प्रथम: पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कृतात्ययेऽनुशयवान्द्दष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥

कृतात्ययेऽनुशयवान्द्दष्टस्मृतिभ्यां यथेतमनेवं च ॥
इष्ठादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां तत: प्रत्यवरोह आन्नायते तस्मिन्यावत्संपातमुत्रित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमित्यारभ्य यावद्नमणीयचरणा ब्राम्हाणादियोनिमापद्यन्ते कपूयचरणा: श्वादियोनिमिति ।
तत्रेदं विचार्यते किं निरनुशया भुककृत्स्नकर्माणोऽवरोहन्त्याहोस्वित्सानुशया इति ।
किंतावत्प्राप्तं निरनुशया इति ।
कुत: । यावत्संपातमिति विशेषणात् ।
संपातशब्देनात्र कंर्माशय उच्यते ।
संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति ।
यावत्संपातमुषित्वेति च कृत्न्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।
तेषां यदा तत्पर्यवैतीति च श्रुत्यन्तरेणैष एवार्थ: प्रदर्श्यते ।
स्यादेतत् ।
यावदमुष्मल्लोक उपभोक्तव्यं कर्म तावदुपभुङक्त इति कल्पयिष्यामीति ।
नैवं कल्पयितुं शक्यते यत्किंचेत्यन्यत्र परामर्शात् ।
प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् ।
तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति हयप्यपरा श्रुतिर्यत्किंचेत्यविशेष्यपरामर्शॆन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयिततां दर्शयति ।
अपि च प्रायणमनारब्धफलस्य कर्मणीऽभिव्यञ्जकम् ।
प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्ते: ।
तच्चाविशेषाद्यावत्किंञ्चदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।
न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।
न हयविशिष्टे प्रदीपसंनिधौ घटोप्रभिव्यज्यते न पट इत्यु पपद्यते ।
तस्मान्निरनुशया अवरोहन्तित्येवं प्राप्ते ब्रूम: ।
कृतात्ययेऽनुशयवानिति ।
येन कर्मवृन्देन चन्द्रमसमारूढा: फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं चन्द्रमस्पुपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कात्प्रविलीयते सवितृक्तिरणसंपर्कादिव हिमकरका हुतभुगर्चि: संपर्कादिव च घृतकाठिन्यम् ।
तत: कृतात्यये कृतस्येष्टादे:  कर्मण: फलोपभोगेनोपक्षये सति सानुसया एवेममवरोहन्ति ।
केन हेतुना ।
दृष्टस्मृतिभ्यामित्याह ।
तथा हि प्रत्यक्षा श्रुति: सानुशयानामवरोहं दर्शयति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राम्हाणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां  योनिमापद्येरञ्श्चयोनिं वा सूकरयोनिं वा चण्डालयोनिं वेति ।
चरणशब्देनात्रानुशय: सूच्यत इति वर्णयिष्यति ।
दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोग: प्रविभज्यमान आकस्मिकत्वासंवादनुशयसद्भावं सूचयति ।
अभ्युदयप्रत्यवाययो: सुकृतदुष्कृतहेतुत्वस्य सामान्यत: शास्त्रेणावगमितत्वात् ।
स्मृतिरपि वर्णां आश्रमाश्च स्वकर्मनिष्ठा: प्रेत्य कर्मफलमनुभूय तत: शेषेण विशिष्टदेशजातिकुलरूपायु: - श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्त इति सानुशायानामेवावरोहं दर्शयति ।
क: पुनरनुशयो नामेति ।
केचित्तावदाहु: स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेष: कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् ।
यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते तथानुशयोऽपीति ।
ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ।
नायं दोष: ।
न हि सर्वांत्मना भुक्तफलत्वं कर्मण: प्रतिजानीमहे ।
ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढा: । बाढम् ।
तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ।
यथा किल कश्चित्सेवक: सकलै: सेवोपकरणै राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्च्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शन्कोत्येवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽस्थातुं शक्नोतीति ।
न चैतद्युक्तमिव ।
न हिस्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् ।
नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ।
तदेतदपेशलम् ।
स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वर्गच्युतस्यापि कंचित्फललेशं जनयतीति ।
न शब्दप्रमाणकानामीदृशी कल्पनाऽवकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टात्वादुपपद्यते ।
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।
न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् ।
अवश्यं चैतदेवं न स्वर्गफलस्येष्टादे: कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति ।
यदि हि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशोऽनुशय: कल्प्येत ततो रमणीय एवैकोऽनुशय: स्यान्न विपरीत: ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत तद्य इह रमणियचरणा अथ य इह कपूयचरणा इति ।
तस्मादामुष्मिकफले कर्मजात उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्बन्तोऽवरोहन्तीति ।
यदुक्तं यत्किंचेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मण: फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति ।
नैतदेवम् ।
अनुशयसद्भावस्यावगमितत्वात् ।
यत्किंचिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।
यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिल्लोके फलमारभ्यते केनचिदस्मिन्नित्ययं विभागो न संभवतीति ।
तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् ।
अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणाऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ।
आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेस्तदुपशमात्प्रायणकाले वृत्युद्भवो भवतीति यद्युच्येत ।
ततो वक्तव्यम् ।
यथैव तर्हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्यवृत्त्युद्भवानुपपत्तिरिति ।
न हयनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुम् ।
प्रतिनियतफलत्वविरोधात् ।
नापि कस्यचित्कर्मण: पायणेऽभिव्यक्ति: कस्याचिदुच्छेद इति शक्यते वक्तुम् ।
ऐकान्तिकफलत्वविरोधात् ।
न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेद: संभाव्यते ।
स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरत्य चिरमबस्थानं दर्शयति - कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति ।
मज्जमानस्य संसारे वायदु: खाद्विभुच्यत इत्येवंजातीयका ।
यदि च कृत्स्नमनारब्धफलं कर्मैक्रस्मिन्प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत तत: स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपप्ययेत ।
ब्रम्हाहत्पादीनां चैकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ।
न च धर्माधर्मयो: स्वरूपफललसाधनादिसमधिगमे शास्त्रदतिरिक्तं कारणं शक्यं संभावयितुमु ।
न च दृष्टकलस्य कर्मण: कारीर्यादे: प्रायणमभिव्यञ्जकं संभवतीत्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शननैव प्रतिनीत: ।
स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् ।
यथा हि प्रदीप: समानेऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् ।
एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवत: कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति ।
तस्माच्छुतिस्मृतिन्यायविरोधादश्लिप्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगम: ।
शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने संभ्रम: ।
स्म्यग्दर्शनादशेषकर्मक्षयश्रुते: ।
तस्मात्स्थितमेतदेवानुशयवन्तोऽवरोहन्तीति ।
ते चावरोहन्तो यथेतमनेवं चावरोहन्ति ।
यथेतमिति यथागतमित्यर्थ: ।
अनेवमिति तद्विपर्ययेणेत्यर्थ: ।
धूमाकाशयो: पितृयाणेऽध्वन्युपात्तयोरवरोहे  सकीतताद्यथेतंशब्दाच्च यथागतमिति प्रतीयते ।
रात्र्याद्यसंकीर्तर्तनादभ्राद्युपसंख्यानाच विपर्ययोऽपि प्रतीयते ॥८॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP