संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ११ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ११ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ११ Translation - भाषांतर श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जं ।प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥११.१॥रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ ।रजनिविरतिशंसी कामिनीनां भविष्यद्-विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥११.२॥स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेथ् ।शकटमिव महीयः शैशवे शार्ङ्गपाणेश्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रं ॥११.२॥प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥११.४॥विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशं ।रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरी किं करोतु ॥११.५॥क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातं ॥११.६॥क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः ।मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥११.७॥द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव ।शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥११.८॥अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथं ॥११.९॥गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥११.१०॥परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥११.११॥उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा ।स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥११.१२॥चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥११.१३॥कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशां ।हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥११.१४॥दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थां ॥११.१५॥मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जां ।वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥११.१६॥अविरतरतलीलायाःसजातश्रमाणां उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानां ।पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥११.१७॥अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।इदमुदवसितानामस्फुटालोकसंपन्-नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥११.१८॥विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः ।प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥११.१९॥लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः ।तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥११.२०॥शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥११.२१॥नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा ।अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥११.२२॥सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥११.२३॥सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥११.२४॥व्रजतिविषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन ।परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥११.२५॥विगततिमिरपङ्गं पश्यति व्य्ॐअ यावद्धुवति विरहखिन्नः पक्षती यावदेव ।रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥११.२६॥मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥११.२७॥विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥११.२८॥नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ।अपि रहसि कृतानां वाग्विहीनोऽपिजातः सुरतविलसितानां वर्णको वर्णकोऽसौ ॥११.२९॥प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः ।उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥११.३०॥सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥११.३१॥प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥११.३२॥तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥११.३३॥नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टं ।प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुं ॥११.३४॥इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामं ।करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥११.३५॥मदनमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ॥११.३६॥करजदशनचिह्नं निशमङ्गेऽन्यनारी-जनितमिति सरोषमीर्ष्यया शङ्कमानां ।स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥११.३७॥कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ।विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥११.३८॥बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य ।विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥११.३९॥अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥११.४०॥प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर्हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥११.४१॥प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥११.४२॥नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानं ।जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥११.४३॥विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः ।कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यतेर्ऽकः ॥११.४४॥पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥११.४५॥अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥११.४६॥उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन्सकमलमुखहासं वीक्षितः पद्मिनीभिः ।विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्गके हेलया बालसूर्यः ॥११.४७॥क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकं ।भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥११.४८॥परिणतमदिराभं भास्करेण्ॐशुबाणैस्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥११.४९॥दधतिपरिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलां ॥११.५०॥अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥११.५१॥सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥११.५२॥प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभं ।अरुणितमकठोरैर्वेश्म काश्मीरजाम्भः-स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥११.५३॥सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।विदधति दशनानां सीत्कृताविष्कृतानां अभिनवरविभासः पद्मरागानुकारं ॥११.५४॥अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।कनकनिकषरेखा क्ॐअलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥११.५५॥सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः ।अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥११.५६॥अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥११.५७॥प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्यां ।बहिरभिहतमद्रेः संहतं कन्दरान्तर्-गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥११.५८॥बहिरपि विलसन्त्यः काममानिन्यिरे यद्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु ।नियतविषयवृत्तेरप्यनल्पप्रताप-क्षतसकलविपक्षस्तेजसः स स्वभावः ॥११.५९॥चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ।दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥११.६०॥युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर्दशशतदलभेदं कौतुकेनाशुकृत्वा ।श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्-भवनमधिशयानामादरात्पश्यतीव ॥११.६१॥अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ।अवकिरति नितान्तं कान्तिनिर्यासमब्द-स्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥११.६२॥प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।सितकरवपुषासौ लक्ष्यते संप्रति द्यौर्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥११.६३॥कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः ।उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥११.६४॥क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्तादुपगतवति पाणिग्राहवद्दिग्वधूनां ।द्रुततरमुपयाति स्रंसमानांशुकोऽसावुपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ॥११.६५॥प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकोऽधिशेते ॥११.६६॥कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥११.६७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP