प्रथम: पाद: - सूत्र २६-२७
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
रेत: सिग्योगोऽथ ॥२६॥
रेत: सिग्योगोऽथ ॥ इतश्च व्रीहयादिसंश्लेषामात्रं तद्भावो य्त्कारणं व्रीहयादिभाव स्यानन्तरमनुशयिनां रेत: सिग्भाव आन्नायते यो यो हयन्नमत्ति यो रेत: सिञ्चति तद्भूय एव भवतीति ।
न चात्र मुख्यो रेत: सिग्भाव: संभवति ।
चिरजातो हि प्राप्तयौवनो रेत: सिग्भवति कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतोऽनुशयी प्रतिपद्यते ।
तत्र तावदवश्यं रेत:सिग्योग एव रेत:सिग्भावोऽभ्युपगन्तत्य: ।
तद्वहीलादिभावोऽपि व्रीहयादियोग एवेत्यविरोध: ॥२६॥
योने: शरीरम् ॥२७॥
योने: शरीरम् ॥ अथ रेत: सिग्भावानन्तरं योनौ निषिक्ते रेतसि योनेरधिशरीरमनुशयिनामनुशयफलोपभोगाय जायत इत्याह शास्त्रं तद्य इह रमणीयचरणा इत्यादि ।
तस्मादप्यवगम्यते नावरोहे व्रीहयादिभावावसरे तच्छरीरमेव सुखदु:खान्वितं भवतीति ।
तस्मादब्राम्हीहयादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥२७॥
इति श्रीमच्छारीरक्रमीमांसाभाष्ये श्रीशङकरभगवत्पादकृतौ तृतीयाध्यायस्य प्रथम: पाद: ॥
N/A
References : N/A
Last Updated : December 19, 2014
TOP