संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण २ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण २ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण २ Translation - भाषांतर यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरं ।अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥२.१॥सार्थमुध्धवसीरिभ्यामथासावसदत्सदःगुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियं ॥२.२॥जाज्वल्यमाना जगतः शान्तये समुपेयुषीव्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥२.३॥रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।एकाकिनोऽपि परितः पौरुषेयवृता इव ॥२.४॥अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥२.५॥गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥२.६॥द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥२.७॥भवद्गिरामवसरप्रदानाय वचांसि नः ।पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥२.८॥करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशां ।विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥२.९॥उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥२.१०॥न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमां ॥२.११॥मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥२.१२॥यावदर्थपदां वाचमेवमादाय माधवः ।विरराम महीयांसः प्रकृत्या मितभाषिणः ॥२.१३॥ततः सपत्नापनयस्मरणानुशयस्फुरा ।ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥२.१४॥विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षतां ॥२.१५॥घूर्णयन्मदिरास्वादमदपाटलितद्युती ।रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥२.१६॥आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥२.१७॥दधत्संन्ध्यारुणव्य्ॐअस्फुरत्तारानुकारिणीः ।द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥२.१८॥प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीं ॥२.१९॥ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥२.२०॥जगादवदनछद्मपद्मपर्यन्तपातिनः ।नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२.२१॥यद्वासुदेवेनादीनमनादीनवमीरितं ।वचसस्तस्य सपदि क्रिया केवलमुत्तरं ॥२.२२॥नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।इन्धनौघधगप्यग्नित्विषा नात्येति पूषणं ॥२.२३॥संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥२.२४॥विरोधिवचसो मूकान्वगीशानपि कुर्वते ।जडानप्यनुल्ॐआर्थान्प्रवाचः कृतिनां गिरः ॥२.२५॥षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलं ॥२.२६॥अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितं ॥२.२७॥सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकं ।सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृतां ॥२.२८॥मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥२.२९॥आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥२.३०॥तृप्तियोगः परेणापिमहिम्ना न महात्मनां ।पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥२.३१॥संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य तां ॥२.३२॥शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥२.३३॥विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥२.३४॥ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखं ।पुरः क्लश्नाति स्ॐअं हि सैंहिकेयोऽसुरद्रुहां ॥२.३५॥सखागरीयान्शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥२.३६॥उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥२.३७॥त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥२.३८॥त्वयि भ्ॐअं गते जेतुमरौत्सीत्स पुरीमिमां ।प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥२.३९॥आलाप्यालमिदं बभ्रोयत्स दारानपाहरथ् ।कथापि खलु पापानामलमश्रेयसे यतः ॥२.४०॥विराद्ध एवं भमता विराद्धा बहुधा च नः ।निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥२.४१॥विधायवैरं सामर्षेनरेऽरौ यः उदासते ।प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतं ॥२.४२॥मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥२.४३॥अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥२.४४॥माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति ।तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥२.४५॥पदाहतं यदुत्थाय मूर्धानमधिरोहति ।स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः ॥२.४६॥असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलं ॥२.४७॥तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥२.४८॥तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यथ् ।हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलं ॥२.४९॥स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी ।निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥२.५०॥तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।पञ्चम पञ्चपसस्तपनो जातवेदसां ॥२.५१॥अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषां ।कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥२.५२॥अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥२.५३॥चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥२.५४॥सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥२.५५॥गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥२.५६॥स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे ।यानमाहुस्तदासीनं त्वामुत्थापयति द्वयं ॥२.५७॥लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥२.५८॥विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यतां ।फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥२.५९॥हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥२.६०॥नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥२.६१॥अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥२.६२॥इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥२.६३॥निरुद्धवीवधासारप्रसारा गा इव व्रजं ।उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥२.६४॥यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥२.६५॥प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषां ।शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥२.६६॥इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥२.६७॥निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥२.६८॥भारतीमाहितभरामथानुद्धतमुद्धवः ।तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजं ॥२.६९॥संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकं ॥२.७०॥तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवं ।तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥२.७१॥वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥२.७२॥बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥२.७३॥म्रदीयसीमपि घनामनल्पगुणकल्पितां ।प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥२.७४॥विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥२.७५॥पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥२.७६॥सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंं ॥२.७७॥स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवथ् ॥ २.७८॥आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥२.७९॥उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥२.८०॥उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥२.८१॥बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥२.८२॥तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।नैकमोजः प्रसादो वा रसभावविदः कवेः ॥२.८३॥कृतापचारोऽपि परैरनाविष्कृतविक्रियः ।असाध्यः कुरुते वा रसभावविदः कवेः ॥२.८४॥मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥२.८५॥नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥२.८६॥स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥२.८७॥तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥२.८८॥करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीं ।प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥२.८९॥अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥२.९०॥अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥२.९१॥यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।एकार्थतन्तुप्रोतायां नायको नायकायते ॥२.९२॥षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥२.९३॥स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।अयथाबलमारम्भो निदानं क्षयसंपदः ॥२.९४॥तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥२.९५॥मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥२.९६॥संपादितफलस्तेन सपक्षः परभेदनः ।कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥२.९७॥ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।तमःस्वभावस्ते ।प्येनं प्रदोषमनुयायिनः ॥२.९८॥उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥२.९९॥बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥२.१००॥तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥२.१०१॥मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकं ।हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥२.१०२॥संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।सहायमध्वरधुरां धर्मराजो विवक्षते ॥२.१०३॥महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि ।सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥२.१०४॥चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥२.१०५॥मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥२.१०६॥अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥२.१०७॥सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतं ॥२.१०८॥तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवथ् ।नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥२.१०९॥स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।समयावधिमप्राप्यय नान्तायालं भवानपि ॥२.११०॥कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदं ।विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥२.१११॥अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।शब्दविद्येव नो भाति राजनीतिरस्पशा ॥२.११२॥अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥२.११३॥उपेयिवांसि कर्तारः पुरीमाजातशत्रवीं ।राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥२.११४॥सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥२.११५॥य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः ।बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥२.११६॥सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥२.११७॥इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥२.११८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP