संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र २५ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र २५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २५ Translation - भाषांतर अशुद्धमिति चेन्न शब्दात् ॥२५॥अशुद्धमिति चेन्न शब्दात् ॥ यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वारिकं कर्म त्स्यानिष्टमपि फलमवकल्पत इत्यो मुख्यमेवेहानुशयिनां व्रीहयादिजन्मास्तु तत्र गौणी कल्पनाऽनर्थिकेति तत्परिहिरयते ।न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ।अयं धर्गोऽयमधर्म इति सास्त्रमेव विज्ञाने कारणमतीन्द्रियत्वात्तयो: ।अनियतदेशकालनिमित्तत्वाच्च ।यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ।तेन शास्त्राद्दते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति ।शास्त्राञ्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारित: स कथमशुद्ध इति शक्यते वक्तुम् ।ननु न हिंस्यात्सर्वा भूतानीति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति ।बाढम् ।उत्सर्गस्तु स: ।अयं चापवादोऽग्नीषोमीयं पशुमालभेतंति ।उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ।तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च ।तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम ।न च श्वादिजन्मवदपि व्रीयहादिजन्म भवितुमर्हति ।तद्धि कपूयचरनानधिकृत्योच्यते नैवमिह विशेषिक: कश्चिदधिकारोऽस्ति ।अतश्वन्द्रमण्डलस्खलितामनुशयिनां व्रीहयादिसंश्चेषमात्रं तद्भाव इत्युपचर्यते ॥२५॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP