संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|चाटुप्रवाहवीचयः| सुभाषित १५२१ - १५४० चाटुप्रवाहवीचयः चाटुप्रवाहवीचयः सुभाषित १३७१ - १३८० सुभाषित १३८१ - १४०० सुभाषित १४०१ - १४२० सुभाषित १४२१ - १४४० सुभाषित १४४१ - १४६० सुभाषित १४६१ - १४८० सुभाषित १४८१ - १५०० सुभाषित १५०१ - १५२० सुभाषित १५२१ - १५४० सुभाषित १५४१ - १५६० सुभाषित १५६१ - १५८० सुभाषित १५८१ - १६०० सुभाषित १६०१ - १६२० सुभाषित १६२१ - १६४० चाटुप्रवाहवीचयः - सुभाषित १५२१ - १५४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १५२१ - १५४० Translation - भाषांतर ३१. चापःज्यां बिभ्रद्भुजगो भुजङ्गमयुवा चापस्तवास्मिन्पुनःशेते कुण्डलिते विपक्षकषणो नाराचनारायणः ।बिभ्राणा हृदयेन यं क्षणमपि क्षोणीभुजो भेजिरेभित्त्वाम्भोरुहबन्धुबिम्बमचिरादानन्दसान्द्रं महः ॥१५२१॥आचार्यगोपीकस्य ।यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रताम्अस्मिन्नेव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणंविख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥१५२२॥कविपण्डितश्रीहर्षस्य । (ण्च्१२.९७, स्व२५०८)भुजेऽपसर्पत्यपि दक्षिणे गुणंसहेषुणादाय पुरः प्रसर्पिणे ।धनुःपरीरम्भमिवास्य संमदान्महाहवे यच्छति वामबाहवे ॥१५२३॥तस्यैव । (ण्च्१२.६४, स्व२५२५)भ्रूचापप्रहितेन दृष्टिविशिखेनैवास्य विद्वेषिणोध्वस्ताः पूर्वमतस्तदीयदलने संभावि मे दुर्यशः ।इत्यालोच्य कराम्बुजार्चितमपि न्यस्तं पुरस्तादपिद्राग्जातं समरेषु यस्य निविडव्रीडाविनम्रं धनुः ॥१५२४॥गोतिथीयदिवाकरस्य ।प्रागष्टादशपर्व भारतमिदं निर्माय कर्माद्भुतंभूपानामनपायपौरुषमिह व्यासेन यत्कीर्तितम् ।संग्रामाङ्गणसीम्नि सम्यगधुना देव त्वदीयो भुजस्तत्पर्वत्रयबन्धुरेण धनुषा व्याकर्तुमेष क्षमः ॥१५२५॥जलचन्द्रस्य ।३२. प्रयाणम्नृपतिमुकुटरत्नं त्वत्प्रयाणप्रशस्तिंप्रबलभरनिमज्जद्भूधराक्रान्तभोगः ।लिखति दशनटङ्कैरुत्पतद्भिः पतद्भिर्जरठकमठभर्तुः कर्परे सर्पराजः ॥१५२६॥त्रिपुरारिपालस्य ।दिग्यात्रासु तदीयसैनिकभरक्षुब्धाब्धिकोलाहलत्रस्तश्रीपरिरम्भमीलितदृशो देवस्य कंसद्विषः ।सस्वेदालसपाणिपल्लवगलत्कौमोदकीमादराद्उद्गम्यानमत्फणः फणभृतां भर्ता बिभर्ति क्षितिम् ॥१५२७॥तस्यैव ।राजन्दुःसहदोःप्रतापदलिताशेषक्षितीशस्य तेवेलालोकनकौतुकेन भवतः कोऽयं प्रयाणे रसः ।यद्दन्तीन्द्रचमूमहाभरनमन्नेमिः क्रमादेकतोभूरन्यत्र समुन्नता फणिपतेर्मौलौ न वर्तिष्यते ॥१५२८॥गदाधरनाथस्य ।ते दिक्पालविलासिनीकुचतटे कस्तूरिकाकान्तयोवैरिस्त्रीवदनेषु साञ्जनगलन्नेत्राम्बुमैत्रीधराः ।स्वर्गङ्गाकमलेषु भृङ्गरुचयो यस्य प्रयाणे बभुर्निर्धूताः पवनेन मत्तकरिणां दानाम्भसां बिन्दवः ॥१५२९॥विश्वेश्वरस्य ।अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् ।निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानतां निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत॥१५३०॥महोदधेः । (सु.र. १४२८)३३. भोगावलीराजन्नुद्दामनिद्राभरविवशभुजावल्लरीणामिदानींविश्राम्यन्तु त्वदन्तःपुरहरिणदृशां चामरभ्रामणानि ।सेवन्ते देवमेते तुहिनकणभृतः सौधजालान्तरालप्राप्ताः प्रत्यग्रजाग्रन्नलिनवनरजोग्राहिणो गन्धवाहाः ॥१५३१॥उमापतिधरस्य ।भिन्दानः सुन्दरीणां पतिषु रुषमयं हर्म्यपारावतानांवाचालत्वं दधानः कवितृषु च गुणं प्रातिभं सन्दधानः ।प्रातस्त्यस्तूर्यघोषः स्थगयति गगनं मांसलः पांशुतल्पाद्अस्वल्पादुत्थितानां नरवर करिणां शृङ्खलशिञ्जितेन ॥१५३२॥राजशेखरस्य । (वि.शा.भ. १.१२, स्व२२२३, शा.प. ३७२२)निद्राजिह्मदृशः सखीष्वपि सवैलक्ष्या नखाङ्कव्रणव्यादष्टांशुखलेखया प्रतिपदं सीत्कारिवक्त्रेन्दवः ।त्वत्सेवासमुपागतक्षितिभुजां निर्यान्ति लीलागृहाद्एताः प्रौढरतिश्रमप्रशिथिलैरङ्गैः कुरङ्गीदृशः ॥१५३३॥धोयीकस्य ।अम्लानस्तवकन्ति कुन्तलभरे सीमन्तसीमास्विमाः सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ॥१५३४॥साञ्चाधरस्य । उत्कर्णं करिणां गणेन विकसन्मोदं चिराद्बर्हिभिःक्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनम् ।कुञ्जोत्सङ्गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात्पीतः श्रोत्रपुटेन देव परितः प्रातर्मृदङ्गध्वनिः ॥१५३५॥तस्यैव । ३४. तूर्यध्वनिःहेरम्बध्वनिडम्बरप्रतिनिधिः क्रीडन्नृपञ्चाननक्ष्वेडोत्पीडसुहृन्नदीपतिनदद्वेलोमिगर्जासखः ।संवर्ताम्बुदवृन्दमन्दरसितस्पर्धी तवायं मृधेशत्रुश्रोत्रदरीषु मूर्च्छति चमूभेरीरवो भैरवः ॥१५३६॥हरेः ।देव त्वद्विजयप्रयाणसमये ढक्का हताः सैनिकैर्मन्द्रं दध्वनुरद्रिकुक्षिषु जरत्पारीन्द्रनिद्राद्रुहः ।तन्वाना मलयाद्रिषु प्रतिरवं ध्यानक्षतिं योगिषुक्रोधं दिक्करिषु प्रकम्पमरिषु त्रासं रवेर्वाजिषु ॥१५३७॥कस्यचित।गुञ्जत्क्रौञ्चनिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वराःप्राक्प्रत्यग्धरणीन्द्रकन्दरजरत्पारीन्द्रनिद्राद्रुहः ।लङ्काङ्क त्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजयेयस्य भ्रेमुरमन्दमन्दररवैराशारुधो घोषणाः ॥१५३८॥जयदेवस्य । (सु.र. १५६७)यस्याविर्भूतभीतिप्रतिभटपृतनागर्भिणीभ्रूणभारभ्रंशभ्रेशाभिभूत्यै प्लवनमिव भजन्नम्भसाम्भोनिधीनाम् ।संभारं सम्भ्रमस्य त्रिभुवनमभितो भूभृतां बिभ्रदुच्चैःसंरम्भोज्जृम्भणाय प्रतिरणमभवद्भूरिभेरीनिनादः ॥१५३९॥तस्यैव ।विघट्टयन्नेष हठादकुण्ठवैकुण्ठकण्ठीरवकण्ठगर्जाम् ।भयङ्करो दिक्करिणां रणाग्रेभेरीरवो भैरवदुःश्रवस्ते ॥१५४०॥तस्यैव । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP