संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण ३ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण ३ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण ३ Translation - भाषांतर कौबेरदिग्भागं अपास्य मार्गं आगस्त्यं इव आशुः इव अवतार्णः ।अपेतयुद्धाभिनिवेशस्ॐयो हरिहरप्रस्थं अथ प्रतस्थे ॥३.१॥जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यं अयुज्यत अर्कः ।यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥३.२॥मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः ।भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥३.३॥चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः ।अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥३.४॥तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा ।अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥३.५॥तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनां ।बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥३.६॥निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥३.७॥उभौयदि व्य्ॐनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेतां ।तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥३.८॥तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः ।अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥३.९॥मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य ।अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥३.१०॥स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥३.११॥प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतथ् ।वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥३.१२॥कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥३.१३॥प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनं ॥३.१४॥आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां ॥३.१५॥यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव ।निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥३.१६॥तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन ।चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥३.१७॥विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती ।नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥३.१८॥न केवलं यः स्वतया मुरारेरसाधारणतां दधानः ।अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूथ् ॥३.१९॥न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु ।विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥३.२०॥प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥३.२१॥रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गं ।महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥३.२२॥ध्वजाग्रधामा ददृशेऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु ।फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥३.२३॥यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः ।जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥३.२४॥यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततोऽधः ।महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥३.२५॥अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि ।क्रियाफलानीव सुनीतिभाजं सैन्यानि स्ॐआन्वयन्वयुस्तं ॥३.२६॥श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः ।आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥३.२८॥न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥३.२७॥निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥३.२९॥अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥३.३०॥दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥३.३१॥उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः ।रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातं ॥३.३२॥मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥३.३३॥कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥३.३४॥त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा ।अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥३.३५॥रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥३.३६॥यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन ।वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि ॥३.३७॥वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ।लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥३.३८॥अम्भुच्युतः क्ॐअलरत्नराशीनपांनिधिः फेनपिनद्धभासः ।त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥३.३९॥यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥३.४०॥कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः ।रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥३.४१॥यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः ।आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥३.४२॥स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः ।आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥३.४३॥कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।उच्चैरधपातिपय्ॐउचोऽपि समूहमूहुः पययसां प्रणाल्यः ॥३.४४॥रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्योऽधिगृहं गृहिण्यः.बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥३.४५॥यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः ।चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥३.४६॥सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानां ।यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥३.४७॥शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां ।यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना ग्ॐअयग्ॐउखानि ॥३.४८॥गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः ।हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥३.४९॥बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै ।रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥३.५०॥चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां ।मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥३.५१॥क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षथ् ॥३.५२॥रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥३.५३॥सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसां ।मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥३.५४॥रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः ।रुतानिश्रुण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानां ॥३.५५॥छन्नेऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥३.५६॥यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयोऽत्यजन्तः ।जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥३.५७॥परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥३.५८॥क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव ।अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ॥३.५९॥कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः ।यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥३.६०॥बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥३.६१॥निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय ।उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥३.६३॥स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः ।विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥३.६२॥तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः ।वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥३.६४॥प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥३.६५॥श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥३.६६॥निरन्तरालेऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन ।तेज्ॐअहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥३.६७॥शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः ।सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥३.६८॥बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीथ् ॥३.६९॥पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥३.७१॥लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः ।लतावधूसंप्रयुजोऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥३.७०॥आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं ।फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥३.७२॥पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गतेऽप्यात्मनि नैव मान्तीः ।क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥३.७३॥साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी ।तान्यकदेशान्निभृतंपयोधेः सोऽम्भांसि मेघान्पिबतः ददर्श ॥३.७४॥उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिं ॥३.७५॥विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः ।तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दथ् ॥३.७६॥उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥३.७७॥तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥३.७८॥उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज ।तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः ॥३.८०॥उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥३.७९॥लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥३.८१॥तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महथ् ॥३.८२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP