संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय २१ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय २१ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २१ Translation - भाषांतर मात्स्य-माहिष-वाराह-पिशितामक-मूलकम् ।माष-सूप-दधि-क्षीर-शुक्तेक्षु-रस-फाणितम् ॥१॥२१.१ मत्स्य-माहिष-वाराह- अवाक्-शय्यां च भजतो द्विषतो दन्त-धावनम् ।धूम-च्छर्दन-गण्डूषान् उचितं च सिरा-व्यधम् ॥२॥क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्य् अन्तर् मुखं गदान् ।तत्र खण्डौष्ठ इत्य् उक्तो वातेनौष्ठो द्वि-धा कृतः ॥३॥२१.३ कुर्वन्त्य् अन्तर्-मुखे गदान् ओष्ठ-कोपे तु पवनात् स्तब्धाव् ओष्ठौ महा-रुजौ ।दाल्येते परिपाट्येते परुषासित-कर्कशौ ॥४॥पित्तात् तीक्ष्ण-सहौ पीतौ सर्षपाकृतिभिश् चितौ ।पिटिकाभिर् बहु-क्लेदाव् आशु-पाकौ कफात् पुनः ॥५॥२१.५ पिटिकाभिर् महा-क्लेदाव् शीता-सहौ गुरू शूनौ स-वर्ण-पिटिकाचितौ ।संनिपाताअनेकाभौ दुर्-गन्धास्राव-पिच्छिलौ ॥६॥२१.६ दुर्-गन्ध-स्राव-पिच्छिलौ २१.६ दुर्-गन्धाव् अति-पिच्छिलौ अ-कस्मान् म्लान-संशून-रुजौ विषम-पाकिनौ ।रक्तोपसृष्टौ रुधिरं स्रवतः शोणित-प्रभौ ॥७॥खर्जूर-सदृशं चात्र क्षीणे रक्ते ऽर्बुदं भवेत् ।मांस-पिण्डोपमौ मांसात् स्यातां मूर्छत्-कृमी क्रमात् ॥८॥तैलाभ-श्वयथु-क्लेदौ स-कण्ड्वौ मेदसा मृदू ।क्षत-जाव् अवदीर्येते पाट्येते चा-सकृत् पुनः ॥९॥२१.९ स-कण्डू मेदसा मृदू २१.९ पाट्येते वा-सकृत् पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशन-च्छदौ ।जल-बुद्बुद-ववात-कफाओष्ठे जलार्बुदम् ॥१०॥गण्डालजी स्थिरः शोफो गण्डे दाह-ज्वरान्वितः ।वाताउष्ण-सहा दन्ताः शीत-स्पर्शे ऽधिक-व्यथाः ॥११॥दाल्यन्त इव शूलेन शीताख्यो दालनश् च सः ।दन्त-हर्षे प्रवाताम्ल-शीत-भक्षा-क्षमा द्वि-जाः ॥१२॥२१.१२ -शीत-भक्ष्या-सहा द्वि-जाः भवन्त्य् अम्लाशनेनेव स-रुजाश् चलिता इव ।दन्त-भेदे द्वि-जास् तोद-भेद-रुक्-स्फुटनान्विताः ॥१३॥२१.१३ स-रुजश् चलिता इव २१.१३ -भेद-रुक्-वेदनान्विताः चालश् चलद्भिर् दशनैर् भक्षणाअधिक-व्यथैः ।करालस् तु करालानां दशनानां समुद्गमः ॥१४॥२१.१४ दशनानां समुद्भवः २१.१४ दशनानां समुद्भवे दन्तो ऽधिको ऽधि-दन्ताख्यः स चोक्तः खलु वर्धनः ।जायमाने ऽति-रुग् दन्ते जाते तत्र तु शाम्यति ॥१५॥२१.१५ जायते जायमाने ऽति २१.१५ रुग् जाते तत्र शाम्यति अ-धावनान् मलो दन्ते कफो वा वात-शोषितः ।पूति-गन्धिः स्थिरी-भूतः शर्करा साप्य् उपेक्षिता ॥१६॥२१.१६ पूति-गन्धः स्थिरी-भूतः २१.१६ शर्करा सो ऽप्य् उपेक्षितः शातयत्य् अणु-शो दन्तात् कपालानि कपालिका ।श्यावः श्याव-त्वम् आयातो रक्त-पित्तानिलैर् द्वि-जः ॥१७॥२१.१७ शातयत्य् अणु-शो दन्त- २१.१७ -कपालानि कपालिका २१.१७ श्यावः श्याव-त्वम् आयाता २१.१७ रक्त-पित्तानिलैर् द्वि-जाः स-मूलं दन्तम् आश्रित्य दोषैर् उल्बण-मारुतैः ।शोषिते मज्ज्ञि सुषिरे दन्ते ऽन्न-मल-पूरिते ॥१८॥पूति-त्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः ।अ-हेतु-तीव्रार्ति-शमः स-संरम्भो ऽसितश् चलः ॥१९॥प्रलूनः पूय-रक्त-स्रुत् स चोक्तः कृमि-दन्तकः ।श्लेष्म-रक्तेन पूतीनि वहन्त्य् अस्रम् अ-हेतुकम् ॥२०॥२१.२० प्रभूत-पूय-रक्त-स्रुत् शीर्यन्ते दन्त-मांसानि मृदु-क्लिन्नासितानि च ।शीतादो ऽसाव् उप-कुशः पाकः पित्तासृग्-उद्भवः ॥२१॥दन्त-मांसानि दह्यन्ते रक्तान्य् उत्सेध-वन्त्य् अतः ।कण्डू-मन्ति स्रवन्त्य् अस्रम् आध्मायन्ते ऽसृजि स्थिते ॥२२॥चला मन्द-रुजो दन्ताः पूति वक्त्रं च जायते ।दन्तयोस् त्रिषु वा शोफो बदरास्थि-निभो घनः ॥२३॥कफास्रात् तीव्र-रुक् शीघ्रं पच्यते दन्त-पुप्पुटः ।दन्त-मांसे मलैः सास्रैर् बाह्यान्तः श्वयथुर् गुरुः ॥२४॥स-रुग्-दाहः स्रवेभिन्नः पूयास्रं दन्त-विद्रधिः ।श्वयथुर् दन्त-मूलेषु रुजा-वान् पित्त-रक्त-जः ॥२५॥२१.२५ पूयास्रे दन्त-विद्रधिः लाला-स्रावी स सुषिरो दन्त-मांस-प्रशातनः ।स संनिपाताज् ज्वर-वान् स-पूय-रुधिर-स्रुतिः ॥२६॥२१.२६ स संनिपात-ज्वर-वान् महा-सुषिर इत्य् उक्तो विशीर्ण-द्वि-ज-बन्धनः ।दन्तान्ते कील-वछोफो हनु-कर्ण-रुजा-करः ॥२७॥२१.२७ विशीर्ण-रद-बन्धनः प्रतिहन्त्य् अभ्यवहृतिम् श्लेष्मणा सो ऽधि-मांसकः ।घृष्टेषु दन्त-मांसेषु संरम्भो जायते महान् ॥२८॥यस्मिंश् चलन्ति दन्ताश् च स विदर्भो ऽभिघात-जः ।दन्त-मांसाश्रितान् रोगान् यः साध्यान् अप्य् उपेक्षते ॥२९॥२१.२९ स वैदर्भो ऽभिघात-जः अन्तस् तस्यास्रवन् दोषः सूक्ष्मां संजनयेगतिम् ।पूयं मुहुः सा स्रवति त्वङ्-मांसास्थि-प्रभेदिनी ॥३०॥ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर् यथोदितैः ।शाक-पत्त्र-खरा सुप्ता स्फुटिता वात-दूषिता ॥३१॥जिह्वा पित्तात् स-दाहोषा रक्तैर् मांसाङ्कुरैश् चिता ।शाल्मली-कण्टकाभैस् तु कफेन बहला गुरुः ॥३२॥२१.३२ कफेन बहुला गुरुः कफ-पित्ताअधः शोफो जिह्वा-स्तम्भ-कृउन्नतः ।मत्स्य-गन्धिर् भवेत् पक्वः सो ऽलसो मांस-शातनः ॥३३॥प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्र-संनिभः ।साङ्कुरः कफ-पित्तास्रैर् लालोषा-स्तम्भ-वान् खरः ॥३४॥२१.३४ प्रलम्बनो ऽधो जिह्वायाः अधि-जिह्वः स-रुक्-कण्डुर् वाक्याहार-विघात-कृत् ।तादृग् एवोप-जिह्वस् तु जिह्वाया उपरि स्थितः ॥३५॥तालु-मांसे ऽनिलादुष्टे पिटिकाः स-रुजः खराः ।बह्व्यो घनाः स्राव-युतास् तास् तालु-पिटिकाः स्मृताः ॥३६॥२१.३६ पिटिकाः स-रुजाः खराः २१.३६ बह्व्यो घनाः स्राव-युक्तास् तालु-मूले कफात् सास्रान् मत्स्य-वस्ति-निभो मृदुः ।प्रलम्बः पिच्छिलः शोफो नासयाहारम् ईरयन् ॥३७॥कण्ठोपरोध-तृट्-कास-वमि-कृत् गल-शुण्डिका ।तालु-मध्ये नि-रुङ् मांसं संहतं तालु-संहतिः ॥३८॥पद्माकृतिस् तालु-मध्ये रक्ताछ्वयथुर् अर्बुदम् ।कच्छपः कच्छपाकारश् चिर-वृद्धिः कफाअ-रुक् ॥३९॥कोलाभः श्लेष्म-मेदोभ्यां पुप्पुटो नी-रुजः स्थिरः ।पित्तेन पाकः पाकाख्यः पूयास्रावी महा-रुजः ॥४०॥वात-पित्त-ज्वरायासैस् तालु-शोषस् तद्-आह्वयः ।जिह्वा-प्रबन्ध-जाः कण्ठे दारुणा मार्ग-रोधिनः ॥४१॥मांसाङ्कुराः शीघ्र-चया रोहिणी शीघ्र-कारिणी ।कण्ठास्य-शोष-कृवातात् सा हनु-श्रोत्र-रुक्-करी ॥४२॥२१.४२ रोहिणी साशु-कारिणी पित्ताज् ज्वरोषा-तृण्-मोह-कण्ठ-धूमायनान्विता ।क्षिप्र-जा क्षिप्र-पाकाति-रागिणी स्पर्शना-सहा ॥४३॥कफेन पिच्छिला पाण्डुर् असृजा स्फोटकाचिता ।तप्ताङ्गार-निभा कर्ण-रुक्-करी पित्त-जाकृतिः ॥४४॥गम्भीर-पाका निचयात् सर्व-लिङ्ग-समन्विता ।दोषैः कफोल्बणैः शोफः कोल-वग्रथितोन्नतः ॥४५॥शूक-कण्टक-वत् कण्ठे शालूको मार्ग-रोधनः ।वृन्दो वृत्तोन्नतो दाह-ज्वर-कृगल-पार्श्व-गः ॥४६॥हनु-संध्य्-आश्रितः कण्ठे कार्पासी-फल-संनिभः ।पिच्छिलो मन्द-रुक् शोफः कठिनस् तुण्डिकेरिका ॥४७॥२१.४७ कर्पासी-फल-संनिभः बाह्यान्तः श्वयथुर् घोरो गल-मार्गार्गलोपमः ।गलौघो मूर्ध-गुरु-ता-तन्द्रा-लाला-ज्वर-प्रदः ॥४८॥वलयं नाति-रुक् शोफस् तद्-वएवायतोन्नतः ।मांस-कीलो गले दोषैर् एको ऽनेको ऽथ-वा ऽल्प-रुक् ॥४९॥कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथु-मूलो गिलायुकः ।भूरि-मांसाङ्कुर-वृता तीव्र-तृड्-ज्वर-मूर्ध-रुक् ॥५०॥२१.५० पृथु-मूलो गलायुकः शत-घ्नी निचिता वर्तिः शत-घ्नीवाति-रुक्-करी ।व्याप्त-सर्व-गलः शीघ्र-जन्म-पाको महा-रुजः ॥५१॥२१.५१ शत-घ्नी-निचितेवान्तः २१.५१ शत-घ्नी चाति-रुक्-करी पूति-पूय-निभ-स्रावी श्वयथुर् गल-विद्रधिः ।जिह्वावसाने कण्ठादाव् अ-पाकं श्वयथुं मलाः ॥५२॥जनयन्ति स्थिरं रक्तं नी-रुजं तगलार्बुदम् ॥५३अ॥२१.५३ नी-रुजं तं गलार्बुदम् पवन-श्लेष्म-मेदोभिर् गल-गण्डो भवेबहिः ॥५३च्॥वर्धमानः स कालेन मुष्क-वल् लम्बते ऽति-रुक् ॥५३एf ॥२१.५३fव् मुष्क-वल् लम्बते नि-रुक् कृष्णो ऽरुणो वा तोदाढ्यः स वातात् कृष्ण-राजि-मान् ।वृद्धस् तालु-गले शोषं कुर्याच वि-रसास्य-ताम् ॥५४॥स्थिरः स-वर्णः कण्डू-मान् शीत-स्पर्शो गुरुः कफात् ।वृद्धस् तालु-गले लेपं कुर्याच मधुरास्य-ताम् ॥५५॥२१.५५ वृद्धस् तालु-गले शोफं मेदसः श्लेष्म-वधानि-वृद्ध्योः सो ऽनुविधीयते ।देहं वृद्धश् च कुरुते गले शब्दं स्वरे ऽल्प-ताम् ॥५६॥श्लेष्म-रुद्धानिल-गतिः शुष्क-कण्ठो हत-स्वरः ।ताम्यन् प्रसक्तं श्वसिति येन स स्वर-हानिलात् ॥५७॥करोति वदनस्यान्तर् व्रणान् सर्व-सरो ऽनिलः ।संचारिणो ऽरुणान् रूक्षान् ओष्ठौ ताम्रौ चल-त्वचौ ॥५८॥जिह्वा शीता-सहा गुर्वी स्फुटिता कण्टकाचिता ।विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥५९॥२१.५९ मुखं पाको मुखस्य च अधः प्रतिहतो वायुर् अर्शो-गुल्म-कफादिभिः ।यात्य् ऊर्ध्वं वक्त्र-दौर्गन्ध्यं कुर्वन्न् ऊर्ध्व-गुदस् तु सः ॥६०॥२१.६० कुर्वन्न् ऊर्ध्व-गदस् तु सः मुखस्य पित्त-जे पाके दाहोषे तिक्त-वक्त्र-ता ।क्षारोक्षित-क्षत-समा व्रणास् तद्-वच रक्त-जे ॥६१॥कफ-जे मधुरास्य-त्वं कण्डू-मत्-पिच्छिला व्रणाः ।अन्तः-कपोलम् आश्रित्य श्याव-पाण्डु कफो ऽर्बुदम् ॥६२॥२१.६२ श्यावं पाण्डु कफो ऽर्बुदम् कुर्यात् तघट्टितं छिन्नं मृदितं च विवर्धते ।मुख-पाको भवेत् सास्रैः सर्वैः सर्वाकृतिर् मलैः ॥६३॥२१.६३ कुर्यात् तत् पाटितं छिन्नं २१.६३ कुर्यात् तव्यधितं छिन्नं पूत्य्-आस्य-ता च तैर् एव दन्त-काष्ठादि-विद्विषः ।ओष्ठे गण्डे द्वि-जे मूले जिह्वायां तालुके गले ॥६४॥वक्त्रे सर्व-त्र चेत्य् उक्ताः पञ्च-सप्ततिर् आमयाः ।एका-दशैको दश च त्रयो-दश तथा च षट् ॥६५॥अष्टाव् अष्टा-दशाष्टौ च क्रमात् तेष्व् अन्-उपक्रमाः ।करालो मांस-रक्तौष्ठाव् अर्बुदानि जलाविना ॥६६॥२१.६६ क्रमाएष्व् अन्-उपक्रमाः कच्छपस् तालु-पिटिका गलौघः सुषिरो महान् ।स्वर-घ्नोर्ध्व-गुद-श्याव-शत-घ्नी-वलयालसाः ॥६७॥२१.६७ स्वर-घ्नोर्ध्व-गद-श्याव- नाड्य्-ओष्ठ-कोपौ निचयारक्तात् सर्वैश् च रोहिणी ।दशने स्फुटिते दन्त-भेदः पक्वोप-जिह्विका ॥६८॥गल-गण्डः स्वर-भ्रंशी कृच्छ्रोच्छ्वासो ऽति-वत्सरः ।याप्यस् तु हर्षो भेदश् च शेषाञ् छस्त्रौषधैर् जयेत् ॥६९॥२१.६९ गल-गण्डः स्वर-भ्रंशः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP