चाटुप्रवाहवीचयः - सुभाषित १६२१ - १६४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
५१. सवीर्यकीर्तिः
वीरक्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुसस्
त्वत्कीर्तेस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः ।
स्यादेवं त्वदरातिसौधशिखरप्रोद्भूतशष्पाङ्कुर
ग्रासव्यग्रमनाः पतेद्यदि पुनस्तस्याङ्कशायी मृगः ॥१६२१॥
शाक्यरक्षितस्य । (सूक्तिमुक्तावलि ९७.३०)
निःसृत्याहवसागरादथ पुनः संसृत्य पृथ्वीतलं
कृत्वाधो हिमशैलमीश्वरशिरःशीतांशुलेखामपि ।
गङ्गेव स्मृतजन्मभूमिरमरैः साश्चर्यमालोकिता
कीर्तिस्ते प्रतिलोमलङ्घितवियद्ब्रह्माण्डमारोहति ॥१६२२॥
वाक्पतेः । (सूक्तिमुक्तावलि ९७.४४)
आसीदुप्तं यदेतद्रणभुवि भवता वैरिमातङ्गकुम्भान्
मुक्ताबीजं विमुक्तं त्रिजगति जनयामास कीर्तिद्रुमं ते ।
शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं
ज्योत्स्ना शाखाप्रतानः कुसुममुडुचया यस्य चन्द्रः फलं च ॥१६२३॥
हरेः । (सु.र. १००६)
एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली
कान्ताकण्ठे हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः ।
कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य्
एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ॥१६२४॥
रामस्य ।
सा चन्द्रादपि चन्दनादपि दरव्याकोषकुन्दादपि
क्षीराब्धेरपि शेषतोऽपि फणिनश्चण्डीशहासादपि ।
कर्णातीसितदन्तपत्रमहसोऽप्यत्यन्तमुद्द्योतिनी
कीर्तिस्ते भुजवीर्यनिर्जितरिपोर्लोकत्रयं भ्राम्यति ॥१६२५॥
राजशेखरस्य । (सु.र. ९९७)
५२. प्रशस्तकीर्तिः
अन्तःसन्तोषबाष्पैः स्थगयति नयनं न श्रुतिभ्रंशभीरुर्
नाङ्गेनानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः
शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥१६२६॥
कविपण्डितश्रीहर्षस्य । (ण्च्१२.३९, सूक्तिमुक्तावलि ९७.२४)
क्षीरोदन्वानलीकः कपटमयतनुस्त्र्यम्बकस्याट्टहासो
मिथ्यानीहारसम्पत्त्रिभुवनविवरे कृत्रिमा पौर्णमासी ।
संवृत्ताम्भोदवृन्दस्फुरदूरुकरकासारसंदेहदायी
दायादः कुन्दभासां दिशि विदिशि बभौ यस्य कीर्तिप्रतानः ॥१६२७॥
वसुकल्पस्य ।
कैलासे निह्नुतश्रीः परिफितवपुः पार्वणः श्वेतभानुः
शेषः प्रच्छन्नवेशः कलयति न रुचिं जाह्नवीवारिवेणिः ।
पीतः क्षीराम्बुराशिः प्रसभमपहृतः कुञ्जरो देवभर्तुर्
यत्कीर्तीनां विवर्तैरजनि स भगवानेकदन्तोऽप्यदन्तः ॥१६२८॥
श्रीमत्केशवसेनदेवस्य ।
यद्वर्त्मोद्याति रोद्धुं त्रिपुरहरगिरिग्रामणीस्तन्नियन्तुं
कौवेरीं कुम्भजन्मा व्रजति यदि तदा दुर्धरा विन्ध्यवृद्धिः ।
इत्थं यत्कीर्तिराशौ तिर्दशपतिपुराक्रान्तिदत्तप्रयाणे
चिन्ताग्निः क्रूरकर्मा व्यथयति हृदयं तेजसामीश्वरस्य ॥१६२९॥
तस्यैव ।
मलिनयति वैरिवदनं स्वजनं रञ्जयति धवलयति धात्रीम् ।
अपि कुसुमविशदमूर्तिर्यत्कीर्तिश्चित्रमाचरति ॥१६३०॥
जयदेवस्य ।
५३. कीर्तिगीतिः
लीलालोलकराङ्गुलीहतिरणद्वीणागुणप्रोच्चरद्
गान्धारध्वनिसंवदन्मृदुकलास्निग्धस्वरोद्गारिभिः ।
लोलन्मौलिक्भिरर्धमीलितलसन्नेत्रैर्बलद्भूलतैर्
गीयन्ते गगनेचरैः सुरपतेरग्रे भवत्कीर्तयः ॥१६३१॥
सुरभेः ।
भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसङ्गीतगोष्ठीषु ते
कीर्तिं देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते ।
रक्ताभिः सुरसुन्दरीभिरभितो गीतां तु कर्णद्वयी
दुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥१६३२॥
मुरारेः । (आर्७.७९; स्व२६३८)
गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्वयं
तुष्टा एव परं तु चेतसि चमत्कारोऽयमारोहति ।
तासां तादृशभावभङ्गिवलना संस्थानसंदर्शिनि
व्यालेन्द्रे रसधूतमूर्धनि महीचक्रं पुनर्भ्रंक्ष्यते ॥१६३३॥
तस्यैव ।
अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्ज्वलां
उच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः ।
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद
स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥१६३४॥
तस्यैव । (सु.र. १००७)
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्
मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ॥१६३५॥
कविपण्डितश्रीहर्षस्य । (Kउवल्, प्. १४६, ण्च्१२.१०६)
५४. उच्चावचचाटुः
अभ्युद्धृता वसुमती दलितं रिपूरः
क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना
जन्मत्रये यदकरोत्पुरुषः पुराणः ॥१६३६॥
श्रीहनूमतः । (स.क.आ. १.९८, V ४७१, सूक्तिमुक्तावलि ९७.५)
कर्णं चक्षुरजीगणत्तव पितुस्तातः पिता ते पुनः
शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः ।
देवोऽगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः
प्रागल्भ्यं प्रथयन्ति वस्तदपि च प्रज्ञाधनाः साधवः ॥१६३७॥
विद्यापतेः ।
प्रभुरसि वयं मालाकारव्रतव्यवसायिनो
वचनकुसुमं तेनास्माभिस्तवादरढौकितम् ।
यदि तद्गुणं कण्ठे मा धास्तथोरसि मा कृथा
नवमिति कियत्कर्णौ धेहि क्षणं फलतु श्रमः ॥१६३८॥
वीर्यमित्रस्य । (सु.र. १४१८)
वक्त्रं साक्षात्सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्ति राजन्
स्वच्छेऽतो मानसेऽस्मिन्नवतरति कथं तोयलेशाभिलाषः ॥१६३९॥
हरिश्चन्द्रस्य ।
देवः कुप्यतु वा विचिन्त्य विनयं प्रीतोऽस्तु वा मादृशैर्
वाञ्छद्भिः प्रभुकीर्तिमप्रतिहतां वक्तव्यमेवोचितम् ।
सेवाभिर्यदि सेनवंशतिलकादासादनीयाः श्रियः
संकल्पानुविधायिनः सुरतरोस्तत्केन हार्यो मदः ॥१६४०॥
शरणदेवस्य ।
श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते तृतीयोऽयम् ।
चाटुप्रवाह ईप्सितफलप्रदो भवतु संततं कृतिनाम् ॥
इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।
चाटुप्रवाहो नाम तृतीयः । वीचयः ५४ । श्लोकाः २७० ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP