संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र ४ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र ४ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४ Translation - भाषांतर न विलक्ष्णत्वादस्य तथात्वं च शब्दात् ॥४॥सावकाशत्वम् ।तद्यथाऽसङगो ह्ययं पुरुष इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्व निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ।तथा च योगैरप्यथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रह इत्येवमादिश्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रयाद्युपदेशेनानुगम्यते ।एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ।तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम ।तत्त्वज्ञनं तु वेदान्तवाक्येभ्य एव भवति नावेदविन्मनुते तं बृहन्तं तं त्वौपनिषदं पुरुषं पृच्छामीत्येवमादिश्रुतिभ्य: ॥३॥ब्रम्हास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेप: स्मृतिनिमित्त: परिहत: ।तर्कनिमित्त इदानीमाक्षेप: परिहियते ।कुत: पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाश: ।ननु धर्म इव ब्रम्हाण्यप्यनपेक्ष अगमो भवितुमर्हाति ।भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्यागममात्रप्रमेयोऽयमर्थ: स्यादनुष्ठेयरूप इव धर्म: ।परिनिष्पन्नरूपं तु ब्रम्हावगम्यते ।परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशी यथा पृथिव्यादिषु ।यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्त एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत ।द्दष्टसाधर्म्येण चाद्दष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते ।विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् ।अनुभवावसानं च ब्रम्हाविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च द्दष्टफलतयेष्यते ।श्रुतिरपि श्रोतव्यो मन्तव्य इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ।अतस्तर्कनिमित्त: पुनराक्षेप: क्रियते न विलक्षणत्वादस्योति ।यदुक्तं चेतनं ब्रम्हा जगत: कारणं प्रकृतिरिति तन्नोपपद्यते ।कस्मात् ।विलक्षणत्वादस्य विकारस्य प्रकृत्या: ।इदं हि ब्रम्हाकार्यत्वेनाभिप्रेयमाणं जगद्ब्रम्हाविलक्षणमचेतनमशुद्धं च द्दश्यते । ब्रम्हा च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ।न च विलक्षणत्वे प्रकृतिविकारभावो द्दष्ट: ।न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिका: ।मृदैव तु मृदन्विता विकारा: क्रियन्ते सुवर्णेन च सुवर्णान्विता: ।तथेदमपि जगदचतनं सुखदु:खमोहान्वितं सदचेतनस्यैव सुखदु:खमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रम्हाण: ।ब्रम्हाविलक्षणत्वं चास्य जगतोऽशुद्धाचेतनत्वदर्शनादवगन्तव्यम् ।अशुद्धं हि जगत्सुखदु:खमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ।अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् ।न हि साम्ये सत्युपकार्योपकारकभावो भवति । न हि प्रदीपौ परस्परस्योपकुरुत: ।ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तृरुपकरिप्यति । न ।स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ।यो ह्येकस्य चेतनस्य परिग्रहो बुम्हादिरचेतनभाग: स एवान्यस्य चेतनस्योपकरोति न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ।निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते ।तस्मादचेतनं कार्यकारणम् ।न च काष्ठलोष्ठादीनां चेतनत्वे किंचित्प्रमाणमस्ति ।प्रसिद्धश्चायं चेतनाचेतनविभागो लोके ।तस्मादब्रम्हाविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् ।योऽपि कश्चिदाचक्षीत श्रुत्या जगतश्चेतनप्रकृतिकतां तद्वलेनैव समस्तं जगच्चेतनमवगमिष्यामि ।प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् ।अविभावन तु चैतन्यस्य परिणामविशेषाद्भविष्यति ।यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्ठादीनामपि चैतन्यं न विभावयिप्यते ।एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते ।यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति ।प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति ।तेनापि कथंचिच्चेतनाचेतनत्वलक्षणं विलक्षणस्वं परिह्रियेत ।शुद्धयशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिहरियते ।न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह ।तथात्वं च शब्दादिति ।अनवगम्यमानमेव N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP