संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ पंचदशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ पंचदशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ पंचदशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥पतितस्य ततो जातं किमु हीनोप्यनुग्रहात् ।श्रीमद्भगवतो वेदशास्त्रज्ञोस्मीति योब्रवीत् ॥१॥॥ सिद्ध उवाच ॥प्रसादात्सद्गुरोर्ज्ञानी भूत्वाह पतितो हरिं ।ब्राह्मणस्यापि मे कस्मादध:पातोभवद्धरे ॥२॥॥ श्रीगुरुरुवाच ॥कर्मणा भ्रममाणस्य यन्त्रवत्पुण्यपापत: ।प्रकृत्यायत्तचेष्टस्य जन्तोरूर्ध्वमधोगती ॥३॥गुरुमातापितृस्त्र्यर्भधर्माचारकुलेश्वरान् ।यो जहाति मुधा सोपि जीवहिंस्रोनृतप्रिय: ॥४॥खल: कन्याश्वगोक्रेता गृहग्रामवनाग्निद: ।त्यक्तश्राद्ध: परान्नाशी: कालाप्तातिथिहापक: ॥५॥सद्विपदेवतीर्थार्च्यवेदशास्त्रादिनिंदक: ।तडागकूपारामाध्वक्रतुध्वंसी व्रताहभुक् ॥६॥श्राद्धार्च्याहांबुपर्वाह्नि स्त्रीभुग्विश्वासघातक: ।दत्तदानहर: स्वोक्तव्यस्ताचारोन्यकर्मकृत् ॥७॥स्वपुण्यपरपापास्यो दम्भाद्यै: सत्वदर्शक: ।खलहिंस्रस्तेयिसंगी घातज्ञो जारणादिकृत् ॥८॥ज्ञानं विना चिकित्साशी कर्मभ्रष्टोन्यतापकृत् ।इत्याद्या: प्रेत्य नरकं भुक्त्वा चण्डालयोनिगा: ॥९॥क्रोधी शूद्रीरतस्त्यनित्यनैमित्तिकक्रिय: ।वृषगोवृषलीसक्तो रसगोवेदविक्रयी ॥१०॥अदत्वेशं कपिलगोदुग्धपोतिनिषिद्धभुक् ।प्रतिग्रही पराजीतजीव सन्ध्याशयी कुवाक् ॥११॥इत्याद्या ब्राह्मणास्तेपि पूर्ववत्सम्भवन्ति हि ।जीवजातिमिता; सन्ति नरका एकविंशति: ॥१२॥तेषु श्रेष्ठाजीवप्रापविपाका अन्तकालये ।तेष्वंतक: क्षिपत्येतान्पापिन: पापभुक्तये ॥१३॥त्यक्त्वा पुष्टमपीह वर्ष्म कलुषी यान्यायनांगेन तृट् -क्षुच्छीतोष्णसुपीडितो यमचरैर्बद्धोयने दुर्गमे ।मूर्छन् तर्जनताडनादिभिरसन्वै वैतरिण्यर्दितो ।भुंक्ते याम्यमवाप्य राष्ट्रमवशस्तां यातनां नारकीम् ॥१४॥ततो योन्यतरे याति भुक्तदु:खोप्यघांशत: ।प्रायशो वासनाभूम्नो भूतप्रेतपिशाचतां ॥१५॥हुंतुंकाराद्गुरोर्विप्राभिभवाद्ब्रह्मराक्षस: ।गर्दभो हीनसेवी स्यात्कुक्कुटोतिथिहापक: ॥१६॥उष्ट्रोर्थहृद्वनचर: फलपत्रार्थहृद्भवेत् ।मधु दंश: पलं गृध्रोन्नमाखुश्चातको जलं ॥१७॥गन्धान् छुच्छुंदरी धान्यं शलभालिर्विषं तथा ।कृमि: कीट: पतंग: स्यात्स्वर्णं हृत्वा तृणं पशु: ॥१८॥काको निर्मन्त्रभुग्गृध्रो मित्रध्रुग्दाम्भिको बक: ।इत्याद्या बहुशो योनीर्भुक्त्वा रुग्णा भवंत्यथ ॥१९॥हृद्रोगी परहृद्भेत्ता गुरुत्यागी महामयी ।क्षयी तु ब्रह्महा कुष्ठी स्वर्णहृत्पुस्तकापहा ॥२०॥जन्मांधो विश्वासघाती वमी गण्डी गणार्थहृत् ।अपुत्रोन्यार्थहृद्वस्त्रहृछ्वित्री चानृती कुवाक् ॥२१॥गुल्म्यन्नहृत्कुरुङ्मांसभोक्ता क्कास्यस्तु तैलहृत् ।पामी पह्लादिहृछ्वित्री कांस्यकार्पासलोहहृत् ॥२२॥देवार्थहृत्पाण्डुरोगी रोगा: सर्वेत्र पापत: ।परस्त्र्यालिङ्गनाज्जन्म शतं श्वा तद्भगेक्षक: ॥२३॥अंधो बंध्वंगनाभोगी गर्दभोहिश्च दुर्धिया ।परस्त्र्यालिङ्गगनान्नूनं हृद्रोगी ह्यष्टधा रति: ।२४॥श्वा मातुलसखिस्त्रीभुक्कृमि: स्यादौपपत्यत: ।स्वैरिण्योपि स्त्रिय: श्वादियोनिं गत्वा व्यथंत्यलम् ॥२५॥इति संवादमाकर्ण्य गुरुं प्राह त्रिविक्रम: ।ज्ञानाद्वाज्ञानतो जातं कथं पापं प्रणश्यति ॥२६॥॥ श्रीगुरुरुवाच ॥पश्चात्तापेन संशुद्धि: प्रायश्चित्तादिभि: पुन: ।सदस्युच्चार्य पापं स्वं ब्रह्मदण्डं निधाय च ॥२७॥सभ्याज्ञया क्षौरपूर्वं कृतपापानुसारत: ।कृछ्राद्बादि चरेच्छक्त्याशक्तो गोर्घादिनाsशठ: ॥२८॥स्वल्पं तीर्थे दशस्नानाद्द्विशतास्वायमैरघं ।स्वर्णदानात्प्रणश्येत सद्गुरोर्दर्शनान्महत् ॥२९॥त्र्यहं दिवा त्र्यहं सायं त्र्यहमद्यादयाचितं ।नाद्यात्त्र्यहं कायकृछ्रोयुतगायत्रिकाजपात् ॥३०॥सहस्रहवनाद्वापि द्वादशद्विजभोजनात् ।गोदानाच्छक्तितोर्घाद्वाप्राजापत्य: प्राजापत्य: प्रसिद्धयति ॥३१॥द्वादशद्यु: पंचदशग्रासा भोज्या: सदा निशि ।मासाच्छुद्धि: स्वल्पभुज्या क्षीराज्याद्याशनैश्च वा ॥३२॥बिल्वाश्वत्थाब्जदर्भांवुपानात्तीर्थाटनादपि ।वाराणसीस्नानमात्राल्लीयन्ते पापकोटय: ॥३३॥अन्यतीर्थे त्वनुष्ठानाद्रामेश्वरसमीपत: ।अब्धिस्नानाद्ब्रह्महत्याकृतघ्नाद्यघसंहृति: ॥३४॥लक्षसंख्याकगायत्रीजपान्मद्यपसंशुचि: ।कोट्या ब्रह्मघ्नोष्टलक्षैर्गुरुतल्पगतस्य च ॥३५॥सप्तलक्षात्स्वर्णहर्तु: पावमानीभिरप्युत ।इन्द्रं मित्रं शुन:शेपसूक्तं पौरुषशांतिके ॥३६॥त्रिसुपर्णं नाचिकेतमघमर्षणवैष्णवे ।मासमात्रं जपेत्स्वल्पे षण्मासं च महत्यघे ॥३७॥चान्द्रायणं चरेद्ग्रासानेकैकं वर्धयेत्सिते ।पक्षेन्यके हायसेत्तै: शुचिगव्याशनेन च ॥३८॥गोमूत्रं गोमयं क्षीरं दद्धयाज्यं सकुशोदकं ।मिलित्वा मन्त्रवद्धुत्वा पिबेत्सर्वाघशांतये ॥३९॥उभौ समं ह्यन्यतरकृताघेणापि दम्पती ।लिप्यते पापिसंसर्गी सोपि पापी भवेत्सम: ॥४०॥प्रायश्चित्तानि चीर्णानि दुष्टं हरिपराड्मुखं ।नदीव सौरभाण्डं न निष्पुनंति कथंचन ॥४१॥इति त्रिविक्रमं प्रोक्त्वा पतितं प्राह सद्गुरु: ।प्राङ्मातापितृसंत्यागाल्लब्धा चण्डालतात्र ते ॥४२॥मासमात्रं नदीस्नानात्प्रेत्य विप्रो भविष्यसि ।प्राहांत्यजो योजय मां त्वद्दृक्पूतं द्विजातिषु ॥४३॥॥ श्रीगुरुरुवाच ॥भूत्वापि पतिताद्वद्धो देहस्तेसंस्कृतोशुचि: ।वदंति पतितं न त्वामन्यत्प्रोक्तं कथं त्वया ॥४४॥विश्वामित्र: पुरा क्षत्रो देवर्षित्वं तपोबलात् ।देवान्ययाचे प्रोक्तं तैर्वसिष्ठात्स्वीकुरुष्व तत् ॥४५॥वसिष्ठेनापि हीनत्वान्न दत्तं तस्तुतान्छतं ।हत्वा तं हंतुकामोभूच्छंकितो ब्रह्महत्यया ॥४६॥तदाज्ञया तपस्तप्तं तत्तु मेनकया हृतं ।विश्वामित्र: पुनस्तप्त्वा दग्धांगोभूदृषीश्वर: ॥४७॥तस्माद्भवांतरे तेस्तु ब्रह्मत्वं गच्छ तेस्तु शं ॥४८॥॥ पतित उवाच ॥जाते स्वर्णेयस: पश्चात्कुतोयस्तद्वदप्यहम् ॥४९॥तच्छ्रुत्वा श्रीगुरुर्विप्रभ्रांत्या दूरात्स्त्रियं सुतान् ।वारयंतं वीक्ष्य शिष्यमाहामुं स्नापय द्रुतं ॥५०॥तदा लुब्धद्विजेनैष स्नापित: पतित: स्वकै: ।सहागाद्विस्म्रुतप्राप्तज्ञानो हीनो निजालयं ॥५१॥॥ त्निविक्रम उवाच ॥पतितोपि कृपादृष्ट्या पावित: स्नानमात्रत: ।कथं स पूर्ववज्जातो भगवन्छिंधि संशयं ॥५२॥श्रीगुरुरुवाचक्षिप्तं भस्मार्पितं ज्ञानं विनष्टं क्षालनात्तु तत् ।इयान् भस्मप्रभाव: प्राग्वामदेवो महामुनि: ॥५३॥वने चचार तं प्रात्तुमागतो ब्रह्मराक्षस: ।स्पर्शमात्रात्प्रशांतोभूज्ज्ञाताsखिलनिजोद्भव: ॥५४॥प्राक् श्रीमत्तोस्मि राट् कामी ब्राह्मणाद्यंत्यजातिजा: ।भुक्ता: श्रेष्ठा: स्त्रियोल्पाश्च सहैकैकामनंतश: ॥५५॥हठाद्दानादिनानीय भुक्ता मद्राष्ट्रसंस्थिता: ।नरा राष्ट्रांतरं जग्मु: सस्त्रीका दोषकातरा: ॥५६॥ततो रुग्णस्य मे राज्यमाक्रांतं शत्रुभिस्तत: ।कृच्छ्रात्प्रेत्य मया भुक्ता पितृभि: सह दुर्गति: ॥५७॥प्रेतो व्याघ्रश्चाजगर: सालावृक उ सूकर: ।शरठ: श्वा क्रोष्टुमृगौ कुक्कुट: कपिचिल्लकौ ॥५८॥नकुल: काक ऋक्षश्च कुक्कुट: खर ओतुक: ।भेक: कूर्मो मत्स्य आखुर्घूको हस्तीह राक्षस: ॥५९॥एता योनीर्मया भुक्ता: कृछ्रात्क्षुत्तृट्प्रपीडित: ।त्वामत्तुमागमन् सद्य: शांतो जातोस्म्यद: कथं ॥६०॥॥ वामदेव उवाच ॥अंगे भस्मास्ति तत्स्पर्शाज्ज्ञानं जातं तवादित: ।तन्माहात्म्यमिदं यत्तु सदा प्रीत्या शिवो दधौ ॥६१॥पुरैको द्राविडे विप्र औपपत्ये हतो बहि: ।त्यक्तस्तत्रैव भस्माक्तश्वस्पर्शाद्भस्मृभूषित: ॥६२॥असून् जहौ तदा प्राप्तान्याम्यान्दूतान्निवार्य तं ।भस्मदग्धमलं शैवा दूता निन्यु: शिवांतिकं ॥६३॥॥ राक्षस उवाच ॥एवं चेद्भस्ममाहात्म्यं तत्स्वीकर्तुं समुत्सहे तन्निर्माणप्रकारं मे शंस धार्यं कथं च तत् ॥६४॥प्राग्ब्रह्मभ्योर्पिता वार्ता वाप्याद्या निर्जलस्थले ।रचितास्तत्फलं त्वेतत्पापांते तव दर्शनं ॥६५॥॥ वासुदेव उवाच ॥त्र्यक्षं सायुधपंक्तिहस्तमहिसत्सूत्रं शिवं श्वेतभंपंचास्यं च कपर्दिनं स्मितमुखं वैय्याघ्रचर्माम्बरं ।चार्वंबान्वितमिंदुभालमु शिरोगंगं गणाद्यन्वितंस्वस्थं प्रेक्ष्य सनत्कुमारमुनिराण्नत्वाब्रवीत्प्रांजलि: ॥६६॥जयेश्वरानंत हराज शम्भो जगन्निदानाल्पकसाधनं न: ।मुक्त्यै शिवोपादिश दुष्कराणि प्रोक्तानि सर्वाणि तु साधनानि ॥६७॥॥ शिव उवाच ॥दर्शनात्परिहृत्याघं भुक्त्वा शं विधिवद्धृते: ।भस्मन: पुरुषोह्नाय जीवन्मुक्तो भवत्यलं ॥६८॥यज्ञोत्थं वा करीषोत्थमग्निरित्यादिमंत्रितं ।धार्यं त्र्यायुषमित्येतैरंगुलीभि: प्रतिस्थलं ॥६९॥त्रिपुंड्रा भ्रूसमा रेख्या वर्णादिस्मृतिपूर्वकं ।त्र्यर्णास्त्रिदेवास्त्रिगुणास्त्रिरात्मानस्त्रिशक्तय: ॥७०॥त्रिछंदसस्त्रिलोकास्त्रिवेदास्त्रिषवणा: स्मृता: ।सर्वाघहृत्सदा सर्वैर्धार्यं तद्विधिवन्नरै: ॥७१॥भक्त्याज्ञेनापि तद्धार्यं तारकं नापरं ह्यत: ।परस्त्रीगोनिंदकोsसन् क्षेत्रहृत्परपीडक: ॥७२॥गृहदाही मृषावादी खलो वेदरसक्रयी ।नीचाच्च दुष्प्रतिग्राही वृषलीविधवादिग: ॥७३॥ज्ञानाज्ञानकृताsघोपि मुक्त: स्याद्भस्मधारणात् ।भस्मत्रिपुंड्ररुद्राक्षै: स्व: पूज्यो ना पुमर्थदै: ॥७४॥सहस्रप्राक्परोत्पत्तिदोषघ्नं व्याधिनाशनं ।तीर्थाप्लुतिजपाधिक्यफलदं भस्म धारकं ॥७५॥स्वरादिलोकं नीत्वांते शैवे स्थापयाति ध्रुवं ।सनत्कुमार सुलभं तारकं भस्मधारणं ॥७६॥एवं सनत्कुमारेशसंवादस्ते मयोदित: ।तस्मात्त्व परिधत्स्वांगे भस्मेत्युक्त्वा ददौ मुनि: ॥७७॥राक्षसोपि तदादाय भस्मांगे विधिवद्दधौ ।तदैव राक्षसीं हित्वा तनुं मुक्तोभवत् क्षणात् ॥७८॥तदैवाप्तं विमानं स तेनागात्तत्क्षणाद्दिवं ।तस्मान्मुने भस्मशक्तिं ज्ञात्वांगे धेहि मुच्यसे ॥७९॥एवं गुरूक्तं ह्यभिग्रुह्य ह्रुष्टो भक्त्योपसंगृह्य तमाज्ञयागात् ।त्रिविक्रमोन्येपि हि तत्प्रमाणं मत्वोत्तमं चेरुरथो तथैव ॥८०॥एवं क्रियाविपाकोयमीदृक्श्रुतिभयंकरा ।दण्डधृग्यातना तस्माच्छ्रेय एवं सदाचरेत् ॥८१॥इति श्रीगुरुचरिते कर्मयोगे कर्मविपाको नाम पंचदशोsध्याय: ॥१५॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP