संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ७ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ७ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ७ Translation - भाषांतर अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीं ।निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥७.१॥दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुं ॥७.२॥अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥७.३॥नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥७.४॥अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः ।अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥७.५॥गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥७.६॥तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा मां ॥७.७॥न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥७.८॥सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥७.९॥गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥७.१०॥प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ॥७.११॥द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीं ।नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥७.१२॥इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥७.१३॥यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयं ।द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥७.१४॥अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥७.१५॥अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥७.१६॥मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥७.१७॥गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥७.१८॥लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥७.१९॥जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥७.२०॥अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥७.२१॥अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥७.२२॥मदनरसमहौघपूर्णनाभीह्रदपरिवाहितर्ॐअराजयस्ताः ।सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥७.२३॥श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्कां ॥७.२४॥मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥७.२५॥असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणां ।मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि ॥७.२६॥उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ॥७.२७॥रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तस्ॐअनस्याः ।जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानं ॥७.२८॥अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥७.२९॥मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षं ॥७.३०॥अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥७.३१॥प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥७.३२॥विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनर्ॐअराजिः ।कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥७.३३॥प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥७.३४॥व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजं ।अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचिथ् ॥७.३५॥अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥७.३६॥कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥७.३७॥अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥७.३८॥किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥७.३९॥कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥७.४०॥अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानां ।मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥७.४१॥सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥७.४२॥इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानां ॥७.४३॥मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥७.४४॥व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥७.४५॥विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥७.४६॥सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥७.४७॥मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥७.४८॥उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्यां ॥७.४९॥इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥७.५०॥विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ॥७.५१॥अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥७.५२॥न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥७.५३॥तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मं ॥७.५४॥मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनां ।वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥७.५५॥इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥७.५६॥विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥७.५७॥स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानां ।वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छथ् ॥७.५८॥समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥७.५९॥अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥७.६०॥अवचितकुसुमा विहाय वल्लीर्युवतीषु क्ॐअलमाल्यमालिनीषु ।पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानं ॥७.६१॥श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥७.६२॥अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥७.६३॥अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥७.६४॥स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥७.६५॥अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥७.६६॥अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥७.६७॥मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥७.६८॥प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासां ॥७.६९॥विपुलकमपि यौवनोद्धतानां घनपुलकोदयक्ॐअलं चकाशे ।परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनां ॥७.७०॥अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठं ।विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥७.७१॥अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥७.७२॥हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥७.७३॥गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥७.७४॥प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥७.७५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP