संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ५ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ५ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ५ Translation - भाषांतर इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः ।रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥५.१॥तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गं अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥५.२॥भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन ।संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥५.३॥आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥५.४॥आरक्षमग्नमवमत्य सृणिं शिताग्रं एकः पलायत जवेन कृतार्तनादः ।अन्यपुनर्मुहुरुदप्लवतास्तभारं अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥५.५॥आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वं ।नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥५.६॥त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार ।यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥५.७॥शैलोपशल्यनिपतद्रथनेमिधारा-निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।भूरेणवोनभसि नद्धपयोदचक्राश्चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥५.८॥उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु ।पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥५.९॥तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन ॥५.१०॥नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः ॥५.११॥उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः ।वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥५.१२॥विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥५.१३॥छायामपास्य महतीमपि वर्तमानां आगामिनीं जगृहिरे जनतास्रूणां ।सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥५.१४॥अग्रगतेन वसतिं परिगृह्य रम्यां आपात्यसैनिकनिराकराणाकुलेन ।यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥५.१५॥सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीं ।शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥५.१६॥यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-वक्रश्रियः सभयकौतुकमीक्षते स्म ॥५.१७॥कण्ठावसक्तमृदुबाहुलतातुरङ्गाद्राजावरोधनवधूरवतारयन्तः ।आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासां ॥५.१८॥दृष्ट्वेव निर्जतकलापभरामधस्ताद्व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात्संघर्षिणा सह गुणाभ्यधिकैर्दुरापं ॥५.१९॥रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानां ॥५.२०॥छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः ।दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥५.२१॥उत्क्षप्तपटकान्तरलीयमानं अन्दानिलप्रशमितश्रमघर्मतोयैः ।दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥५.२२॥प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूथ् ॥५.२३॥यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ।पर्यापतत्क्रयिकलोकमगण्यपण्य-पूर्णपणा विणुनो विपणीर्विभेजुः ॥५.२४॥अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धं ।उद्यातमुद्रतमनोकहझालमध्यादन्याः शशङ्गुणमनल्पमवन्नवाप ॥५.२५॥त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।तस्थौ तथापि न मृगः क्वचिदङ्गनानां आकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥५.२६॥आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।खिन्नानखिन्नमतिरापततो मनुष्यान्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥५.२७॥सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।सैन्याः श्रियामनुपभोगनिरर्थकत्व-दोषप्रवादममृजन्नगनिमन्गानां ॥५.२८॥नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।जग्मुर्जलानि जलमुड्डकवाद्यवल्गु-वल्गद्धनस्तनतटस्खलितानि मन्दं ॥५.२९॥आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-मुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।स्वेदायत श्वसितनिरस्तवेगमुग्ध-मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥५.३०॥ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलायुधलूनपक्षाः ।तेजग्मुरद्रिपतयः सरसीर्विगाढुं आक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥५.३१॥आत्मानमेव जलधेः प्रतिबिम्बिताङ्गं ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य ।क्रोधादधावदपभीरभिहन्तुमन्य-नागाभियुक्त इव युक्तमहो महेभः ॥५.३२॥नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥५.३३॥पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचिथ् ॥५.३४॥कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।आकर्णमुल्लसितमम्बु विकाशिकाश-नीकाशमाप समतां सितचामरस्य ॥५.३५॥गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।अम्भोधिरोधसि पृथुप्रतिमानभाग-रुद्धोरुदन्तमुसलप्रसरं निपेते ॥५.३६॥दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षूदपाति परितः पटलैरसीनां ॥५.३७॥अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥५.३८॥संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरससाङ्गनिषङ्गिणा च ।क्रीडोपभोगमनुभूय सरिन्महेभावन्योन्यवस्त्रपरिवर्तमिव व्यधत्तां ॥५.३९॥यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥५.४०॥प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्न-निर्याणनिर्यदसृजं चलितं निपादी ।रोद्धुं महेभपरिव्रढिमानमागादाक्रन्तितो न वशमेति महान्परस्य ॥५.४१॥सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभ-तः सहन्ते ॥५.४२॥अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाष-संक्रान्तदानपयसो वनपादपस्य ।सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनां ॥५.४३॥नोच्चैर्यदा तरुतलेषु ममुस्तदानीं आधोरणैरभिहिताः पृथुमूलशाखाः ।बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥५.४४॥उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तर्-उत्फुल्लनीलनलिनोदरतुल्यभासः ।एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥५.४५॥कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।स्थूलेन्द्रनीलशकलावलिक्ॐअलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥५.४६॥निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥५.४७॥स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।बद्धपराणि परितो निगडानेयलावीत्स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥५.४८॥जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ॥५.४९॥क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं ।सस्मार वारणपतिः परिमीलिताक्षं इच्छाविहारवनवासमहोत्सवनां ॥५.५०॥दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-स्नेहस्रुति स्नपितबाहुरिभाधिराजं ॥५.५१॥शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानां ।चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥५.५२॥गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।दर्पोदयोल्लसितफेनजलानुसार-संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥५.५३॥आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।नासाविरोकपवनोल्लसितं तनीयो र्ॐआञ्चतामिव जगाम रजः पृथिव्याः ॥५.५४॥हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥५.५५॥दन्तालिकाधरणनिश्चलपाणियुग्मं अर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥५.५६॥रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव जातमात्रः ॥५.५७॥अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः ।ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥५.५८॥उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।आकुल्यकारि कटकस्तुरगेण तूर्णं अश्वेति विद्रुतमनुद्रुताश्वमन्यं ॥५.५९॥अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥५.६०॥मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥५.६१॥उत्तीर्णभारलघुनाप्यलघूलपौघ-सौहित्यनिःसहतरेण तरोरधस्ताथ् ।र्ॐअन्थमन्थरचलद्गुरुसास्नमासां-चक्रे नीमीलदलसेक्षणमौक्षकेण ॥५.६२॥मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः ।उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥५.६३॥मेदस्विनः सरभसोपगतानभीकान्भङ्कत्वा पराननडुहो मुहुराहवेन ।ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥५.६५॥बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणां अभ्रंलिहानि लिलिहे नवपल्लवानि ॥५.६४॥सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं म्रदीयः ।दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ॥५.६६॥स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञां ।वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥५.६७॥उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।संध्याशुभिन्नघनकर्बुरितान्तरीक्ष-लक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥५.६८॥धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः ।उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥५.६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP