त्वमाभासीव जगन्मय: ॥८३॥दिक्पाला लोकपालाश्च श्रूयते दृश्यतेsखिलं ।चराचरं जगल्लोका विष्णो तेsवयवा अमी ॥८४॥निगूढतत्त्व ते ज्ञातं यत्किंचिल्लोकदुर्ग्रहं ।चेष्टितं ते प्रसादोयं प्राक्पुण्यैर्मय्युपस्थित: ॥८५॥सुखमैंद्रियकं क्कापि न कांक्षे ते पदाश्रित: ।नाकादीन्न प्रशंसामि नैव निंदामि नारकान् ॥८६॥यथेच्छं क्कापि मां कर्मयोगात्स्थापय विश्वभृत् ।मां यत्र क्कापि ते भक्तिर्न जहात्विति कांक्षितम् ॥८७॥स्तुवंतु निंदंत्वपि ताडयंतु मां पूजयंत्वत्र जना न वापि ।देह: पतत्वद्य युगांतरे वा न किंचिदिष्टं न च मेप्यनिष्टम् ॥८८॥हृद्धयात्मेंद्रियवाक्कायै: सदा प्रकृतिभावत: ।यद्यत्करोम्यर्पयामि परात्मन्दत्त सर्व ते ॥८९॥लीलात्मना योsत्रिगृहेवतीर्णो दत्ताख्य उन्मत्तपिशाचवद्य: ।बालो युवा क्कापि जरन्जटाभृत्क्कचिदृषिर्व्यक्तपरीक्षितश्च ॥९०॥त्यागी सुभोगी क्कचिदस्ति संगी योगी सुवासा: क्कचिदस्ति नग्न: ।तुष्ट: कृश: पुष्ट इह क्कचिद्यो दंडी च भिक्षु: क्कचिदस्ति वर्णी ॥९१॥गृही वनी वर्णविरुद्धचेष्ट: क्कचिच्च वर्णाश्रमधर्मयुक्त: ।इत्यादयो यस्य विचित्रचेष्टादेवर्षिहृद्वागयनं व्यतीता: ॥९२॥यो भक्तरक्षाक्षण एव यस्य वै सेवा स्मृतिर्भोज्यनिवेदनं धिया ।पूजा फलं योsर्पयतीह दुर्लभं भक्तस्मृतौ संनिधिकृत्क्षणे क्षणे ॥९३॥यस्यास्ति माहुरे निद्रा निवास: सह्यपर्वते ।भागीरथ्यां सदा स्नानं ध्यानं गंधर्वपत्तने ॥९४॥कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।विभूतिधारणं संध्या करहाटे श्रिय: पुरे ॥९५॥भिक्षा विठ्ठलपुर्यस्य सुगंधिद्रव्यधारणं ।भुक्ति: सारपुरे सायंसंध्यां पश्चिमसागरे ॥९६॥स एष भगवान्दत्त: सदा वसतु मे हृदि ।हृद्धींद्रियादिव्यापारे सदा तत्स्मृतिरस्तु मे ॥९७॥पादादि मूर्धपर्यंतमेतद्वै भौतिकं वपु: ।परिरक्षतु विश्वात्मा सदा सर्वत्र सर्वत: ॥९८॥अपाणिपादो जवनो ग्रहीतापश्यत्यदृग्योपि शृणोत्यकर्ण: ।यो वेत्ति वेद्यं न हि यस्य वेत्ता सोsग्र्य प्रधान: पुरुषो हि दत्त: ॥९९॥आधारभूत: स्थिरजंगमानांक्षमास्वरूपस्थितिरस्ति नित्यं ।आप्यायते यो जगदप्स्वरूपी सर्वाघहृत्स्थास्नुचरिष्णुजीव: ॥१००॥वैश्वानरात्माखिलदेहसंस्थ: पचत्यसौ प्राणसख: सदान्नं ।यो भास्वदात्माखिलकर्मसाक्षीविश्वं सदा चेतयते स्वभासा ॥१॥योsब्जो रसात्मा सकलौषधीर्वै पुष्णाति संतापहरोsखिलेड्य: ।क्षेत्रेषुभूत्वा दशधाखिलेषुप्राणात्मको य: पवतेsखिलात्मा ॥२॥आकाशरूपोsखिलगोsपि सौक्ष्म्या -द्योsभेदसंग: किल शब्दसंस्थ: ।भुनक्ति चोत्क्रामति तिष्ठतेपि मूढा विदुर्यं न सदात्मरूपम् ॥३॥य: सर्वहृत्स्थोsस्य यत: स्मृतिर्विद्वेदांतकृद्योपि च वेदवेद्य: ।समौ यदंशौ सयुजौ सुपर्णौ वृक्षाश्रितौ भुक्त्यवलोकनोत्कौ ॥४॥सत्वं परात्मा पुरुषोत्तम श्रुतिख्यात: समाविश्य जगत्त्रयं सदा ।ईशाव्ययानंत बिभर्षि दत्त ते पादाब्जयुग्माय नमोस्तु सर्वदा ॥५॥वज्रांकुशध्वजाब्जांकयुग्रक्ताब्जाभपत्तल: ।गूढगुल्फ: कूर्मपृष्ठोल्लसत्पादोपरिस्थल: ॥६॥जानुपूर्वकजंघश्च विशालजघनस्थल: ।पृथुश्रोणिश्च काकुत्स्थश्चारुनाभिर्दलोदर: ॥७॥अररोरा मांसलांसो युगव्यायतबाहुक: ।सुचिह्नचिन्हितकर: कंबुकंठ: स्मितानन: ॥८॥स्नैग्ध्यधावल्ययुक्ताक्षश्चलत्पिंगजटाधर: ।चंद्रकांति: प्रभु: कृष्णभ्रूर:श्मश्रुकनीनिक: ॥९॥भावशुद्धद्विजाकीर्णस्वास्याब्जोsभीवरप्रद: ।दत्तात्रेय: स भगवान्सदा वसतु मे हृदि ॥१०॥कलौ द्विराविरासीत्स दीनान्त्रातुं जनान्कलौ ।सद्धर्मगुप्त्यै श्रीपादनरहर्यभिधानत: ॥११॥उड्डीयंते यथाशक्ति यथोच्चावचपक्षिण: ।अनंतेsनंतलीलां तन्न्यायाद्वक्ष्ये यथामति ॥१२॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP