संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ षोडशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ षोडशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ षोडशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥नमस्ते ब्रूहि चरितं हरेरद्भुतकर्मण: ।श्रृण्वतोपि न मे तृप्तिरमृतं पिबतो यथा ॥१॥॥ सिद्ध उवाच ॥सत्पृष्टं वत्स धन्योसि भवाब्धिर्लीलया जित: ।चित्तं ते चरितैर्विद्धं हरेस्तेनास्मि तोषित: ॥२॥को ब्रूयाद्भगवल्लीलां कति चित्राणि वच्मि ते ।मूको ब्रूते प्रेक्षतेंधो मृतो जीवति यद्दृशा ॥३॥श्रृण्वेको माहुरे विप्रो गोपीनाथो धनी मृता: ।तत्पुत्रा बहवोथैको जीवितो दत्तसेवया ॥४॥दत्तप्रसादाच्चिरजीवितं सुतं नाम्नाकरोद्दत्तमिति द्विजातिज: ।कांत: सुलक्ष्मा मतिमान्सुसात्विक: पित्रोर्मृतार्भाकविनाश्यवर्शत ॥५॥सुसंस्कृतस्यास्य विधे: सुरूपिणी लब्धा वधूर्धीगुणशीलशालिनी रति: स्मरस्येव परस्परोत्थितमासीत्तयो: प्रेम रथांगनामवत् ॥६॥ सरूपौ सुरूपौ स्वयोर्मन्यमानौ वियोगं कुयोगं क्षणं धर्मदक्षौ ।उभौ तौ स्मरंतौ सदान्योन्यभद्रं न तंद्रा न निद्रा पतिप्रेम्णि साध्व्या: ॥७॥लेपोत्युष्ण इवानिलोनलसम: शीतांशुरुष्णांशुव -च्छय्या वृश्चिकवत्सुमस्रगहिवद्भूषा: समा: कंटकै: ।वाङ्म्याधुर्यमपि प्रदीपसदृक्स्वाद्वन्नमप्युत्कटु प्रेष्ठे त्वंतरिते क्षणं दृढतरां साध्व्या अभूत्सर्वदा ॥८॥एवं सतोश्चापरिहार्यशोषवान्भर्ता सुसाम्यासहनाद्विधेरभूत् ।क्षीणो रुचि: श्वासकफार्दितोनिशं दु:खोझ्झितस्वापभुजि: सुमन्दवाक् ॥९॥भुंक्ते यथान्नं स सती तथान्नं शेतेपि यावत्स सती तु तावत् ।कृशोsपि यद्वत्स सती तु तद्वत्छायापरेवास्य पतिव्रताभूत् ॥१०॥वैद्योन्तिके तस्य कुगंधशंकया न याति साध्वी सुमना न तं जहौ ।भेजे पतिं स्नानसुगन्धिलेपनै: पादांगसंवाहनभेषजार्पणै: ॥११॥शांत्यार्चनैर्होमजपैश्च भेषजैर्दानैर्न यक्ष्मा किमपि व्यहीयत ।श्यामामुखेन्दुं परिपूर्णमुद्ग्रसन्मंदस्मितज्योत्स्नमभूत्परो ग्रह: ॥१२॥द्विजं रुजर्तं च तथाविधां वधूं तयोर्न शेकु: पितरौ निरीक्षितुं ।निवारिता तैरपि सा पतिव्रता न तं जहावर्यमणं प्रभा यथा ॥१३॥॥ विप्र उवाच ॥प्राग्वैरत: कष्टमिदं मयार्पितं धृत्या पित: सात्विकयांब जीवितुं ।साध्वर्हथस्ते सति पूर्ववैर्यहं तन्मां विहायाशु पितुर्गृहं व्रज ॥१४॥॥ साध्व्युवाच ।नार्हास्म्यनन्यशरणा परिहापितुं ते नन्वर्धसुन्दरशरीरविभागिनीयं । जीवोत्स्य साधुवपुषोस्ति भवान्वियुक्ते जीवे तनोर्ननु भवेत्खलु जीवहत्या ॥१५॥सदा मादास्यं शशिशालि कालिमा कुतो यतो भैधत एवमेव ते ।अकी सुखी यत्र भवत्यवत्यघात्तमीशमीडे स तु देवदेवत: ॥१६॥नमो नमो वां श्वशुरौ मया श्रुतो गुरु: स गन्धर्वपुरेस्ति तारक: ।असुप्रियोsनामयमेति भाति मे सहामुना यास्य उरोचतेपि वां ॥१७॥तावूचतु: क्कापि तव श्रमेण संम्राज्ञि जीवेत स तत्र गच्छ ।श्रुत्वैवमाराछ्वशुरौ प्रणम्य तदाज्ञयागात्सह तेन साध्वी ॥१८॥सुखस्थितं मंथरवाहवाहितं तमन्वगच्छत्पतिमंघ्रिचारिणी ।दधौ कराक्रुष्टधवा गमानतक्षमेभिभामुत्कुचगण्डकर्शिता ॥१९॥क्रांतेsयनेथो कतिचिच्छनै: शनैर्मृत्युं धवोगात्स तदैव दैवत: ।सा मर्तुमुत्कापि निवारितेतरै: शुक्तामसीम्लानमुखाम्बुजावदत् ॥२०॥कालात्ययं मा कुरु कुर्वथाह्निकमुत्तिष्ठ शेषे कति नाथ विप्रराट् ।कस्मान्न मे दास्यसि वल्लभोत्तरं प्रेष्ठं नु किं ते वचनं व्यलंघयं ॥२१॥प्राणा: क्क याताश्च मन: क्क ते गतं द्राक्तान्परावर्तय जीवितुं चिरं ।लिप्त:स्वमातापितृदारहत्यया भविष्यसि त्वं न तथा करोषि चेत् ॥२२॥उद्वाहितां क्कैषि विहाय मां प्रियां पुत्राननुत्पाद्य कथन्वृणोत्धृति: ।स्थातव्यमीश क्क कथं न भाषितं कथं व्रजेयं सदनं गुरोश्च व: ॥२३॥सर्वत्र पूता त्वयि जीवतीशितर्मदास्यमप्यद्य न कोपि पश्यति ।सव्रीडानर्मोक्तिसुतल्पहावयुक्तांबूललेपादि कथं न ते हृदि ॥२४॥सुखं स्वपोरूत्कुचभारभंगभीभीतमध्यात्मसुतल्प ईश ।किं ते शिलाढ्ये शयनं कुपृष्ठे सुप्त: पृथङ्नर्तुमृतेद्य किं तत् ॥२५॥नक्रोप्सु यद्वत्तृषितं यथा द्रु: श्रांतं यथा गां तृणगां च हिंस्र: ।प्रासाद ईशेक्शकमुन्निहंति जातं तथा मे गुरुदर्शनाप्ते: ॥२६॥जयेश्वरानन्त कथं त्वया कृतं भिया त्वयात्रापह्रुतोस्ति किं पति: ।रुक्शांतिशक्तिर्यदि ते न गम्यतामिति त्वयोक्ते कतमोर्दितुं क्षम: ॥२७॥त्वया क्रुतं साधु यशो दिवं ते वहामि भर्त्रा सह गौरिमात: ।क्केता ह्यवैधव्यकदानशक्तिर्व्रतेश्वरीशे न कथं स्मृतिर्मे ॥२८॥मांगल्यतंतुं च निशां च कुंकुमं हर्तुं महांश्चोर इहागत: कुत: ।सौभाग्यनौर्मे भवसिन्धुसंस्थिता सा कालमीनेन कथं नु चर्विता ॥२९॥एवं रुदित्वोरुकुचत्रुटत्पटा संस्मृत्य संस्मृत्य तदीयचेष्टितं ।प्रत्यंगमालंब्य रुरोद मोहत: साध्वी तदा कश्चन साधुराययौ ॥३०॥रुद्राक्षभूषो भसिताक्तदेह: शूली बभाषे जटिल: स साध्वीं ।बाले शुचा नैति मृत: कुतस्त्वं मुधोच्चकै रोदिषि तिष्ठ तूष्णीं ॥३१॥मृत्युर्न केषां विषयोपि देवान्ग्रसत्यसौ चापरिहार्य एव ।द्रौव्यैक्यमब्धौ च यथेंधनैक्यं भवप्रवाहेपि तथा धवादि: ॥३२॥सम्बन्ध एषां नियतो मतश्चेत्प्राग्जन्मति त्वं वद कस्य का वा ।सम्बंधिन: कस्य न केsद्वयत्वाज्जीवश्चिदंशोखिलगोव्ययोज: ॥३३॥पंचात्मकेस्मिन् खलु संगतेत्र भर्त्रादिबुद्धिर्न तु तत्त्वतोस्य ।काष्ठाग्निवत्तं तु पुमादिलिंगहीनं धवादिं प्रकृतिस्थमाहु: ॥३४॥प्राप्त: प्रकृत्युत्थगुणानुगोसौ शरीरतादात्म्यमतोस्य वृद्धा ।द्वंद्वप्रतीतिर्न तु सामलेजे द्वंद्वोत्थकर्माश्रयिणो भवोस्ति ॥३५॥भवोद्भव: कर्मत एव कर्म भवोद्भवं तूभयमज्ञभावात् ।धीरेण येनोभयमेव कृत्तं तत्त्वासिना तस्य न वै भ्रमोयं ॥३६॥अस्यास्त्यविद्यैव घटादिवद् द्योरुपाधिरात्मत्वमुपाध्यपाये ।मालाहिवत्कल्पित एति नाशं भ्रमोस्य सद्दर्शिततत्वदीपात् ॥३७॥तावद्भ्रमांतौ नियतौ द्युरात्रिवज्जन्तोरतस्तत्त्वविचारवान्भवेत् ।त्वग्रक्तमांसास्थिमयात्मशोकत: स्वार्थ: कुत: साध्वि समुद्भवेद्वद ॥३८॥तस्माच्छुचं मुंच सति प्रसाधय स्वार्थ यथा येन भवं तरिष्यसि ।तत्काल एषैव यदा प्रमादतो याता नृयोनिस्तु पुनर्न तत्कथा ॥३९॥॥ साध्व्युवाच ॥प्राप्ता धवानामयहेतुनाधुना दैवात्पथेस्मिन्दयितो मृत: पित: ।सम्बन्धिनोप्यंतरितास्त्वमेव मे सर्वोसि मामुद्धर दु:खसागरात् ॥४०॥॥ साधुरुवाच ॥भर्तैव तारकं साध्व्या नोपाया बहवो नृवत् ।शृण्वगस्त्यसतीस्तोत्रप्रसंगोक्तं वृषं सुरै: ॥४१॥विंध्योत्कर्षभियैत्य तद्गुरुमगस्त्यं तद्वधूं निर्जरै:साकं देवगुरुर्जगौ सतिरमासावित्र्युमारुंधती ।इत्याद्या अपि साध्व्य उत्तमतमा तासां त्वमेवास्यहो ।छायेवानिशमीशसेवनपरा त्वन्निघ्नमेतज्जगत् ॥४२॥भक्त्या छायेव याश्रांतं स्वभर्तृपरिचारिणी ।पतिरेव व्रतं यस्या अखण्डं सा पतिव्रता ॥४३॥पादाम्बु तीर्थमुच्छिष्टं प्रसादो देवतार्चनं ।तत्सेवा भूषणं तोषो धर्मोsनुज्ञानुपालनम् ॥४४॥वशानुवर्तनं देहयात्रा श्वश्र्वादिगौरवं ।लोकयात्रेश्वरो भता करणं पोष्यापोषणं ॥४५॥कार्यं नाज्ञां विना किंचिद्दूरात्स्थेयं स्थिते प्रिये ।सुप्तोत्थितात्प्रागुत्थाय सेव्योश्रांतं पतिर्मुदा ॥४६॥तस्मै दत्वेष्टमाप्लुत्य ग्रुहसंमार्जनादिकं ।दत्वेशायेष्टसंभारा देया: स्वादु च भोजनम् ॥४७॥क्रुद्धश्चेत्प्रार्थनीयो न गंतव्यं परसद्मनि ।नाज्ञां विना गुरोर्गेहे न व्यक्तव्यं सदेतरै: ॥४८॥मन्दं श्वश्र्वादिसामीप्ये वक्तव्यं सन्धयेशितु: ।इष्टं देहीति नो वाच्यं वक्तव्यं परवक्त्रत: ॥४९॥स्वीकार्यं वस्त्रभूषादि भर्त्रा दत्तं यदृच्छया ।न निंदो दुर्भगो दीनो दु:शीलोपि शिवोपम: ॥५०॥न कार्यं स्वैरिणीसख्यं स्वानां पार्थक्यमप्युत ।धार्या: सौभाग्योपचारा न भूषा: प्रोषिते प्रिये ॥५१॥दर्शितव्यं मुखं नर्तौ श्रोतव्यं नागमादिकं ।स्नात्वा चतुर्थेह्नि भर्ता प्रेक्ष्यो वासम्भवे रवि: ॥५२॥प्रोषितेर्च्याज्ञया स्थेयं प्रत्युद्गंतव्यमागते ।सव्रीडहावरत्यंघ्रिसेवद्यैस्तोषणीय इत् ॥५३॥सुप्तेस्मिन्च्छयनं कार्यं नोच्चार्यं पतिनाम च ॥भोक्तुं नान्यत्र गन्तव्यं याञ्चा कार्या न कुत्रचित् ॥५४॥वैषम्येपि सुखं कल्प्यं कल्प्येशे दु:खिते न मुत् ।त्याज्यमुच्चासनं लीला धवाद्यग्रे हसस्तथा ॥५५॥प्रतिवादाच्छुनी भर्तुरुलूकी गुरुवर्जनात् ।पतिं विना स्वादुभुक्त्या वराहोलूकयोनिगा ॥५६॥मूका रोषोक्त्या व्याघ्री स्यात्कृतताडनभाषिणी ।सपत्नीवैरत: स्त्री स्याद्दुर्भगा जारगा कृमि: ॥५७॥पत्यौ म्रुतेनुगंतव्यं स्थेयं वा विधवावृषे ।शवाभावे गर्भिणीत्वेsल्पेर्भे वैधव्यपालनं ॥५८॥शिरसो वपनं कार्यं भुवि शय्या सकृद्भुजि: ।वर्ज्यास्ताम्बूलगन्धादिसुभोगा मंगलाप्लुति: ॥५९॥त्याज्या: सौभाग्योपचारा धार्यं गौरांशुकं सदा ।राधमाघोर्जेषु कार्यं स्नानदानव्रतादिकम् ॥६०॥शक्तौ चांद्रायणं कार्यं भोज्यं वाज्यफलादिकं ।यत्प्रियं सति पत्यौ तद्देयं विप्राय भक्तित: ॥६१॥मासव्रतं च कल्पोक्तं कार्यं यद्यत्तु वर्जितं ।देयं विप्राय चोष्णांबु तोषणीयस्तु तैर्थिक: ॥६२॥पुत्रे तदाज्ञया स्थेयं सम्पूज्य: पतिवद्धरि: ।गुरुगोतिथिसद्विप्रा: पूयास्त्यांज्यं कुभोजनं ॥६३॥हरिलीलारति: कार्याsपूत्रया पितृतर्पणं ।गोप्यं शीलं स्वकै: साकं तद्वैगुण्यादधोगति: ॥६४॥एतद्धर्माश्रयात्साध्वी दुर्गतिरथमपि प्रियं ।प्रसह्योद्भृत्य चिल्लीव सर्पं स्वर्विशति ध्रुवं ॥६५॥लोपामुद्रे त्वत्ततोसौ सतीधर्मोत्र तारक: ।एवं जीवोक्तधर्मस्ते मयोक्त: स्वेच्छयाचर ॥६६॥भेवार्कं पतिमन्वेहि रोचतेनुगमो यदि ।स्वर्याति गौरवाद्येन प्रोद्भृत्येशं यमादपि ॥६७॥प्रत्यंघ्र्यश्चक्रतुफलं कोट्यब्दं प्रतिरोमत: ।स्वर्वास: सार्धत्रिकोटिरोमहोमात्प्रियान्वित: ॥६८॥रूपलावण्यसम्पन्ना: स्त्रिय: सन्ति गृहे गृहे ।ताभि: किं कार्यमेकैव साध्वी त्रिकुलपावनी ॥६९॥क्ष्मावातोर्कोsग्निर्बिभेति स्वत्रासोस्या भवेदिति ।तिष्ठन्ति प्रणता देवा: स्वपदच्युतिशङ्कया ॥७०॥साध्व्या इयान्प्रभावोस्ति धन्यैषा पितृतारका ।धिग्दु:शीलामध:शेते या चिरं त्रिकुलै: समं ॥७१॥॥ साध्व्युवाच ॥वैधव्यपालनं कष्टं तारुण्याद्यत्र घातकं ।प्रीतिर्धवानुगमने नूनं मे वर्धते गुरो ॥७२॥॥ साधुरुवाच ॥साधु साध्वि तदिष्टं ते मा शुचो दैवमुन्नतं ।आयुष्मद्भीष्मपौलस्त्यमुखा: कालवशं गता: ॥७३॥कालोजय्योमरैश्चापि दुर्धर: सद्गुरुं विना ।गुरुदर्शनकामाप्ता दूरात्तत्वं समाचार ॥७४॥स्नात्वा पीताम्बरं धृत्वा प्रायश्चित्तपुर:सरं ।सौभाग्यवायनान्यंग सपत्नीकद्विजेभ्य इत् ॥७५॥दत्वा श्रुत्योर्गले चेमान्बध्वाक्षान्भस्म मस्तके ।लिप्त्वांगं गुरुपादाद्भि: प्रोक्ष्येशमनुयाह्ययि ॥७६॥इत्युक्त्वां भस्म रुद्राक्षन्दत्वागात्सोपि सा द्विजान् ।आहूयादात्सुसौभाग्यदानानि बहुशो मुदा ॥७७॥प्राहानुगान्यात गृहमुमेशौ पितरौ मम ।यास्ये तत्रात्र हर्षात्स्वरिति वाच्यं गुरून्प्रति ॥७८॥इत्युक्त्वा नीयमानस्य पत्युरग्निकराग्रत: ।गच्छंती मन्थरोमेव रेजे मुद्रूपिणी सती ॥७९॥भर्तृसौख्यानभिज्ञेयं शोडशाब्दातिसुन्दरी ।कुलोद्धर्त्री सुधन्येति स्तूयमाना जनिंर्ययौ ॥८०॥श्मशानमेत्य संस्कृत्य कुंडेग्निं वायनदिभि: ।सुवासिनीस्तोषयित्वा सस्मार गुरुभाषिंत ॥८१॥लिप्त्वांगे भस्म बद्ध्वान्पत्युर्विप्राज्ञया गुरुं ।द्रष्टुकामा ययौ साध्वी संगमं तं स्तुवंत्यजम् ॥८२॥दाता सर्वेश्वरस्त्वं शरणमपि सतां त्र्यात्मको विश्वसर्ग -स्थित्यंतानां निदानं ततबिरुदचय: श्रीहरिस्त्वं दयाब्धि: ।मत्तुल्यास्त्वत्कृपाम्शात्सुपतिसुतसुखा: संति नार्योज यास्ये स्वर्भूत्वा पूर्णकामा पतिसुतमुदिता कीर्तिमादाय तेद्य ॥८३॥मृतो जीवितो रुग्ण आरोग्यमाप्तो गत: शर्म भीतोपि दीनोर्थयुक्त: ।गत: प्राज्ञतामज्ञ ईश प्रभावात् तवाहं धवाढ्यद्य सायुज्यमेष्ये ॥८४॥एवं स्तुवंती पथि सांजनाश्रुलीढस्तनस्वर्णघटा हठात्स्वां ।उद्धर्तुकामापि समं धवेन जवेन सागत्य हरिं ननाम् ॥८५॥आयांतीं प्रणतां देवस्त्वं सौभाग्यवती भव ।अष्टपुत्रा पुनश्चेति भगवान्प्रीत आह तां ॥८६॥तच्छ्रुत्वा चकिता लोका: शशंसु: सर्वमादित: ।प्रभु: प्राह न मे वाक्यं मोघं शवमिहानय ॥८७॥अत्रांतरे द्विजा एत्य रौद्यानर्चुर्गुरुं तदा ।आनीतं शवमुद्वीक्ष्य सुधादृष्टया स्वसन्निधौ ॥८८॥स्थापयित्वा स तं रौद्रमन्त्रिताद्भिस्तनुं समां ।स्नापयामास सोकस्मात्सुप्तोत्थितवदुत्थित: ॥८९॥तदा हर्षाश्रुपूर्णाक्षी लज्जितं विस्मितं पतिं ।प्रेम्णा शशंस तत्सर्वमूचतु: प्रांजली उभौ ॥९०॥आवां स्वो दुर्धियौ पापौ भवत्स्मृतिपराड्मुखौ ।तथापि त्वं दयासिंधो सच्चिदानन्द हंसि नो ॥९१॥जगद्गुरो विश्वमूर्ते परात्मन्त्राहि विश्वप ।विश्वसाक्षिन्विश्वसंस्थ सर्वानंदनिधे हरे ॥९२॥कर्ताकर्तान्यथकर्ता त्वमेवासि पुमर्थद: ।आवाभ्यामपराद्धं तत्क्षामये त्वाद्य कार्त्स्न्यत: ॥९३॥एवं तौ बहुशो नत्वा प्रणतीश्चक्रतुर्मुदा ।तच्चित्रं प्रेक्ष्य लोकोपि तुष्टाव परमेश्वरं ॥९४॥तत्रैको धूर्त आहेशं केस्ति ब्रह्मलिपिर्न वा ।नाल्पो मृत्युर्महानेष सास्ति चेज्जीवित: कुत: ॥९५॥॥ श्रीगुरुरुवाच ॥धात्रात्र लिखितं त्रिंशदायुरेष्यभवे शतं ।याञ्चयैष्य शतं त्वत्र गृहीत्वा व्यस्तमाचरम् ॥९६॥तच्छ्रुत्वा मिलिता लोका उच्चैश्चक्रुर्जयध्वनिं ।स्वर्वोसिश्रोत्रविवरविश्रांतिमधमर्षणं ॥९७॥दम्पती प्राह भगवानयुष्मन्तौ निरामयौ ।सुपुत्रधनकीर्त्याढ्यौ लोकवन्द्यौ भविष्यत: ॥९८॥श्रुत्वा गुरोर्गां प्रमुदान्वितावुभौ स्नात्वा गुरोश्चक्रतुरर्चनं तदा ।अस्तं गतोर्कोप्यज आह्निकीं क्रियां कृत्वा मठं सर्वजनै: सहाययौ ॥इति श्रीगुरुचरिते कर्मयोगे म्रुतसंजीवनं नाम तृतीयोsध्याय: ॥३॥ आदित: षोडशोsध्याय: ॥१६॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP