चाटुप्रवाहवीचयः - चाटुप्रवाहवीचयः

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


चाटुः संमुखचाटुर्विद्यागुणधर्मरूपमथ दृष्टिः ।
भुजकरचरणं प्रेयोऽभिधानमत्युक्तिचित्रोक्ती ॥१॥
अपि कार्यगती देशाश्रयौ च दानं दरिद्रभरणं च ।
अतिदानमपि च विक्रमपौरुषशौर्यप्रतापतेजांसि ॥२॥
गजवाजिनावनीकं खड्गोद्भुतखड्गकुपितकृपाणौ ।
चापं प्रयाणभोगावलितूर्यस्वानसैनिकरजांसि ॥३॥
अश्वरजोरणधूलिर्युद्धं युद्धस्थली च दिग्विजयः ।
रिपुरिपुनगरीसम्भ्रमवैरिवधूवैरियोषिदश्रूणि ॥४॥
अरिनगरवैरिभवने यशसा वीर्यं यशः प्रशस्तयशः ।
कीर्तिः सवीर्यकीर्तिः प्रशस्तकीर्तिश्च कीर्तिगीतिश्च ॥५॥
उच्चावचं चतुर्भिर्युतया पञ्चाशताथ वीचीनाम् ।
श्रीधरदासेन कृतः कृतिना चाटुप्रवाहोऽयम् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP