संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ४ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ४ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ४ Translation - भाषांतर निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां ।नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥४.१॥गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः ।विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥४.२॥क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः ।श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥४.३॥सहस्रसंख्यैर्गगनं पादैर्भुवं व्याप्य वितिष्ठमानं ।विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भं ॥४.४॥क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिं ॥४.५॥छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानां ।कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥४.६॥स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तं ॥४.७॥विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानं ॥४.८॥राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणां ।कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तं ॥४.९॥मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥४.१०॥यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥४.११॥अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥४.१२॥यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥४.१३॥विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या ।रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥४.१४ ॥यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि ।वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानां ॥४.१५॥फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकां ॥४.१६॥दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥४.१७॥उच्चारणज्ञेऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तं ।उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥४.१८॥आच्छादितायतददिगम्बरमुच्चकैर्गां आक्रम्यसंस्थितमुदग्रविशालशृङ्गं ।मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनं उद्वीक्ष्य को भुवि न विस्मयते नगेशं ॥४.१९॥उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तं ।वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलां ॥४.२०॥वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥४.२१॥पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालं ।संपूर्णलब्धललनालापनोपमानं उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥४.२२॥कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥४.२३॥स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः ।जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥४.२४॥उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः ।श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षं ॥४.२५॥एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥४.२६॥इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥४.२७॥उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलां ॥४.२८॥अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥४.२९॥धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी ।श्यामीभूताः कुसुमसमूहोऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥४.३०॥व्य्ॐअस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।स्ॐएरवीमधिगतेन नितम्बशोभां एतेन भारतमिलावृतवद्विभाति ॥४.३१॥रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥४.३२॥कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः ।प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥४.३३॥आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालं ।पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥४.३४॥वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥४.३५॥विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयं ।भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥४.३६॥विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥४.३७॥बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किंनरं प्रियायाः ।श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्रीं उत्तुङ्गस्तनभरभङ्गभीरुमध्यां ॥४.३८॥यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालं ।न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालं ॥४.३९॥दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।अस्मिन्भजन्ति घनक्ॐअलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥४.४०॥अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसोऽनुकृतिं ।विरलविकीर्णवज्रशकला सकलां इह विदधाति धौतकलधौतमही ॥४.४१॥वर्जयन्त्या जनैः संगमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया संन्नतापङ्गया ॥४.४२॥संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥४.४३॥मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु ।शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलीसलिलस्य ॥४.४४॥या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानं ।तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानां ॥४.४५॥भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसंख्यां ।दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥४.४६॥अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥४.४७॥मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४.४८॥प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः ।संलक्ष्यतेविविधरत्नकरानुविद्धं ऊर्ध्वप्रसारितसुराधिपचापचारु ॥४.४९॥दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥४.५०॥सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः ।नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥४.५१॥आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।शस्वङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नीरदानां ॥४.५२॥अन्योन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।विस्मेरान्गगनसदः करोत्यमुष्मिन्नाकाशेरचितमभित्ति चित्रकर्म ॥४.५३॥समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनां ।बिभर्तिजनयन्नयं मुदमपां अपायधवला वलाहकततीः ॥४.५४॥मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुं ॥४.५५॥मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ।अवनतशितिकण्ठकण्ठलक्ष्मीं इह दधति श्फुरिताणुरेणुजालाः ॥४.५६॥या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥४.५७॥सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥४.५८॥एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥४.५९॥इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥४.६०॥त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥४.६१॥प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः ।दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥४.६२॥भग्ने निवासोऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः ।तीव्राणि तेनोज्झति कोपितोऽसौ ससानतोयेन विषाणि नागः ॥४.६३॥प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते ।सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥४.६४॥नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः ।अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्यां ॥४.६५॥दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरं ॥४.६६॥दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥४.६७॥अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥४.६८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP