संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथैकविंशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथैकविंशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथैकविंशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥साधूदितं चरित्रं भो प्रभोर्धन्यं दिनं त्विदं ।क्षणमात्रोपि कालोद्य नातीतस्तत्कथामृते ॥१॥॥ सिद्ध उवाच ॥तन्तुको नाम भक्तोभूत् त्रियामं भगवत्प्रिय: ।संसारयात्रां निस्तीर्य याममात्रं तमाभजत् ॥२॥तद्बंधुता कदाचित्तं श्रीशैलं गन्तुमाह्वयत् ।स प्राह मे मठ: शैल: श्रीगुरुर्मल्लिकार्जुन: ॥३॥सा तं निषिध्य मूर्खोयमिति मत्वा ययौ नगम् ।कुतो नेतोसीत्यजेन पृष्टोपि प्राह पूर्ववत् ॥४॥ततो माघेल्पकालेन शिवरात्रिरुपस्थिता ।मध्याह्ने तद्दिनेजस्तं प्राह शैलोत्सवोद्य सन् ॥५॥॥ तन्तुक उवाच ॥त्वत्पादाब्जोवान्मन्ये क्कापि नास्त्याधिकोत्सव: ।इदं प्रत्यक्षमज्ञाय मुधा मुग्धा भमंति कौ ॥६॥तच्छ्रुत्वा प्राह भगवान्मा ब्रूहीदं जगत्प्रभु: ।सर्वत्रावस्थितोप्येष सत्क्षेत्रमहिमा वर: ॥७॥महातपस्विभि: क्षेत्रं पवित्रीकृतमस्ति तत् ।परमात्मा तत्प्रभावात्तत्र जागर्त्यनारतं ॥८॥अतस्तत्रैव भजतां कार्यसिद्धिर्भवत्यरं ।महातपस्विनो धन्या: स्वयं मुक्ता अपीतरान् ॥९॥मोचयंति स्वतपसा जन्मसंसारबंधनात् ।लोकोद्धृत्यै प्रजायंते सत्तपस्विविभूतय: ॥१०॥तत्संचारस्थलरज:संस्पर्शोप्यत्र मुक्तये ।अतस्तत्सेवितक्षेत्रे लोको यास्यति सादरम् ॥११॥एह्यद्य योगगत्याद्रिं गत्वा ते दर्शयामि तत् ।इत्युक्त्वा पादुके दिव्ये धारयित्वा दृढं दृशौ ॥१२॥निमीलयित्वा श्रीशैलं सह तेन ययौ क्षणात् ।प्राहोन्मील्य दृशौ पश्य श्रीशैलममुमित्यज: ॥१३॥सोप्युन्मीलितदृग्दृष्ट्वा श्रीगिरिं तदनुज्ञया ।क्षौरस्नानादि कृत्वागाद्द्रष्टुं श्रीमल्लिकार्जुनं ॥१४॥यांतं स्वक: प्रेक्ष्य तमाह नोनुयातोसि कस्मान्न युतिं करोषि ।अद्य क्षणाच्छ्रीगुरुणाहृतोस्मीत्युक्तोपि तेनोक्तममंस्त मिथ्या ॥१५॥तस्मै यथास्वं स निवेद्य भक्तो गुर्वंघ्रिपद्मद्वय एकतान: ।प्रासादमेत्यांतरनेकलोकव्याप्तं विवेशेश्वरदर्शनाय ॥१६॥तत्रोपविष्टं गुरुमर्चयन्ति सर्वेपि कश्चिन्न हि तत्र देव: ।इत्थं विलोक्यापि गुरुं प्रपूज्य पुनर्गुरुं प्राप्य तदुक्तवान्स: ॥१७॥अत्र त्वमेवासि कुतोज्ञलोका आयांति हित्वा निकटस्थितं त्वां ।व्याप्याखिलं त्वं परिपूर्णविश्वं दशांगुलं तिष्ठसि वक्ति वेद: ॥१८॥॥ श्रीगुरुरुवाच ॥एक: परात्मा भजतां तथापि स्थानप्रभाव: प्रिय भिन्न एव ।स्नानं त्विदं सर्वजनाश्रयं सन्मुक्तिप्रदं श्रृण्विह पूर्ववृत्तं ॥१९॥विमर्षणो नाम नृप: किरातदेशे कृती क्षात्रवृषप्रवीण: ।द्विजातिभक्तोपि च भूतमात्रहिते रत: साधुजनानुयायी ॥२०॥स्त्रीलंपट: प्राग्गुणतो निषिद्धभुक्शौवोत्तम: शङ्कररूपचिंतक: ।तं प्राह साध्वी महिषी कथं शिवे भक्तिर्दृढा धर्मविरुद्धचेष्ट ते ॥२१॥॥ राजोवाच ॥पंपापुरे श्वाभवमाद्यजन्यामुच्छिष्टमत्तुं शिवसद्म यातं ।हन्युर्जना द्वारि मृतिक्षणेजो दृष्टोर्चित: प्रोज्वलिताश्च दीपा: ॥२२॥प्रदक्षिणं तं हि परीत्य शैवे दिने मृतस्तेन नृपोत्र शैव: ।ये दुर्गुणास्ते श्वनिसरजोत्था: स्यु: पूर्वसंस्कृत्यनुगो हि जीव: ॥२३॥प्राड्मे जनि: क्केति तयाह पृष्ट: प्राक्त्वां कपोतीं सति चंचुमांसां ।चिल्लोहनच्छ्रीमदगे शिवाग्रे प्राणार्पणान्मे महिषीह जाता ॥२४॥क्केतो भवान्यास्यसि चाप्यहं क्क शंसेति पृष्ट: स तु सिंधुदेशे । राजा भविष्याम्यपि सृंजयोत्था मत्स्त्री त्वमग्रेपि कलिंगजा त्वं ॥२५॥साराष्ट्रकेहं खलु मागधी त्वं गन्धारजावन्तिदशार्णजौ च ।नृपोप्यनन्तोपि ययातिजा त्वं पांड्योहमग्रेपि विदर्भजा त्वं ॥२६॥स्मरोपमो धीगुणशीलशाल्यहं वृत्त्वा तदा त्वां रतिभां स्वयंवरे । त्वया सहेष्ट्वा पुरुदक्षिणान्मखान्सम्राट्तया प्राप्य सुतान्सुभोगयुक् ॥२७॥लब्ध्वात्मतत्वं घटजाच्च जीवन्मुक्तो भविष्यामि सह त्वयैवं ।राड्दंपती वै प्रतिजन्म भूत्वा मुक्तौ भविष्याव इति ह्यवोचत् ॥२८॥शंभो: पुर: साहजिकासुदानादेवं तिरश्चोपि गतिस्तु लोका: ।बुत्ध्वेदमायात्यपि देवता तु स्थलानुमानात्खलु जागरूका ॥२९॥इत्युक्त्वा धारयित्वेश: पादुके सङ्गमं क्षणात् ।तमानीयेरयद्ग्रामं प्रहृष्ट: प्रययौ स तु ॥३०॥तत्रत्या: संगमेsदृष्ट्वा गुरुं खिन्ना अवेक्ष्य तं ।आयांतमब्रुवन्यांत: कस्मात्क्षौरं कृतं त्वया ॥३१॥स प्राह मां क्षणान्नीत्वा श्रीशलं भो यथाविधि ।क्षेत्राचारं कारयित्वा संप्रत्यत्रानयत्प्रभु: ॥३२॥तच्छ्रुत्वात्रैष मध्यान्हे दृष्टो ब्रूते मृषेति ते ।मत्वैत्य संगमे तत्र निशि सर्व उपोषिता: ॥३३॥चक्रुर्जागरणं शैवनामोच्चारणपूर्वकं ।तत: शैलाज्जन: प्राप्त: पक्षात्स प्राह विस्मित: ॥३४॥श्रीशैलेयं शिवद्वारि तंतुक: सकृदीक्षित: ।तदा सप्रत्यया: सर्वे ननंदुर्विस्मिता भृशम् ॥३५॥सद्गुरो: सेवया बाढं कर्मबंधं निहत्य स: ।सिषेवे परमानंदं यत्र नो द्वंद्वसाध्वसं ॥३६॥एकैकयापि भक्यैवं मुक्ता: कति न वेद तान् ।कवी शिष्यावभूतां तौ मुक्तौ श्रीगुरुकीर्तनात् ॥३७॥गुरुलीलामयास्ताभ्यां प्रभूता ग्रथिता: कथा: ।तल्लीला वक्ति क: कार्त्स्न्याद्यत्र वेदोपि शङ्कित: ॥३८॥॥ नामधारक उवाच ॥कौ शिष्यौ सद्गुरोर्जातौ तन्मे कथय सादरं ।वक्ता हि श्रोतृपृच्छाशी: स्मृतिमेति यत: कथा ॥३९॥॥ सिद्ध उवाच ॥नंदिशर्मा द्विज: कश्चित्कुष्ठार्तस्तुलजापुरि ।त्र्यब्दं तेपे तप: स्वप्ने देव्योक्तं गच्छ चेश्वरीं ॥४०॥स चंदलेश्वरीं प्राप्य सप्तमासं तपोतपत् ।तयाप्युक्तं यति गच्छ स्थितं भीमामरायुतौ ॥४१॥स प्राह तां गच्छ मर्त्यमिति वक्तुं न लज्जसे ।परीक्षितं त ऐश्वर्यमियत्कष्टं कुतोर्पितं ॥४२॥इत्युक्त्वा स तपस्तेपे भक्तैर्देव्या स हापित: ।यद्भव्यं तद्भवत्वेव कष्टमेतावदर्जितं ॥४३॥देव्याज्ञया तथैवाल्पं सह भोग्यमिति द्विज: ।मत्वा स्वगतमानम्य देवीं भुक्तो ययौ यतिं ॥४४॥गंधर्वपुरमासाद्य स यति: क्वेत्यपृच्छत ।पापं मत्वार्जुनाभं तं कुष्ठिनं नोत्तरं ददु: ॥४५॥तं कश्चिदाह स्नात्वारं शिवरात्रिव्रतस्य च ।पारणायै मठे देव आयास्यत्यत्र तिष्ठ भो: ॥४६॥अत्रांतरे प्रभु: प्रप मठं भक्तास्तमब्रुवन् ।द्विजोर्जुनश्वेतदेह इदानीं कश्चिदागत: ॥४७॥विश्वसाक्षी तमाहूय प्राह हित्वामरान्नरं ।आयातोसि कुतोर्ह: किं दोषोथस्थास्नुरुघृतौ ॥४८॥तच्छ्रुत्वा मत्क्रुतं ज्ञातमनेनैष न मानुष: ।प्रत्यक्ष: परमात्मेति मत्वोचे तं क्षमाप्य स: ॥४९॥मूढोहं कुत्सितमति: पापात्मा पापसंभव: ।शरण्यं त्वां प्रपन्नोस्मि दयाब्धिं भक्तवत्सलं ॥५०॥मयि कुष्ठं समुत्पन्नं विवाहोर्ध्वं तदैव तु ।पितृदारैरपि परित्यक्तं मां कोपि नेक्षते ॥५१॥नांगीकुर्वंत्यपि सुरा भात्यतोपि मृतिर्वरं ।परात्मना त्वया नोचेत्स्वीकृतोत्र जहाम्यसून् ॥५२॥॥ श्रीगुरुरुवाच ॥मा भी: पापोत्थरोगोयमियत्कालमनेन तु ।भुक्तं पापमतो भक्तिर्मयि जाताचलामला ॥५३॥ अत्रास्ते संगमे तीर्थराजोघौघविनाशन: ॥तत्र स्नाहीति संभाष्य सोमनाथमथाब्रवीत् ॥५४॥विधिवत्कारयित्वा षट्कूलतीर्थे सचैलकं ।अश्वत्थमर्चयित्वा द्राक्सोमनाथामुमानय ॥५५॥सोप्युक्तवत्कारयित्वा तमानीय गुरो: पदे ।उपानयत्तमाहेश: पश्योत्तिष्ठाखिलं वपु: ॥५६॥स्वर्णीभूतं स तु स्वांगमुत्थायोद्वीक्ष्य विस्मित: ।किंचित्कुष्ठांकिताष्ठीवद्गुरुं प्रांजलिरब्रवीत् ॥५७॥भगवन् किं कृतं त्वेतत्कुष्ठं शिष्टं कुतोल्पकं ।तच्छ्रुत्वा सस्मितं प्राह त्वत्संशयफलं त्विदं ॥५८॥इत्याश्राव्य गुरोर्वाक्यं प्रणिपत्याब्रवीद्वच: ।सुधाप्यंबुधिया पीता मृतिं नयति किं दव: ॥५९॥स्प्रष्टाsवित्वाद्दहत्यल्पं स्वभावं परिहृत्य किं ।हरे स्वभाव: पूर्णत्वं तवानेनैति किं वद ॥६०॥॥ श्रीगुरुरुवाच ॥यद्भावो यादृश: क्कापि नान्यथा स्यात्स्वदोषत: ।ग्रहीतुर्भात्यन्यथार्के जन्मांधस्येव शून्यता ॥६१॥मर्त्येन मम किं भूयादिति शंकोदित त्वयि ।तत्फलं त्विदमस्त्येक: प्रतीकारोत्र तं कुरु ॥६२॥श्रुतिबृंहितया सिद्धयेत्पुरुष्टुत्या त्वमर्त्यता ।भविष्यत्यनया सिद्धयेत्पुरुष्टुत्या त्वमर्त्यता ।भविष्यत्यनया शुद्धिस्त्वं कृतार्थो भविष्यसि ॥६३॥तच्छ्रुत्वा दीनवाग्लोलत्सर्वापघन आह तं ।स्वामिन्सर्वांतरस्थस्त्वं किं वाच्यं तेग्रत: प्रभो ॥६४॥लिपिमप्यक्षमो ज्ञातुं कथं स्तौमि पुरुष्टुत ।अन्यत्किमपि कर्तुं मां यथास्वं विनियोजय ॥६५॥प्रभु: प्राह सकृद्वक्त्रान्निर्गतं न पुनर्वच: ।ममांत: प्रविशत्येव दंतावलरदोपमं ॥६६॥उक्तमेव त्वया कार्यमित्युक्त्वा भस्म मंत्रितं ।प्रक्षिप्य तन्मुखे प्राह स्तुहि नानाविधोक्तिभि: ॥६७॥सोपि गीष्पतिवद्भूत्वा तं स्तोतुमुपचक्रमे ।प्रेमगौरवनम्रांगो हर्षगद्गदया गिरा ॥६८॥साक्षात्तत्वमसीश त्वं कर्ता भर्ताव्ययो ध्रुव: ।त्वं सर्वं खल्विदं ब्रह्मास्यात्मा साक्षी जगन्मय: ॥६९॥धिया गुणैस्त्रिधाभूतात्स्वभेदात्सत्वलक्षणात् ।भूतान्युद्भाव्य सर्वात्मन्विश्वं सृष्टं चराचरं ॥७०॥मायामयं ह्यस्वतंत्रं वित्पात्रं कल्पितोत्र ना ।सोपि त्वन्मायया भ्रांतो भूत्वा संकल्पवान् सदा ॥७१॥यात्यधो विस्म्रुतात्मा सत्कर्मायत्तो वियोनिषु ।भ्रमते भुक्तनिरय: कल्पेपि वासनाहृदा ॥७२॥स्थित्वोद्भवति कल्पादौ प्राग्वत्सत्कर्मवानपि ।गत्वोर्ध्वं पतति क्षीणपुण्योधश्चंद्रमंडले ॥७३॥ततोप्योषधिगो भूत्वा पुंसि रेतस्ततोप्यसौ ।स्त्रीपुंयोगाच्छुक्ररक्तमयो गर्भत्वमेत्यहो ॥७४॥कललं प्राक्पंचरात्राद्बुद्बुद: सप्तरात्रत: ।पेशी पक्षादर्बुदोथ भवति स्वस्थितो घन: ॥७५॥मासा क्रूर: शिरो द्वाभ्यां ग्रीवाद्यंगानि च त्रिभि: ।चतुर्भिस्त्वग्रोमनखा: पंचभि: षड्भिरप्यथ ॥७६॥नासास्याक्ष्यादिरंध्राणि सप्तभिश्चलनं च धी: ।अष्टभिर्नवभि: पूर्णो देही भूत्वेश्वरं जगौ ॥७७॥जातो मृत: शश्वदहं वियोनीर्मयोषिता भक्तिपराड्मुखेन ।अवाड्मुखं देव जरायुवीतं मामुद्धर त्रस्तमितो भजे त्वां ॥७८॥एवं स्तुत्वा सूतिवायुत्यक्तो विस्म्रुतलब्धधी: ।रोरूपति जनुर्लब्ध्वा मोहितो माययेश ते ॥७९॥अनभिप्रेतमापन्न आसनोत्थानचेष्टने ।पराधीनतया भुंक्ते स व्यथां वक्तुमक्षम: ॥८०॥ततोपि क्रीडनासक्तो वयस्यैरज्ञभावग: ।तारुण्ये विषयासक्तो मत्तो दुर्जनसंगत: ॥८१॥देवमायां स्त्रियं प्रेक्ष्य तद्भावैरजितेंद्रिय: ।भोगोत्सुक: खलोज्ञातकार्याकार्यो दुरध्वग: ॥८२॥वार्धक्ये स्वजनत्रस्तो रुग्णोस्वस्थो जराकृश: ।श्वासकासकफाविष्ट: संभवत्यजितेंद्रिय: ॥८३॥शतायुरपि रात्र्यार्धं हृतं शिष्टमपीदृशं ।कथकारं नृजन्मापि श्रेष्ठं भक्त्या विना त्वयि ॥८४॥तत्साफल्यं नवविधत्वद्भक्त्यासक्तसंगति: ।त्वयि भक्ति: साधने द्वे त्वां याचे भक्तवत्सल ॥८५॥भो जनात्रावतीर्णोयं सद्धर्मत्राणकारण: ।परमात्मा परं ब्रह्म लीलाधाम्नैष नो नर: ॥८६॥सेव्यताममृतत्वाय योगैर्वा श्रवनादिना ।भजतोनुभजत्येष भगवान्भक्तिभावन: ॥८७॥यथा तृणौघोग्निस्पर्शाद्भस्मसाज्जायते तथा ।नि:शेषाघं कृपांशेन निर्दग्धं मेमुना तथा ॥८८॥भगवन्कति ते वाच्या वाङ्मनोsविषया गुणा: ।श्रुत्या नेतीति सिद्धेपि श्रद्धावद्योगिगोचर ॥८९॥इत्यादिना बहु स्तुत्वा पदो: प्रणिपपात स: ।शिष्टं कुष्ठं तदा नष्टं विशिष्टेष्टसुतुष्टित: ॥९०॥तत्रैव स्थापन्यामास तं दत्वेष्टं वरं प्रभु: ।सोप्यानीय वधूं स्थित्वा व्यरचद्विविधा: कथा: ॥९१॥कवितां प्रसृतां लोके तस्य ज्ञात्वा नृकेसरी ।कश्चित्कविरमंस्तेयं गर्होदारापि नृस्तुति: ॥९२॥तद्ग्रामे केनचिन्नीतो गुरुस्तस्मै व्यदर्शयत् ।उपास्यकल्लेशलिंगस्थं स्वं रूपिं हृदर्चने ॥९३॥पंचभिस्तं नवै: श्लोकैर्नित्यवन्मानसार्चने ।स्तुवंतं श्रीगुरु: प्राह क्कास्ते कल्लेश्वरो वद ॥९४॥तच्छ्रुत्वा स तदा ध्यानं विसृज्य भगवान्स्वयं ।नृरूपेणावतीर्णोयमिति मत्वान्वगाद्गुरुं ॥९५॥नृकेसरिर्गुरुं प्राप्य रचितै: पंचभि: शुभै: ।श्लोकैस्तुष्टाव तं प्रह हित्वेशं स्तौषि किंनरं ॥९६॥॥ नरकेसर्युवाच ॥भवान्मयाज्ञभावेन मानुषो लौकिको मत: ।कृपयापास्य मेsज्ञानं सत्वं रूपं प्रदर्शितं ॥९७॥तेन नष्टोद्य मे मोहस्त्वत्प्रसादाज्जनार्दन ।प्राक्पुण्यं फलितं मेद: शिष्यालौ मां नियोजय ॥९८॥भगवानपि सुप्रीतस्तस्मै दत्वांशुकं वरं ।प्राह कल्लेश्वरं विप्र भज तत्रापि मत्स्थिति: ॥९९॥स प्राह भगवन्तेद: प्रत्यक्षं रूपमुत्तमं ।हित्वोत्सहे न गंतुं मां स्वपादाब्जे स्थितीकुरु ॥१००॥मद्धाम्न्याप्तोस्यनायासाद्भगवन्भक्तकामधुक् ।दयाब्धे मा क्रुरूपेक्षां दयनीयतमस्य मे ॥१०१॥इत्युक्त्वा स पपाताग्रे तमाश्वास्य दयानिधि: ।शिष्यत्वेनोररीकृत्य स्वात्मसौख्यमुपादिशत् ॥१०२॥एवं भूत्वा कवी द्वौ तौ संग्रथ्य हरिसत्कथा: ।तत्कीर्तनाच्छ्रद्धयात्र कृतकृत्यौ बभूवतु: ॥१०३॥इति श्रीगुरुचरिते भक्तियोगे भक्तिवर्णनं नाम तृतीयोsध्याय: ॥आदित: एकविंशोsध्याय ॥२१॥ Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP