चाटुप्रवाहवीचयः - सुभाषित १४४१ - १४६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१५. देशाश्रयः
भूपालाः शशिभास्करान्वयभुवः के नाम नासादिता
भर्तारं पुनरेकमेव हि भुवस्त्वामेव मन्यामहे ।
येनाङ्गं परिमृद्य कुन्तलमपाकृष्य व्युदस्यायतं
चोलं प्राप्य च मध्यदेशमचिरात्काञ्च्यां करः पातितः ॥१४४१॥
विद्यायाः ।
हेलानिर्जितकामरूप सहसा कृत्वाकुलान्कुन्तलांश्
चोलध्वंसनमङ्गमर्दनमपि द्रागेव सम्पाद्यते ।
निर्जित्यैव च मध्यदेशमचिरात्काञ्च्यां करः पातितो
नित्वैवं वशतां प्रियेण भवताभीकेन भूर्भुज्यते ॥१४४२॥
शब्दार्णवस्य ।
देव त्वं किल कुन्तलग्रहरुचिः काञ्चीमपासारयन्
क्षिप्तः क्षिप्तकरग्रहः प्रहणनं प्रारब्धमङ्गेष्वपि ।
इत्याकूतजुषस्तव स्तवकृता वैतालिकेनोदिते
लज्जन्ते प्रमदाः परस्परमभिप्रेक्ष्यारयो बिभ्यति ॥१४४३॥
कस्यचित। (सु.र. १४३०)
भ्रूक्षेपाद्गौडलक्ष्मीं जयति विजयते केलिमात्रात्कलिङ्गांश्
चेतश्चेदिक्षितीन्दोस्तपति वितपते सूर्यवद्दुर्जनेष ।
स्वेच्छान्म्लेच्छान्विनाशं नयति विनयते कामरूपाभिमानं
काशीभर्तुः प्रकाशं हरति विहरते मूर्ध्नि यो मागधस्य ॥१४४४॥
शरणदेवस्य ।
त्वं चोलोल्लोललीलां कलयसि कुरुषे कर्षणं कुन्तलानां
त्वं काञ्चिन्यञ्चनाय प्रभवति रभसादङ्गसङ्गं करोषि ।
इत्थं राजेन्द्र वन्दिस्तुतिभिरुपहितोत्कम्पमेवाद्य दीर्घं
नारीणामप्यरीणां हृदयमुदयते त्वत्पदाराधनाय ॥१४४५॥
जयदेवस्य ।
१६. दानं
कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास्
तृणमपि गुणप्रीतः प्रादान्न कोऽपि विपश्चिताम् ।
अयमिह परं दुःखज्वालाकलापमखण्डयत्
कनकपयसां धारादण्डैरकाण्डघनाघनः ॥१४४६॥
सिल्हनस्य ।
पूर्णोऽग्रे कलसो विलासवनिता स्मेरानना कन्यका
दानक्लिन्नकपोलपद्धतिरिभो गौरद्युतिर्गौर्वृषः ।
क्षीरिक्ष्मारुहि वायसो मधुरवाग्वामा शिवेति ध्रुवं
त्वां प्रत्युच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्यर्थिनाम् ॥१४४७॥
परमेश्वरस्य । (सु.र. १४४९)
विस्तीर्णः परिपन्थिकण्टकशतास्तीर्णो दुरध्वान्तरः
क्रूरश्वापदकोटिसङ्कटशिला शैलाटवी लङ्घिता ।
प्राप्ता त्वत्कटकोपकण्टतटिनी दत्तो निवापाञ्जलिर्
दारिद्र्याय नकारमूकनृपते दुष्टोऽसि तुष्टा वयम् ॥१४४८॥
राजोकस्य ।
वासः स्वर्णगृहेषु सख्यममरैः कल्पद्रुमाणां वने
क्रीडा स्वर्गवधूगणैः सह सुधाकण्ठं मुदा पीयते ।
रुष्टेनेदमकारि देव भवता हत्वा रणे वैरिणां
तुष्टः प्रेष्यजनाय वेद्मि न परं गौडेन्द्र किं दास्यसि ॥१४४९॥
धर्मयोगेश्वरस्य ।
त्वन्नेत्रेऽपि तवाननेऽपि भवतः पाणावपि त्वत्पदेऽप्य्
अस्ति स्मेरसरोजसौहृदसमाकृष्टैव पद्मालया ।
यन्नीता निजभावमर्थिभिरसौ त्वद्दृष्टिपातैस्त्वदा
देशात्त्वत्करविभ्रमैरपि भवत्पादप्रसादादपि ॥१४५०॥
शरणस्य ।
१७. दरिद्रभरणम्
येषां वेशमसु कम्बुकर्परचलत्तर्कुध्वनिर्दुःश्रवः
प्रागासीन्नरनाथ संप्रति पुनस्तेषां तवानुग्रहात।
षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण
श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥१४५१॥
भासोकस्य । (सु.र. १३९४, कस्यचित्)
कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां
येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं
क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥१४५२॥
शुभाङ्कस्य । (सु.र. १३९०)
बालास्तालमहीरुहो घनदलस्निग्धा गृहप्राङ्गणे
सूक्ष्मेभ्यस्तव सन्दिशन्ति सुचिरं जीव प्रसन्ने त्वयि ।
कर्णालङ्कृतकेन कोमलदलं मुञ्चन्ति नो निर्दया
निःस्वश्रोत्रियवल्लभाः श्रुतियुगे हैमस्फुरत्कुण्डलाः ॥१४५३॥
उमापतेः ।
उच्छिद्राणि दिगम्बरस्य वसनान्यर्धाङ्गिनास्वामिनो
रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः ।
पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा
लक्ष्मीं न व्यतनोद्दरिद्रभरणेष्वज्ञो हि सेनान्वयः ॥१४५४॥
उमापतिधरस्य ।
मुक्ताः कार्पासबीजैर्मरकतशकलं शाकपत्रैरलावू
पुष्पै रूप्याणि रत्नं परिणतिभिदुरैः कुक्षिभिर्दाडिमीनाम् ।
कुष्माण्डीवल्लरीणां विकसितकुसुमैः काञ्चनं नागरीभिः
शिक्ष्यन्ते त्वत्प्रसादाद्बहुविभवजुषां योषितः श्रोत्रियाणाम् ॥१४५५॥
तस्यैव ।
१८. अतिदानम्
कूजत्कोकिलकाकलीश्रुतिसुखी निद्राति कल्पद्रुमस्
तृप्ता बालतृणेन कामसुरभी रोमन्थमभ्यस्यति ।
दातुं नाथ सदा समीहितफलं लग्नोऽसि नेत्रेऽर्थिनां
बद्धस्तर्हि चिराय रोहणगिरेष्टङ्कव्रणेरङ्कुरः ॥१४५६॥
कामदेवस्य ।
अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः
सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक
श्रेणीवर्जनदुर्यशोनिविडितव्रीडस्तु रत्नाचलः ॥१४५७॥
श्रीहर्षस्य । (ण्च्१२.६७, स्व२५१७)
जाने विक्रमवर्धन त्वयि धनं विश्राणयत्यर्थिनां
भावी शोण इवोपलैरुपचितो रत्नैरगाधोऽम्बुधिः ।
उत्पश्यामि च रोहणैर्मणिभरैर्बाष्पायमाणोदरः
पाकोत्पीडितदाडिमीफलदृशां कैश्चिद्दिनैर्यास्यति ॥१४५८॥
डिम्बोकस्य । (सु.र. १४३७)
भ्रातश्चक्र व्यपनय शुचं प्रेयसीविप्रयोगाद्
आधिव्याधिर्न खलु रजनीं प्राप्य भावी पुनस्ते ।
दानैर्नान्यः कलय कुरुते कांचनाद्रेः समाप्तिर्
भाविन्यस्मद्दिनकतिपयैर्वासराद्वैतसिद्धिः ॥१४५९॥
सागरस्य ।
अन्विष्यद्भिरयं चिरात्कथमपि प्रार्थ्येत यद्यर्थिभिर्
नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात्समन्विष्यसि ।
प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं
त्वामालोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ॥१४६०॥
छित्तिपस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP