चाटुप्रवाहवीचयः - सुभाषित १३८१ - १४००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३. विद्या

वाचं निष्प्रथयन्ति मेयमखिलं पुष्णन्ति मुष्णन्ति च
प्रज्ञालाञ्छनमद्वयं प्रसुवते सारस्वतः ब्राह्मणः ।
सौभाग्यं दुहते श्रियं विदधति श्वः श्रेयसे तन्वते
भिन्दन्ति भ्रममुक्तयस्तव सतामष्टौ महासिद्धयः ॥१३८१॥

भट्टवामदेवस्य ।

जाताः स्मः प्रतिवेशिनः पदविदां जानन्ति नः श्रोत्रियाः
षट्कर्माध्वनि गच्छतां च विदुषां सार्थे प्रपन्ना वयम् ।
दृष्टाः स्मः कविविद्यया मुकुलितैर्नत्रत्रिभागैश्चिरं
किं विद्मः कियदन्यथास्तु निकषग्रावा भवादृग्जनः ॥१३८२॥

विद्यापतेः ।

अग्राह्यं श्रवणस्य भूषणमलङ्कारो न भावोचितः
कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुम् ।
वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये नाभव
सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥१३८३॥

शुक्षोकस्य ।

कश्चिद्वाचो रचयितुमलं वोढुमेवापरस्ताः
सा कल्याणी मतिरुभयथा विस्मये नस्तनोति ।
नन्वेकस्मिन्नतिशयवतां सन्निवेशो गुणानाम्
एकः सूते कनकमनलस्तत्परीक्षाक्षमोऽन्यः ॥१३८४॥

कालिदासस्य । (सु.र. १७२३)

देवः सर्वविवेचनैकनिपुणो देवः कवित्वे गुरुर्
देवस्तर्कनिशातनिर्मलमतिः श्रीराजचूडामणिः ।
इत्याकर्ण्य विजृम्भमाणपुलकस्फीता विरिशेर्मुखाः
सङ्गेष्वद्य सरस्वती … कृच्छ्रेण संमास्यति ॥१३८५॥

वसुकल्पस्य ।
४. गुणः

आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेर्
अस्मत्सङ्कथनेन पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
इत्थं खिन्न इवात्ययेन यशसा दत्तोऽवलम्बोऽम्बुधेर्
यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥१३८६॥

श्रीहनूमतः । (सु.र. १४३३, सूक्तिमुक्तावलि ९७.१४)

सूर्यो धामवतां न किं न किमयं प्रह्लादकश्चन्द्रमा
गम्भीरो न किमम्बुधिः क्षितिभृतां रामः स जेता न किम् ।
किं त्वेकैकगुणस्तुतौ न हि वयं शक्तास्तदेतद्गण
श्रोत्èणां सुमहोत्सवाय नृपते त्वामेकमेव स्तुमः ॥१३८७॥

च्छित्तिपस्य ।

एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः
शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः ।
शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः
प्रालेयाचलबन्धवस्तव गुणाः कैर्नेह कर्णार्पिताः ॥१३८८॥

हरेः ।

देवस्य त्रिपुरारिहासमहसि प्रस्तूयमाने गुणे
प्रीत्या च श्रुतिकौतुकेन च बलादाकृष्यमाणः स्वयम् ।
एकं संनतपक्ष्म पन्नगपतिर्धत्ते सहस्रं दृशाम्
अन्यन्मन्थरतारकाविलुठनादत्यन्तविस्फारितम॥१३८९॥

कस्यापि ।

मेरुर्दण्डो यदि च पटलं मेदिनीमण्डलं स्याच्
छेषः सूत्रं समधरणमप्येष विन्ध्यो महीध्रः ।
तन्माता च त्रिपुरविजयी केशवो वा यदा स्याद्
उन्मीयेत क्षितिपतनय त्वद्गुणानां समूहः ॥१३९०॥

प्रवरसेनस्य ।


५. धर्मः

भ्रान्तं येन चतुर्भिरेव चरणैः सत्याभिधाने युगे
त्रेतायां त्रिभिरङ्घ्रिभिः कथमपि द्वाभ्यां ततो द्वापरे ।
न स्यास्त्वं यदि देव पङ्गुलगुङ्दः काले कलावुत्कले
सोऽयं पङ्गुरवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥१३९१॥

कस्यचित। (सु.र. १४५५, चित्तूकस्य)

उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस्
तां निर्माय कृतस्त्वया पुनरपि न्यस्तः पदस्यन्दनः ।
भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं
श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ॥१३९२॥

आचार्यगोपीकस्य ।

पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना केन तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्
दधावधर्मोऽपि कृशस्तपस्विताम् ॥१३९३॥

श्रीहर्षस्य । (ण्च्१.७)

यूपैरुत्कटकण्टकैरिव मखप्रोद्भूतधूमोद्गमैर्
अप्यन्धंकरणौषधैरिव पदे नेत्रे च जातव्यथैः ।
यस्मिन्धर्मपरे प्रशासति तपःसंभेदिनीं मेदिनीम्
आस्तामाक्रमितुं विलोकितुमपि व्यक्तं न शक्तः कलिः ॥१३९४॥

जयदेवस्य ।

अश्रान्तविश्राणितयज्ञयूप
स्तम्भावलीर्द्रागवलम्बमानः ।
यस्य स्वभावाद्भुवि संचचार
कालक्रमादेकपदोऽपि धर्मः ॥१३९५॥

उमापतिधरस्य ।


६. रूपं

श्रीमद्रूपविटङ्कदेव सकलक्ष्मापालचुडामणे
युक्तं संचरणं यदत्र भवतश्चन्द्रेण रात्रावपि ।
मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाविलक्षः शशी
मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥१३९६॥

त्रिभुवनसरस्वत्याः ।

आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां
कोषः शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः ।
निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्तत्तनू
शेषः केशमयः किमन्धतमसस्तोमैरभून्निर्मितः ॥१३९७॥

श्रीहर्षस्य ।

एतत्ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं
नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः ।
भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी
न ध्यायन्तु कथं नु देव कथय त्वामेकमेणीदृशः ॥१३९८॥

हरेः ।

किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न
श्रान्ता किं न न संन्निपातलहरीप्रच्छर्दिता किं न न ।
तत्किं मुह्यति रोदिति श्वसिति च स्मेरं च धत्ते मुखं
दृष्टः किं कथमप्यकारणरिपुः श्रीभोजदेवोऽनया ॥१३९९॥

छित्तपस्य । (सु.र. ७४९)

रूपासवं तव नृपेन्द्र यदेणनेत्रा
मात्रां व्यतीत्य नयनाञ्जलिभिः पिबन्ति ।
स्वेदच्छलादथ वमन्ति कदम्बकल्पैः
रङ्गैरनङ्गशरजर्जरितैर्भ्रमन्ति ॥१४००॥

शङ्करदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP