संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १६ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १६ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १६ Translation - भाषांतर दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥१६.१॥अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननां ॥१६.२॥विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥१६.३॥प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥१६.४॥अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥१६.५॥जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यतां ॥१६.६॥अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥१६.७॥कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति ।प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥१६.८॥विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृतां ॥१६.९॥घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥१६.१०॥सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥१६.११॥विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥१६.१२॥चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तं ।समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥१६.१३॥समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥१६.१४॥विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृतां ।असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥१६.१५॥इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥१६.१६॥मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥१६.१७॥अतिक्ॐअलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशं ।वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यतां ॥१६.१८॥प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशाथ् ॥१६.१९॥हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥१६.२०॥सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥१६.२१॥उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥१६.२२॥परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥१६.२३॥अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झितां ।खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥१६.२४॥प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।अनुहुङ्कुरुते घनध्वनिं न हि ग्ॐआयुरुतानि केसरी ॥१६.२५॥जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥१६.२६॥वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥१६.२७॥परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥१६.२८॥सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥१६.२९॥प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुं ।विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसां ॥१६.३०॥किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयं ॥१६.३१॥विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधं ।दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥१६.३२॥नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरं ॥१६.३३॥समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥१६.३४॥महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥१६.३५॥यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतं ।अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥१६.३६॥यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियं ।विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधं ॥१६.३७॥निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसां ।पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥१६.३८॥विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महथ् ॥१६.३९॥विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः ।न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥१६.४०॥कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहं ।उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥१६.४१॥उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥१६.४२॥अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितं ।रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥१६.४३॥अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥१६.४४॥त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥१६.४५॥क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥१६.४६॥अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मतां ॥१६.४७॥अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यथ् ॥१६.४८॥गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥१६.४९॥अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥१६.५०॥क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किं ॥१६.५१॥प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥१६.५२॥तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥१६.५३॥परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥१६.५४॥न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथं ।भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥१६.५५॥हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥१६.५६॥प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥१६.५७॥अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥१६.५८॥निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितं ।न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥१६.५९॥न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषां ॥१६.६०॥प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥१६.६१॥मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥१६.६२॥समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिं ॥१६.६३॥तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥१६.६४॥दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीं ।भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥१६.६५॥अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयं ॥१६.६६॥चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः.अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥१६.६७॥न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥१६.६८॥स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीं ।बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवं ॥१६.६९॥अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥१६.७०॥भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषां ।रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥१६.७१॥नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिं ॥१६.७२॥अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचिथ् ॥१६.७३॥घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥१६.७४॥इति पूर इवोदकस्य यः सरितां प्रवृषिजस्तटद्रुमैः ।क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥१६.७५॥अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥१६.७६॥कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥१६.७७॥इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥१६.७८॥महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥१६.७९॥परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठां ।न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥१६.८०॥यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥१६.८१॥भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥१६.८२॥लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुं ।लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥१६.८३॥विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषां इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥१६.८४॥विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थां ।रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ ॥१६.८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP