प्रथम: पाद: - सूत्र ३२
ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
न प्रयोजनवत्त्वात् ॥३२॥
न प्रयोजनवत्त्वात् ।
अन्यथा पुनश्चेतनकर्तृकत्वं जगत आक्षिपति ।
न खलु चेतन: परमात्मेदं जगद्बिम्बं विरचयितुमर्हति । कुत: ।
प्रयोजनवत्त्वात्प्रवृत्तीनाम् ।
चेतनो हि लोके बुद्धिपूर्वकारी पुरुष: प्रवर्तमानो न मन्दोपक्रमापि ताबत्प्रतत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्ट: ।
किसुत गुरुतरसंरम्भाम् । भवति च लोकप्रसिद्धयनुवादिनी श्रुति: ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यत्मनस्तु कामाय सर्वं प्रियं भवतीति ।
गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्विम्बं विरचयितव्यम् ।
यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन अत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तत्वं परमात्मन: श्रूयमाणं बाध्येत ।
प्रयोजनाभावे वा प्रवृत्त्यमावोऽपि स्यात् ।
अथ चेतनोऽपि सन्नुन्मत्तो बुद्धथपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत ।
तथा सति सर्वज्ञत्वं परमात्मन: श्रूयमाणं बाध्येत ।
तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥३२॥
N/A
References : N/A
Last Updated : December 06, 2014
TOP