संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ चतुर्दशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ चतुर्दशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ चतुर्दशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥ज्ञानयोग इयानुक्त: सिद्धयै संन्याससत्पथ: ।कुतो भगवता पश्चात्कर्मयोग: प्रकाशित: ॥१॥अविद्याघातकं कर्म तदुत्थं कथमित्यमुम् ।छिंधि मे संशयग्रंथिं भगवच्चरितासिना ॥२॥॥ सिद्ध उवाच ॥कर्कटीं तद्भवा घ्नंति यथा मृत्क्षालनं मृदा ।तथाsविद्या च कर्मापि कर्मणैव विलीयते ॥३॥साधनावघि तत्कार्यमुपात्तपरसाधन: ।तत: संन्यस्य शमवान्भवेन्नैष्कर्म्यसिद्धिभाक् ॥४॥प्रकृत्यत्थगुणै: कोपि जात्वकर्मा न तत्फले ।सक्तोsज्ञोsसक्त इद्वद्वानस्येदं लोकसंग्रहे ॥५॥अहं यथानुतिष्ठामि लोकस्तदनुगो भवेत् ।नेदं साध्विति मत्वाज: कर्मयोगं जगौ प्रभु: ॥६॥कर्मयोगमयं तस्य चेष्टितं श्रृणु सादरं ।यच्छ्रुत्वा भवसम्बन्धं छित्वा याति परं पदं ॥७॥ब्रह्मध्रुग्यवनो राजा कश्चिद्धिंस्रोभवत्खल: ।सदस्याहूय विप्रान्स स्वाग्रे वेदानपाठयत् ॥८॥वेदान्पठंति ये सार्थास्तेभ्यो दास्ये धनं बहु ।इत्याकर्ण्य़ तदुक्तं ये रैलुब्धास्ते तथाभजन ॥९॥श्रुत्वा खलोपि वेदार्थं द्विजाग्फ़े ब्राह्मणान्छ्रुती: ।अकुत्सयद्गवाशेन मिथ्याचारो मतोखिल: ॥१०॥एवं सत्येकदा विप्रौ वैदिकावेत्य दुर्विधौ ।मत्तौ तमूचतू राजन्वेदशास्त्रविदौ स्व इत् ॥११॥अस्मत्तुल्यौ न के क्कापि त्वन्निघ्नाश्चेदिहानय ।श्रुत्वेदं स्वाश्रितेभ्यो राट् शशंसोचु: खलं हि ते ॥१२॥न यांति संमुखे केपि तयोस्तत्तौ समर्चय ।राजाप्यानर्च तौ विप्रौ गजावारोह्य भूषितौ ॥१३॥जैव्ह्यौपस्थ्यसुखासक्तिनिदानेनेदृशी स्थिति: ।वेदज्ञानामध:पातशंकावर्जितचेतसां ॥१४॥॥ विप्रावूचतु: ॥विद्यापरिश्रमो वादं विना न सफलोस्ति नौ ।तदाज्ञापय गच्छावो गां जेतुं विदुषो द्विजान् ॥१५॥स तथाप्यादिशद्विप्रपराभवपरो नृप: ।जयपत्रं द्विजान्जित्वा गृण्हंतौ चेरतुर्भुवं ॥१६॥वावदूकतया मिथ्या द्विजांस्तर्जयतो: सदा ।विवादं त्याजितै: प्राज्ञैर्जयोभूद्विशदस्तयो: ॥१७॥त्रिविक्रमं त्रयीज्ञं तौ श्रुत्वागत्योचतु: कुरु ।चेद्वेदज्ञोसि वादं नौ देहि वा जयपत्रमित् ॥१८॥॥ त्रिविक्रम उवाच ॥वेदज्ञास्त्वादृशा: पूज्या द्विजौ नाहं तथाविध: ।यतौ जयाजयसमे जिते किं वां भवेदिह ॥१९॥पश्येमान्यमितानि त्वं पत्रं देहीति भाषित: ।ताभ्यां दास्ये गुरोरग्र इत्युक्त्वा श्रीगुरुं ययौ ॥२०॥तौ मत्तौ स्वासनारूढौ मूढौ तमनुजग्मतु: ।मठे श्रीगुरुमासाद्य तमस्तौषीत्त्रिविक्रम: ॥२१॥नम ॐकाररूपाय निर्गुणाय गुणात्मने ।जगद्गुरो परानन्दमूर्ते जय जयाच्युत ॥२२॥नाज्ञानांध: परं वेत्ति यं घूक इव भास्करं ।स त्वं भो मत्तविप्रद्विड्द्विजौ शासितुमर्हसि ॥२३॥स्तुत्वैवमादित: सर्वं शशंसागमकारणं ।तौ प्राह गुरुरप्याप्तौ साध्यमेतेन किं द्विजौ ॥२४॥॥ विप्रावूचतु: ॥राज्ञाज्ञप्तौ द्विजान्जेतुमावां विद्वत्तमौ भुवि ।अत्रानीतावनेनोभौ भिक्षू किं वेदपारगौ ॥२५॥॥ श्रीगुरुरुवाच ॥गर्वेणैव प्रणष्टा: स्यू राक्षसा असुरा द्विजौ ।अनादीन्कृत्स्नशोनन्तान्कोपि वेदान्न वेद रे ॥२६॥ब्रह्मचर्याश्रमे वेदान्पठितुं प्राक्तपोतपत् ।भरद्वाजो विधि: प्रीतस्तस्मै वेदानदर्शयत् ॥२७॥दृष्ट्वा भास्वद्वेदराशीन् शंकितोभूदृषिर्ददौ ।त्रीन्मुष्टीनृषयेद्यापि पठ्यमानो न पारग: ॥२८॥पैलो वैशम्पायनश्च जैमिनिश्च सुमन्तुक: ।ऋग्यजु:सामाथर्वाख्या अशिक्षंत श्रुती: क्रमात् ॥२९॥गुरुर्व्यासो हरि: साक्षात्ततोत्र प्रसृता श्रुति: ।पठिता: कतिचिद्वेदा आयुष्माद्भिर्युगान्तरे ॥३०॥शाखयैवाल्पायुषोsत्र मंदा वेदज्ञमानिन: ।प्रतिग्रहपरान्नस्त्रीसक्ता: सिद्धिविवर्जिता: ॥३१॥व्यासेनोक्ताश्चतुर्वेदा: शाखांगोपांगसंयुता: ।आयुर्वेदस्ततो रुघृदृग्वेदस्योपवेद उत् ॥३२॥ स्वर्णोत्रिगोत्रजो गायत्त्रच्छंदो ब्राह्मदैवत: ।द्व्यरत्निमात्रो दीर्घाक्ष ऋग्वेदो व्यक्तकंधर: ॥३३॥शाकला बाष्कला तस्या: सांख्यायन्याश्वलायनी ।मांडूक्येत्थं पंच शाखा अष्टौ विकृतयस्त्वृच: ॥३४॥निरुक्तं व्याकृतिर्ज्योतिश्छंद: शिक्षा च कल्पक: ।अस्येमानि षडंगानि वेत्तीमं कोद्य कृत्स्नश: ॥३५॥पंचारत्निमितोर्काभ: कपाली कृशदीर्घक: ।यजुर्वेदो धनुर्वेद: क्षत्रेष्टोस्योपवेद उत् ॥३६॥त्रिष्टुप्छंदो भरद्वाजगोत्रजो विष्णुदैवत: ।षडशीतिभिदोंगानि प्राग्वदष्टादशास्य तु ॥३७॥परिशिष्टान्युपांगानि षडेवैष इयान् तत: ।क्षमी दांत: शुचि: स्रग्वी चर्मी दण्डी तृतीयक: ॥३८॥षडरत्निमितोस्योपवेदो गान्धर्वसंज्ञक: ।रुद्राधिदेवो जगतीच्छंद: काश्यपगोत्रज: ॥३९॥हता नष्टाश्चापि शिष्टा नवाष्टौ च भिदोस्य तु ।सामांगोपांगभेदेन क: पुमान्वेदितुं क्षम: ॥४०॥चण्डस्तीक्ष्णोसित: कामरूपी क्षुद्रक्रियोशुभ: ।स्वदारातुष्टोथर्वाख्य: शस्त्रास्त्रोपांगवेद उत् ॥४१॥बैजानगोत्रजोनुष्टुप्छंदा एषैन्द्रदैवत: ।नवास्य भेदा: सम्पूर्णा: कल्पा: पंचात्र वेत्ति क: ॥४२॥वर्षेद्य भारते कर्मभ्रष्टा हीना द्विजातय: ।वेदान्क्रीणंत्यंत्यजाग्रे सत्वहीना अतोभवन् ॥४३॥उत्सृष्टोपाकृताभ्यस्तगुप्तवेदमनुर्भुवि ।किं न दास्यति विप्रेभ्य: प्रत्येक: कामधेनुवत् ॥४४॥देवाधीनं जगन्मंत्रनिघ्ना देवास्तु मंत्रका: ।ब्रह्माधीना ब्राह्मणा मे देवता विष्णुवब्रवीत् ॥४५॥सर्वस्वदक्षिणा भूपैर्दत्तापि ब्राह्मणै: पुरा ।नात्ता कृतोद्रिस्तृणवत्सुसत्वाच्चाद्रिवत्तृणं ॥४६॥वशसर्वामरास्तेपि तदा स्वल्पज्ञमानिन: ।युवां भ्रष्टौ भ्रष्टमंत्रौ स्वल्पज्ञौ प्राज्ञमानिनौ ॥४७॥आत्मस्तुतिपरौ ब्रह्मद्विषौ साध्वात्मवंचकौ ।त्वत्तुल्या ये पुरा जाता जातास्ते ब्रह्मराक्षसा: ॥४८॥॥ विप्रावूचतु: ॥नैतावछ्रोतुमाप्तौ स्वो विवादं कुरु चेन्न वां ।तच्छक्तिर्जयपत्रं नौ युवाभ्यां दीयतामिति ॥४९॥तथेत्युक्त्वोद्वीक्ष्य यांतमानयित्वांत्यजं प्रभु: ।लेखा उल्लिख्य सप्ताभ्युत्क्रामयन्तमवाचयत् ॥५०॥प्राचीनसप्तजन्मज्ञो रेखास्पर्शनतोभवत् ।आद्यां गत्वास्मि बुरडो मातंग इति भाषितम् ॥५१॥द्वितीयां तु किरातोत्थो रावण्याख्य इतीरितं ।तृतीयां च नदीतीरस्थो गांगेय इतीरितं ॥५२॥चतुर्थीं वै कृषिपटु: शूद्रोस्मीत्यभिभाषितं ।पंचमीं सोमदत्ताख्यो वैश्योस्मीत्युदितं तत: ॥५३॥षष्ठीं गोवर्धनाख्योहं क्षत्र: शूर इतीरितं ।सप्तमीं वेदशास्त्रज्ञो ब्राह्मणोस्मीति भाषितं ॥५४॥तदास्य मंत्रितं भस्म क्षिप्त्वांगे प्रभुराह तं ।चेद्वेदज्ञोसि विप्रौ द्राग्विवादेन पराजहि ॥५५॥इति श्रुत्वेशवाक्यं तौ प्रत्याहतधियौ भिया ।कंपितौ श्रीगुरुं गत्वा विप्रौ शरणमूचतु: ॥५६॥ब्रह्मद्विषौ स्व: पापिष्ठौ दुष्टसंगाहितभ्रमौ ।मूढौ नौ दुर्गतिं यांतौ समुद्धर्तुं हरेर्हसि ॥५७॥॥ श्रीगुरुरुवाच ॥म्लेछाग्रे पठिता वेदा धिक्कृता ब्राह्मणा यति: ।तत्कर्मपरिपाकार्थं राक्षसौ द्राग्भविष्यथ: ॥५८॥सन्तप्तत्वाद्द्वादशाब्दानुषित्वा शांतरूपत: ।पठ्यमानानुवाकोपदेशाद्विप्राय वां गति: ॥५९॥इत्युक्तौ गुरुणा गत्वा भीमां स्नात्वा मृतावुभौ ।राक्षसौ गुरुवाक्यातौ भूत्वा तत्रैव तस्थतु: ॥६०॥तत्र यान्द्वादशाब्दांते द्विजो विस्मृतवान्मनुं ।तस्मै शशंसतुस्तं तौ तदा मुक्तौ स्वरीयतु: ॥६१॥स्वधर्ममुत्सृज्य मदेन ये द्विजान् गुरून् द्विषंत: खलु राक्षसा वने ।भवंति पापोपि यदानुतापित: कनिष्ठशिक्षो भवति द्विजाविव ॥इति श्रीगुरुचरिते कर्मयोगे वेदोपदेशो नाम प्रथमोsध्याय: ॥१॥आदितश्चतुर्दशोsध्याय: ॥१४॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP