संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र ९ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र ९ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ९ Translation - भाषांतर न तु द्दष्टान्तभावात् ॥९॥कारणस्यापि ब्रम्हाण: कार्यस्येवाशुद्धयादिरूपप्रसङ्गात्सर्वज्ञं ब्रम्हा जगत: कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनमू ।अपि च समस्तस्य विभागस्याविभागप्राप्ते: पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् ।अपि च भोक्तृणां परेण ब्रम्हाणाऽविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम् ।अथेदं जगदपीतावपि बिभक्तमवे परेण ब्रम्हाणावतिष्ठेतैवमप्यपीतिश्च न संभवति ।कारणाव्यातिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति ॥८॥अत्रोच्यते । न तु द्दष्टान्तभावात् । नैवास्मदीये दर्शने किंचिदसामञ्जत्यमस्ति यत्तावदभिहितं कारणमपि गच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति तददूषणम् ।कस्मात् । द्दष्टान्तभावात् ।सन्ति हि द्दष्टान्ता यथा कारणमपि गच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति ।तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुञ्चावचमध्यमप्रभेदा: सन्त: पुन: प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति ।त्वत्पक्षस्य तु न कश्चिदद्दष्टान्तोऽस्ति । अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत ।अनन्यत्वेऽपि कार्यकारणयो:अ कार्यस्य कारणात्मत्वं न तु कारणस्य कार्यात्मत्वमारम्भणशब्दादिभ्य इति वक्ष्याम: ।अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति । स्थितावपि समानोऽयं मुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ।स्थितावपि समानोऽयं प्रसङ्ग: कार्यकारणयोरनन्यत्वाभ्युपगमात् ।इदं सर्वं यदयमात्मा आत्मैवेदं सर्वं ब्रम्हौवेदममृतं पुरस्तात्स्वर्वं खल्विदं ब्रम्होवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते ।तत्र य: परिहार: कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तै: कारणं संसृज्यत इत्यपीतावपि स समान: ।अस्ति चायमपरो द्दष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यतेऽवस्तुत्वादेव परमात्मापि संसारमायया न संस्पृश्यत इति ।यथा च स्वप्नद्दशेक: स्वप्रदर्शनमायया न संस्पृश्यत इति प्रबोधसंप्रसादयोरनन्वागतत्वादेवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।मायामात्रं हयेतत्परमात्मनोऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति ।अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यौ: ।अनादिमायया सुप्तो यदा जीव: प्रबुध्यते ।अजमनिद्रमस्वप्रमद्वैत बुध्यते तदेति ॥तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् ।यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्ते: पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति ।अयमप्यदोष: । ष्टान्तभावादेव ।यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुन: प्रबोध विभागो भवत्येवमिहापि भविष्यति ।श्रुतिश्चात्र भवति ।इमा: सर्वा: प्रजा: सति संपद्य न विदु: सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशकोवा यद्यद्भवन्ति तदा भवन्तीति ।यथा हयविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहार: स्वप्नवदव्याहत: स्थितौ द्दश्यत एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते ।एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्ग: प्रत्युक्त: ।सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् ।य: पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितोऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रम्हाणावतिष्ठेतेति सोऽप्यनभ्युपगमादेव प्रतिषिद्ध: ।तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥९॥ N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP