प्रथम: पाद: - सूत्र ५
ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥५॥
हीद लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत तच्च शब्देनैव विरुध्यते ।
यत: शब्दादपि तथात्वमवगम्यते ।
तथात्वमिति प्रकृतिविलक्षणत्वं कथयति ।
शब्द एव विज्ञानं चाविज्ञानं चेति कस्यचिद्विभागस्याचतनतां श्रावयंश्चेतनादब्रम्हाणो विलक्षणमचतनं जगच्छ्रावयति ॥४॥
ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते ।
यथा मृदब्रवीदापोऽब्रुवन्निति तत्तेज ऐक्षत ता आप ऐक्षन्तेति चैवमाद्या भूतविषया चतनत्वश्रुति: ।
इन्द्रियविषयापि ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रम्हा जग्मुरिति ते ह वाचमूचुस्त्वं न उद्रायेतीत्येवमाद्येन्द्रियविषयेति ।
अत उतरं पठति ।
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।
तुशब्द आशङकामपनुदति ।
न खलु मृदब्रवीदित्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् ।
यतोऽभिमानिव्यपदेषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् ।
कस्माद्विशेषानुगतिभ्याम् ।
विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षण: प्रागभिहित: ।
सर्वचेतनतायां चासौ नोपपद्येत ।
अपि च कौषीतकिन: प्राणसंवादे करणमात्राशङ्काविनिवृत्तये अधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिंषन्ति ।
एता ह वैदेवता अहंश्रेयसे विवदमाना इति ।
ता वा एता: सर्वा देवता: प्राणे नि:श्रेयसं विदित्वेति च ।
अनुगताश्चसर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते ।
अग्निर्वाग्भूत्वा मुखं प्राविशदित्येवमादिका च श्रुति: करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति ।
प्राणसंवादवाक्यशेषे च ते ह प्राणा: प्रजापतिं पितरमेत्योचुरिति श्रेष्ठत्व्निर्धारणाय प्रजापतिगमनं तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठयप्रतिपत्ति: ।
तस्मै बलिहरणमिति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति ।
तत्तेज ऐक्षतेत्यपि परस्या एव देवताया अधिष्ठात्र्या: स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् ।
तस्माद्विलक्षणमेवेदं ब्रम्हाणो जगाद्विलक्षणत्वाच्च न ब्रम्हाप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते ॥५॥
N/A
References : N/A
Last Updated : December 05, 2014
TOP