संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १४ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १४ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १४ Translation - भाषांतर तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥१४.१॥लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥१४.२॥तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥१४.३॥बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥१४.४॥सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति ।एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥१४.५॥सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥१४.६॥सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥१४.७॥वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ।को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥१४.८॥स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यथ् ।तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥१४.९॥पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।स्ॐअपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१४.१०॥किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥१४.११॥तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥१४.१२॥सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते ।किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगितां ॥१४.१३॥तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणं ।उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥१४.१४॥शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥१४.१५॥यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥१४.१६॥इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥१४.१७॥आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥१४.१८॥तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥१४.१९॥शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवतां ॥१४.२०॥सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥१४.२१॥बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥१४.२२॥नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलः प्रयोगिणः ॥१४.२३॥संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥१४.२४॥लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥१४.२५॥तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलं ।वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥१४.२६॥स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तथ् ।गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसां ॥१४.२७॥उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियं ॥१४.२८॥निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥१४.२९॥तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषितां ।गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥१४.३०॥प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥१४.३१॥नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनं ।अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥१४.३२॥दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजं ।दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥१४.३३॥वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवथ् ।भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपथ् ॥१४.३४॥किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहं ॥१४.३५॥स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥१४.३६॥शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनां ॥१४.३७॥तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनां ।आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमथ् ॥१४.३८॥मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयं ।आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥१४.३९॥एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयं ॥१४.४०॥प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥१४.४१॥यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ॥१४.४२॥आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥१४.४३॥आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥१४.४४॥नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपथ् ।नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥१४.४५॥निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवथ् ।वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरं ॥१४.४६॥प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणथ् ॥१४.४७॥दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति ।प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥१४.४८॥नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा ।इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥१४.४९॥स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥१४.५०॥रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिं ।अक्षतानि निरवर्तयत्तदा दानह्ॐअयजनानि भूपतिः ॥१४.५१॥एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकं ॥१४.५२॥इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना ।अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥१४.५३॥आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणं ॥१४.५४॥स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिं ।अर्घभाज इति कीर्तयन्ति षट्ते च ते युगपदागताः सदः ॥१४.५५॥शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥१४.५६॥आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः ॥१४.५७॥अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति ।भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥१४.५८॥मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवं ।अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥१४.५९॥ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथं ।आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥१४.६०॥पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥१४.६१॥सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥१४.६२॥भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥१४.६३॥ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥१४.६४॥आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ।बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥१४.६५॥केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥१४.६६॥पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगथ् ॥१४.६७॥मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषःगच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणं ॥१४.६८॥श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलं ।श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहं ॥१४.६९॥सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकं ।जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥१४.७०॥स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयं ।उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धरां ॥१४.७१॥दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।दुर्निवाररणकण्डु क्ॐअलैर्वक्ष एष निरदारयन्नखैः ॥१४.७२॥वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥१४.७३॥दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥१४.७४॥किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥१४.७५॥गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धतां ॥१४.७६॥कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतं ।व्य्ॐनि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितं ॥१४.७७॥यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥१४.७८॥सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥१४.७९॥रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयं ॥१४.८०॥एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीं ॥१४.८१॥निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा ।सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥१४.८२॥तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥१४.८३॥नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमं ।योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥१४.८४॥यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमं ।चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनं ॥१४.८५॥यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीं ।मग्नस्य तोयापदि दुस्तरायां ग्ॐअण्डलस्योद्धरणं चकार ॥१४.८६॥धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादं ॥१४.८७॥भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण ।दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥१४.८८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP