प्रथम: पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयति ॥७॥

कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयत्येष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्तीति ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनंस्तत्र भक्षयन्तीति च समानविषयं श्रुत्यन्तरम् ।
न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोग: संभवतीति ।
अत उत्तरं पठति ॥
भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॥
वाशाब्दश्चोदितदोषव्यावर्तनार्थ: ।
भाक्तमेषामन्नत्वं न मुख्यं मुख्ये हयन्नत्वे स्वर्गकामो यजेतेत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत ।
चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्यु: ।
अन्नशब्दश्चोपभोगहेतुत्त्वसामान्यादनन्नेऽप्युपचर्यमाणो द्दश्यते यथा विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति ।
तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदेवैषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा ।
न ह  वै देवा अश्रन्ति न पिबन्त्येतदेवामृतं द्दष्ट्वा तृप्यन्तीति च देवानां चर्वणादिव्यापारं वारयति ।
तेषां चेष्टादिकारिणां देवान्त्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् ।
अनास्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते ।
तथा हि शृतिरनात्मविदां देवोपभोग्यतां दर्शयति - अथ योऽन्यां देवतामुपास्तेऽन्योऽन्योऽसावन्योऽहमस्मीति न स वेद यथापशुरेवं स देवानासिति ।
स चास्मिन्नपि लोक इष्टादिभि: कर्मभि: प्रीणयन्पशुवद्देवानामुपकरोत्यमुष्मिन्नपि लोके तदुपजीबी तदादिष्टं फलमुपभुञ्जान: पशुवद्देवानामुपकरोतीति गम्यते ।
अनात्मवित्त्वात्तथा हि दर्शयतीत्यस्यापरा व्याख्या ।
अनात्मविदो हयेते केवलकर्मिण इष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिन: पश्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति ।
प्रकरणात् ।
पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञनप्रशंसायै ।
पञ्चाग्निविद्या हीह विधित्सिता वाक्यतात्पर्यावगमात् ।
तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति स सोमलोके विभूतिमनुभूय पुनरार्वत इति ।
तथान्यदपि श्रुत्यन्तरम ।
अध ये शतं पितृणां जितलोकानामानन्दा: स एक: कर्मदेवानामानन्दो ये कर्मणा देचत्वमभिसंपद्यन्त इतीष्टादिकारिणां देवै: सह संवसतां भोगप्राप्तिं दर्शयति ।
एर्व भाक्तत्वादन्नभाववचनस्येष्टादिकारिणोऽत्र जीवा रंहन्तीति प्रतीयते ।
तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम् ॥७॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP